भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.13

1.13.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशो ऽध्यायः
धर्मराज उवाच
देवतायतनं यस्तु कुरुते कारयत्यपि ।
शिवस्यापि हरेर्वापि तस्य पुण्यफलं शृणु

1.13.2

मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ।
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः

1.13.3

मृदैव कुरुते यस्तु देवतायतनं निरः ।
मृदैव कुरुते यस्तु देवतायतनं नरः ।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु

1.13.4

दिव्यदेहधरो भूत्वा विमानवरमास्थितः ।
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः

1.13.5

मृदैव कुरुते यस्तु देवतायतनं नरः ।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः शृणु

1.13.6

दिव्यदेहधरो भूत्वा विमानवरमास्थितः ।
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत्

1.13.7

कल्पवद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि ।
ततस्तु योगिनामेव कुले जातो दयोन्विताः

1.13.8

वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् ।
दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम्

1.13.9

त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गणम् ।
स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम्

1.13.10

तान्मीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् ।
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः

1.13.11

कर्तुः शतगुणं तस्य पुण्यं भवति भूपते ।
देवालयस्य शुश्रूषां लेपसेचनमण्डनैः

1.13.12

कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम् ।
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः

1.13.13

ते गच्छन्ति धराधाराः शाश्चतं वैष्णवं पदम् ।
ताडागार्द्धफलं राजन्कासारे परिकीर्तितम्

1.13.14

कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् ।
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम्

1.13.15

दृषद्भिस्तुधनीःकुर्यान्मृदा निष्किञ्चनो जनः ।
तयोः फलं समानं स्यादित्याह कमलोद्भवः

1.13.16

दद्यादाढ्यास्तु नगरं हस्तमात्रमकिञ्चनः ।
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः

1.13.17

धनाढ्यः कुरुते यस्तु तडागं फलसाधनम् ।
दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम्

1.13.18

आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् ।
स याति ब्रह्मभुवनं कुलत्रयसमन्वितः

1.13.19

धेनुर्वा ब्रह्मणो वापि यो वा को वापि भूपते ।
क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम्

1.13.20

आरामकारका राजन्देवतागृहकारिणः ।
तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह

1.13.21

सर्वलोकोपकारार्थं पुष्पारामं जनेश्वरा ।
कुर्वते देवतार्थं वा तेषां पुण्यफलं शृणु

1.13.22

तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च ।
तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः

1.13.23

प्राकारकारिणस्तस्य कण्टकावरणप्रदाः ।
प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम्

1.13.24

तुलसीरोपणं ये तु कुर्तते मनुजे श्वर ।
तेषां पुण्यफलं राजन्वदतो मे निशामय

1.13.25

सत्पकोटिकुलैर्युक्तो मातृतः पितृतस्तथा ।
वसेत्कल्पशतं साग्रं नारायणपदं नृप

1.13.26

ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्त्रया ।
गोपिकाचन्दनेनापि चित्रकूटमृदापि वा ।
गङ्गामृतिकया चैव तस्य पुण्यफलं शृणु

1.13.27

विमानवरमारुढो गन्धर्वाप्सरसां गणैः ।
संगीयमानचरितो मोदते विष्णुंमदिरे

1.13.28

पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै ।
तावन्ति ब्रह्महत्यादिपातकानि हतानि च

1.13.29

तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् ।
क्षीरोदवासिना सार्द्धं वसेदाचन्द्रतारकम्

1.13.30

ददाति ब्राह्मणानां यः कोमलं तुलसीदलम् ।
स याति ब्रह्मसदने कुलत्रितयतसंयुतः

1.13.31

शालप्रामेर्ऽपयेद्यस्तु तुलस्यास्तु दलानि च ।
स वसेद्विष्णुभवने यावदाभूतसंप्लवम्

1.13.32

कण्टकावरणं यस्तु प्राकारं वापि कारयेत् ।
सो ऽप्येकविंशतिकुलैर्मोदते विष्णुमन्दिरे

1.13.33

यो ऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः ।
न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर

1.13.34

द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् ।
कुलायुतयुतः सो ऽपि मोदते वैष्णवे पदे

