नारद पुराण · अध्याय 1.15
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मशान्तिनिर्देशो नाम चतुर्दशो ऽध्यायः
धर्मराज उवाच
पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः ।
शृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः
पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् ।
पच्यन्ते येषु तान्वक्ष्ये भयङ्करफलप्रदान्
तपनोवालुकाकुम्भौमहारौरवरौरवौ ।
कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः
असिपत्रवनं घोरं लालाभक्षोहिमोत्कटः ।
मूषावस्था वसाकूपस्तथा वैतरणी नदी
भक्ष्यन्ते मूत्रपानं च पुरीषह्लद एव च ।
तत्पशूलं तत्पशिला शाल्मलीद्रुम एव च
तथा शोणितकूपश्च घोरः शोणितभोजनः ।
स्वमांसभोजनं चैव वह्निज्वालानिवेशनम्
शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्तथैव च ।
क्षारोदकं चोष्णतोयं तत्पायः पिण्डभभणम्
अथ शिरःशोषणं च मरुत्प्रपतनं तथा ।
तथा पाशाणवर्णं च कृमिभोजनमेव च
क्षारो दपानं भ्रमणं तथा क्रकचदारणम् ।
पुरीषलेपनं चैव पुरीषस्य च भोजनम्
रेतः पानं महाघोरं सर्वसन्धिषुदाहनम् ।
धूमपानं पाशबन्धं नानाशूलानुलेपनम्
अङ्गारशयनं चैव तथा मुसलमर्द्दनम् ।
बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा
पतनोत्पतनं चैव गदादण्डादिपीहनम् ।
गजदन्तप्रहरणं नानासर्पैश्च दंशनम्
शीताम्बुसेचनं चैव नासायां च मुखे तथा ।
घोरक्षाराम्बुपानं च तथा लवणभक्षणम्
स्त्रायुच्छेदं स्नायुबन्धमस्थिच्छेदं तथैव च ।
क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम्
पित्तपानं महाघोरं तथैवःश्लेष्मभोजनम् ।
वृक्षाग्रात्पातनञ्चैव जलान्तर्मज्जनं तथा
पाषाणधारणं चैव शयनं कण्टकोपरि ।
पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम्
व्याघ्रपीडा शिवापीडा तथा महिषमीडनम् ।
कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम्
बहुशश्चार्धशयनं महातिक्तनिषेवणम् ।
अत्युष्णतैलपानं च महाकटुनिषेवणम्
कषायोदकपानं च तत्पपाषाणतक्षणम् ।
अत्युष्णशीतस्नानं च तथा दशनशीर्णनम्
तत्पायः शयनं चैव ह्ययोभारस्य बन्धनम् ।
एवमाद्यामहाभाग यातनाः कोटिकोटिशः
अपि वर्षसहस्रेण नाहं निगदितुं क्षमः ।
एतेषु यस्य यत्प्रात्पं पापिनः क्षितिरक्षक
तत्सर्वं संप्रपक्ष्यामि तन्मे निगदतः शृणु ।
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः
महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः ।
पन्तिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः
आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः ।
ब्रह्मणं यः समाहूय दास्यामीति धनादिकम् ।
एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्मघातिनम्
स्नानार्थं पूजनार्थं वा गच्छतो ब्राह्मणस्य यः ।
समायात्यन्तरायत्वं तमाहुर्ब्रह्मधातिनम्
पस्निन्दासु निरतश्चात्मोत्कर्षरतश्व यः ।
असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः
अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः ।
अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः
दम्भाचाररतश्वैव ब्रह्महेत्यभिधीयते ।
नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः
अधर्मस्यानुममन्ता च ब्रह्महा परिकीर्तितः ।
ब्रह्महत्या समं पापमेव बहुविधं नृप
सुरापानसमं पापं प्रवक्ष्यामि समासतः ।
गणान्नभोजनं चैव गणिकानां निषेवणम्
पतितान्नादनं चैव सुरापानसमं स्मृतम् ।
उपासमापरित्यागो देवलानां च भोजनम्
सुरापयोषित्संयोगः सुरापानसमः स्मृतः ।
यः शूद्रेण समाहतो भोजनं कुरुते द्विजः
सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः ।
यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करिति च
सुरापान समं पापं लभते स नराधमः ।
एवं बहुविधं पापं सुरापानसमं स्मृतम्
हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय ।
कन्दमूलफलानां च कस्तूरी पटवाससाम्
सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् ।
ताम्रायस्त्रपुकांस्यानामाज्यस्य मधुनस्तथा
स्तेयं सुगन्धद्रव्याण्णां स्वर्णस्तेयसमं स्मृतम् ।
क्रमुकस्यापिहरणमम्भसां चन्दनस्य च
पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् ।
पितृयज्ञपरित्यागो धर्मकार्यविलोपनम्
यतीर्नां निन्दतं चैव स्वर्णस्तेयसमं स्मृतम् ।
भक्ष्याणां चापहरणं धान्यानां हरणं तथा
रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् ।
भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा
रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् ।
हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम्
परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् ।
भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम्
विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् ।
अकाले कर्मकरणं पुत्रीगमन मेव च
धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् ।
इत्येवमादयो राजन्महापातकसंज्ञिताः
एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् ।
यथाकथञ्चित्पापानामेतेषां परमर्षिभिः
शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः ।
प्रायश्चित्तविहीनानि पापानि शृणु भूपते
समस्तपापतुल्यानि महानरकदानि च ।
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत्
ब्रह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् ।
विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर
शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् ।
शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम्
सत्कथानिन्दकानाञ्च नेहामुत्रचनिष्कृतिः
बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः ।
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि
बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः
ज्ञानतो ऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः
एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो
पापानि तेषां नरकान्गदतो मे निशामय
महापातकिनस्तेषु प्रत्येकं युगवासिनः ।
तदन्ते पृथिवीमेत्य सत्पजन्मसु गर्दभाः
ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु
ततः सहस्रजन्मानि मृगाद्याः पशवो नृप ।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः
ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः
ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः
असूयाविष्टमनसो रौरवे नरके स्मृतम् ।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु
मा ददस्वेति यो ब्रूयाद्गवान्गिब्राह्मणेषु च ।
शुनां योनिशतं गत्वा चाण्डालेषूपजायते
ततो विष्ठाकृतिमिश्चैव ततो व्याघ्रस्त्रिजन्मसु ।
तदन्ते नरकं याति युगानामेकविंशतिम्
परनिन्दापरा ये च ये च निष्ठुरभाषिणः ।
दानानां विन्घकर्त्तारस्तेषां पापफलं शृणु
मुशलोलू खलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् ।
तदन्ते तत्पपाषाणग्रहणं वत्सरत्रघयम्
ततश्च कालसूत्रेण भिद्यन्ते सत्प वत्सरान् ।
शोचन्तः स्वृनिकर्माणि परद्रव्यापहारकाः
कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम्
परस्वसूचकानां च नरकं शृणु दारुणम् ।
यावद्युगसहस्रं तु तत्पायः पिण्डभक्षणम्
संपीड्यते च रसना संदंशैर्भृशदारुणैः ।
निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते
परस्त्रीलोलुपानां च नरकं कथयामि ते ।
तत्पताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः
यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु ।
विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम्
कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् ।
अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः
तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् ।
पातयित्वा रमन्ते च बहुकालं बलान्विताः
ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् ।
अ यः स्तम्भं समाश्सिष्य तिष्ठन्त्यब्दसहस्रकम्
ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् ।
तदन्ते नरकान् सर्वान् भुञ्जते ऽब्दशतं शतम्
यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् ।
स चापि यातनाः सर्वा भुङ्क्ते कल्पेषु पञ्चसु
यः शृणोति महन्निन्दां सादरं तत्फलं शृणु ।
तेषां कर्णेषु दाप्यन्ते तत्पायः कीलसंचयाः
ततश्च तेषु छिद्रेषु तैलमत्युष्णमुल्बणम् ।
पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते
नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ ।
अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते
ततश्च कल्पपर्यन्तं रौरवे तत्पसैकते ।
भज्यन्ते पापकर्मणो ऽन्येप्येवं नराधिप
ब्राह्मणन्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः ।
तत्पसूचीसहस्रेण चक्षुस्तेषां प्रसूर्यते
ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम ।
ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्ंमणः
विश्वासघातिनां चैव मर्यादाभेदिनां तथा ।
परान्नलोल्लुपानां च नरकं शृणु दारुणम्
स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते ।
नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः
प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः ।
ये च देवलकान्नानां भोजिनस्ताञ्शृणुष्व मे
राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः ।
पच्यन्ते सततं पापाविष्टा भोगरताः सदा
ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः ।
ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम्
तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः ।
अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम्
त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि ।
उपासनापरित्यागी रौरवं नरकं व्रजेत्
विप्रग्रामकरादानं कुर्वतां शृणु भूपते ।
यातनास्वासु पच्यन्ते वावदाचन्द्रतारकम्
ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् ।
स सहस्रकुलो भुङ्क्तेनरकं कल्पपञ्चसु
विप्रग्रामकरादाने यो ऽनुमन्तातु पापकृत् ।
स एव कृतवान् राजन्ब्रह्महत्यासहस्रकम्
कालसूत्रे महाघोरे स वसेद्दिचतुर्युगम् ।
अयोनौ च वियोनौ च पशुयोनौ च यो नरः
त्यजेद्रेतो महापापी सरेतोभोजनं लभेत् ।
वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम्
रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः ।
उपवासदिने राजन्दन्तधावनकृन्नरः
स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् ।
यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः
तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ ।
कल्पकोटिसहस्रेषु प्रान्पुतो नरकान्क्रमात्
देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः ।
ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप
अनाथधनहर्त्तारो ह्यनाथं ये द्विषन्ति च ।
कल्पकोटिसहस्राणि नरके ते वसन्ति च
स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रताः ।
तेषां पापफलं वक्ष्ये शृणुष्व सुसमाहितः
अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भघकद्वये ।
ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम्
जले देवालये वापि यस्त्यजेद्देहजं मलम् ।
भ्रूणहत्यासमं पापं संप्रान्पोत्यतिदारुणम्
दन्तास्थिकेशनखरान्ये त्यज्यन्त्यमरालये ।
जले वा भुक्तशेषं च तेषां पापफलं शृणु
प्रासप्रोता हलैर्भिन्ना आर्त्तरावविराविणः ।
अत्युष्णतैलपाके ऽतितप्यन्ते भृशदारुणे
कुर्वन्ति दुःखसंतत्पास्ततो ऽन्येषु व्रजन्ति च ।
ब्रह्मसंहरते यस्तु गन्धकाष्टं तथैव च
स याति नरकं घोरं यावदाचन्द्रतारकम् ।
ब्रह्मस्वहरणं राजन्निहामात्र च दुःखदम्
इहसंपद्विनाशायपरत्रनरकाय च ।
कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलंशृणु
स याति यातनाः सर्वा यावदिन्द्राश्चतुर्दश ।
इहपुत्राश्च विनश्यन्ति परघत्र च
रौरवं नरकं भुङ्क्ते ततो ऽन्यानपि च क्रमात् ।
ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः
तेषां सुखे जलौका स्तु पूर्य्यन्ते पन्नगोपमाः ।
एवं षष्टिसहस्राब्दे ततः क्षाराम्बगुसेचनम्
ये वृथामांसनिरततास्ते यान्ति क्षारकर्दमम् ।
ततो गजैर्निपातत्यन्ते मरुत्प्रपतनं यथा
तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्ति च ।
यस्त्वृतौ नाभिगच्छेत स्वस्त्रिंय मनुजेश्वर
स याति रौरवं घोरं ब्रह्महकत्यां च विन्दति ।
अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत्
तत्पापं समवान्पोति नरकं तावुभावपि ।
पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति विन्दति
अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप ।
अपापे पातकं यस्तु समरोप्य विनिन्दति
स याति नरकं घोरं यावञ्चर्द्रार्कतारकम् ।
पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च
यस्तु व्रतानि संगृह्य असमाप्य परित्यज्येत् ।
सो ऽसिपत्रे ऽनुभूयार्तिं हीनाङ्गोजायते भुवि
अन्यैः संगृह्यमाणानांव्रतानां विन्घकृन्नरः ।
अतीव दुःखदंरौद्रं स याति श्लोष्मभोजनम्
न्याये च धर्मशिक्षायां पक्षपातं करोति यः ।
न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि
अभोज्यभोजी संप्राप्यं विङ्भोज्यं तु समायुतम् ।
ततश्चण्डालयोनौ तु गोमांसाशी सदा भवेत्
अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति ।
सर्वाश्चयातना भुक्त्वा चाण्डालो दशजन्मसु
विग्राय दीयमाने तु यस्तु विन्घं समाचरेत् ।
ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च
अपहृत्य पःस्यार्थं यः परेभ्यः प्रयच्छति ।
अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम्
प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः ।
यतिनिन्दापरो राजन् शिलानमात्रे प्रयाति हि
आरामच्छेदिनो यान्ति युगानामेकविंशतिम् ।
श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात्
देवतागृहभेत्तारस्तडागानां च भूपते ।
पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छृणु
यातनास्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् ।
ततश्च विष्टाकृमयः कल्पानामेकविंशतिम्
ततश्चाण्डालयोनौ तु शतजन्मानि भूपते ।