1.13.35

प्रस्थमात्रेण पयसा यः स्नापयति केशवम् ।
कुलायुतायुतयुतः सो ऽपि विष्णुपुरे वसेत्

1.13.36

घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः ।
कुलकोटियुतो राजन्सायुज्यं लभते हरेः

1.13.37

पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् ।
विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः

1.13.38

एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम ।
नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं शृणु

1.13.39

दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम ।
शतद्वयकुलैर्युक्तो मोदते विष्णुना सह

1.13.40

इक्षुतोयेन देवेशं यः स्नापयति भूपते ।
केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत्

1.13.41

पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च ।
स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात्

1.13.42

जलेन वस्त्रपूतेन यः स्नापयति माधवम् ।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते

1.13.43

क्षीराद्यैः स्नापयेद्यस्तु रविसंक्रमणे हरिम् ।
स वसेद्विष्णुसदने त्रिसत्पपुरुषैः सह

1.13.44

शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने

1.13.45

एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ ।
सोमसूर्योपरागे च मन्वादिषुयुगादिषु

1.13.46

अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे ।
तथैव शनिरो हिण्यां भौमाश्विन्यां तथैव च

1.13.47

शन्यां भृवभृगे चैवभृगुरेवुरेवतिसङ्गमे ।
तथा बुधानुराधायां श्रवणार्के तथैव च

1.13.48

तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ ।
बुधाष्टम्यां बुधाषाढे पुण्ये विने तथा

1.13.49

स्त्रापये त्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः ।
घृतेन मधुना वापि दध्ना वा तत्फलं शृणु

1.13.50

सर्वयज्ञफलं प्राप्ये सर्वपापविवपर्जितः ।
वसेष्टिष्णुपुरे सार्दं त्रिसत्पपुरुषैर्मृप

1.13.51

तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ।
मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम्

1.13.52

कृष्णपक्षे चतुर्दशअयां सोमवारे च भूपते ।
शिवं संस्त्राप्य दुग्धेन शिवसायुज्यमान्पुयात्

1.13.53

नालिकेरोदकेनापि शिवं संस्त्राप्य भक्तितः ।
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते

1.13.54

शुक्लपक्षे चतुर्दश्यामष्यम्यां वापि भूपते ।
घृतेन मधुना स्त्राप्य शिवां तत्साम्यतां व्रजेत्

1.13.55

तिलतैलेन संस्त्राप्य विष्णुं वा शिवमेवं च ।
स याति तत्तत्सारुप्यं पितृभिः सह सत्पभिः

1.13.56

शिवमिश्रुरसेनापि यः स्नापयति भघक्तितः ।
शिवलोके वसेत्कल्पं ससत्पपुरुषैः सह

1.13.57

घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने ।
क्षीरेण वा महाभाग तत्फलं शृणु मद्गिरा

1.13.58

जन्मायुतकृतकैः पापैर्दर्मुक्तो मनुजो नृप ।
कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत्

1.13.59

सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप ।
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम्

1.13.60

पद्मपुष्पेण यो विष्णुं शिवां वा पूजयेन्नरः ।
स याति विष्णुभवनं कुलकोटिसमन्वितः

1.13.61

हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि ।
संपूज्य पापनिर्मुक्तो वसेद्भिष्णुपुरे युगम्

1.13.62

हरिं तु चाम्पकैः पुर्ष्पेरर्कष्पैश्च शङ्करम् ।
समभ्यर्च्य महाराज तत्तत्सालोक्यमान्पुयात्

1.13.63

शङ्कर स्याथवा विष्णोर्घृतयुक्तं च गुगगुलुम् ।
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते

1.13.64

तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य वा ।
दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम

1.13.65

घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे ।
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत्

1.13.66

ग्रामयेन वापि तैलेन राजन्नन्येन वा पुनः ।
दीपं तत्त्वा महाविष्णोः शिवस्यापि फलं शृणु

1.13.67

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
तत्तत्सालोक्यमाप्नोति त्रिःभत्पपुरुषान्वितः

1.13.68

यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे ।
दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः

1.13.69

यद्यदिष्टतमं वस्तु नतद्विप्राय दापयेत् ।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्