ग्रामविध्वं सकानां तु दाहकानां च लुम्पताम्
महत्पापं तदादेष्टुं न क्षमो ऽहं निजायुषा ।
उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्व ये
एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् ।
उच्छिन्नपितॄदेवेज्या वेन्दमार्गबहिःस्थिताः
पापानां यातानानां च धर्माणां चापि भूपते ।
एवं बहुविधा भूप यातनाः पापकारिणणाम्
तेषां तासां च संख्यानं कर्त्तुं नासमहं प्रभो ।
पापानां यातनानां च धर्माणां चापि भूपते
संख्यां निगदितुं लोके कः क्षमो विष्णुना विना ।
एतेषां सर्वपापानां धर्मशास्त्रविधानतः
प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति ।
प्रायश्चित्तानि कार्याणि समीपे कमलापतेः
न्यूनातिरिक्तकृत्यानां संपूर्तिकरणाय च ।
गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम्
अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः ।
विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि
अनर्प्पितानि कर्माणि भस्मविन्यस्तद्रव्यवत् ।
नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम्
विष्णौ समार्पितं सर्वं सात्त्विकं सफलं भवेत् ।
हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी
सा भक्तिद्रशधा ज्ञेया पापारण्यदवोपमा ।
तामसै राजसैश्वैव सात्त्विकैश्च नृपोत्तम
यच्चान्यस्य विनाशार्थं भजनं श्रीपतेर्नृप ।
सा तामस्यधमा भक्तिः खलभावधरा यतः
योर्ऽचयेत्कैतवधिया स्वैरिणी स्वपतिं यथा ।
नारायणं जगन्नाथं तामसी मध्यमा तु सा
देवापूजापरान्दृष्ट्वा मात्सर्याद्योर्ऽचयेद्धीरम् ।
सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता
धनधान्यादिकं यस्तु प्रार्थयन्नर्चयेद्वरिम् ।
श्रद्धया परया युक्तः सा राजस्यधमा स्मृता
यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् ।
अर्चयेत्परया भक्त्या सा मध्या राजसी मता
सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धरिम् ।
सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते
यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिम् ।
श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता
हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः ।
श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा
विधिबुद्ध्यार्चयेद्यस्तु दासवच्छ्रीपतिं नृप ।
भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता
महीमानं हरेर्यस्तु किञ्चित्कृत्वा प्रियो नरः ।
तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा
अहमेव परो विष्णुर्मयिसर्वमिदं जगत् ।
इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम्
एवं दशविधा भक्तिः संसारच्छेदकारिणी ।
तत्रापि सात्त्विकी भक्तिः सर्वकामफल प्रदा
तस्माच्छृणुष्व भूपाल संसारविजिगीषथुणा ।
स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने
यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति ।
न तस्य तुष्यते विष्णुराचारेणैव तुष्यते
सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः
तस्मात्कार्या हरेर्भक्तिः स्वर्धमस्याविरोधिनी ।
सदाचारविहीनानां धर्मा अप्यसुखप्रदाः
स्वधर्महीना भक्तिश्वाप्यकृतैव प्रकीर्तिता ।
यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया
तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् ।
नारायणमणीयांसं सुखमेष्यसि शाश्वकतम्
शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् ।
द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः
तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय ।
भेदकृद्दुःखमाप्नोति इह लोके परत्रघ च
यदर्थमहमायातस्त्वत्समीपं जनाधिप ।
तत्ते वक्ष्यामि सुमते सावधानं निशामय
आत्मघातकपाप्मानो दग्धाः कपिलकोपतः ।
वसन्ति नरके ते तु राजंस्तव पितामहाः
तानुद्धर महाभाग गङ्गानयनकर्मणा ।
गङ्गा सर्वाणि पापानि नाशयत्येव भूपते
केशास्थिनखदन्दाश्च भस्मापिर नृपसत्तम ।
नयति विष्णुसदनं स्पृष्टा गाङ्गेनर वारिणा
यस्यास्थि भस्म वा राजन् गङ्गायां क्षिप्यते नरैः ।
स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः
यानि कानि च पापानि प्रोक्तानि तव भूपते ।
तानि कर्माणिर नश्यन्ति गङ्गाबिन्द्वभिषेचनात्
सनक उवाच
इत्युक्त्वा मुनिशार्दूल महाराजं भगीरथम् ।
धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा
स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगाः ।
निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम्
तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् ।
पश्चिमे तुहिनाक्रान्ते शृङ्गेषोडशयोजने
तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0