1.13.70

भ्रूणहास्वर्णदानेन शुद्धो भवति भूपते ।
अन्नतोयसमन्दानं न भूतं न भविष्यति

1.13.71

अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम

1.13.72

अन्नदो ब्रह्मसदनं यातिवंशायुतान्वितः ।
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम्

1.13.73

सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतो ऽधिकम् ।
अन्नदानान्नृपश्रेष्ठ निर्दिष्टं श्रह्मवादिभिः

1.13.74

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः

1.13.75

शरीरमन्नाजं प्राहुः प्राणामप्यन्नजान्विदुः ।
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते

1.13.76

यद्यतुष्टिकरं दानं सर्वकामफलप्रदम् ।
तस्मादन्नसमं दानं नास्ति भूपाल भूपले

1.13.77

अन्नदस्य कुले जाता आसहंस्त्र नृपोत्म ।
नपकं ते न पशअयन्ति तस्मादन्नप्रदो वरः

1.13.78

पादाभ्यङ्गंभक्तियुक्तो यो ऽतिथेः कुरुते नरः ।
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम्

1.13.79

तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः ।
स स्त्रातो ऽष्टशतं साग्रं गङ्गायां नात्र संशयः

1.13.80

रोगितान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः ।
स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम्

1.13.81

यो रक्षेत्पृथिवीपाल रङ्गं वा रोगिणं नरम् ।
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति

1.13.82

मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् ।
सर्वान्कामानवान्पोति सर्वेपापविवार्जितः

1.13.83

यो ददाति महीपाल निवासं ब्राह्मणाय वै ।
तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति

1.13.84

ब्राह्मणायं ब्रह्मविदे यो दद्याद्गां पयस्विनीम् ।
स यातिब्रह्मसदनमन्येषामतिदुर्लभम्

1.13.85

अन्येभ्यः प्रतिगृह्यापि यो द्द्याद्गां पयस्विनीम् ।
तस्य पुण्यफलं वक्तुं नाहं शक्तो ऽस्मि पण्डित

1.13.86

कपिलां वेदविदुषे यो ददाति पयस्विनीम् ।
स एव रुद्रो भूपाल सर्वपापविवर्जितः

1.13.87

विप्राय वेदविदुषे दद्यादुभयतोमुखीम् ।
यस्तस्य पुण्यं संख्यातु न शक्तो ऽब्दशतैरपि

1.13.88

तस्य पुण्यफलं राजञ्शृणु वक्ष्यामि तत्त्वतः ।
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः

1.13.89

एकतो भयभीतस्यत प्राणिनः प्राणरक्षणम् ।
संरक्षति महीपाल यो विप्रं भयविह्वलम्

1.13.90

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम्

1.13.91

हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः ।
यस्तु कन्यामलङ्कृत्य ददात्यध्यात्मवेदिने

1.13.92

शतवंशसमायुक्तः स व्रजेद्रूह्यणः पदम् ।
कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते

1.13.93

वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं शृणु ।
सत्पजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक्

1.13.94

कुलसत्पतिसंयुक्तो रुद्रेण सह मोदते ।
शिवलिङ्गाङ्कितं कृत्वा महिषं यः समुत्सृजेत्

1.13.95

न तस्य यातनालोको भवेन्नृपतिसत्तम् ।
ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम

1.13.96

तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् ।
क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा

1.13.97

.
दिव्याब्दायुतपर्यन्तंस्वर्गलोके महीयते ।
प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम

1.13.98

गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् ।
गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम्

1.13.99

भटानां जलदो याति सूर्यलोकमनुत्तमम् ।
विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः

1.13.100

विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् ।
नरकादुद्धरन्त्येव जपवाहनदोहनात्

1.13.101

सर्वेषामपि दानानां विद्यादानं विशिष्यते ।
विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम

1.13.102

नरस्त्विंन्धनदानेन मुच्यते ह्युपपातकैः ।
शालग्रामशिलादानं महादानं प्रकीर्तितम्

1.13.103

यद्दत्त्वा मोक्षमान्पोति लिङ्गदानं तथा स्मृतम् ।
ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः

1.13.104

तत्फलं समवान्पोति लिङ्गदानान्न संशयः ।
शालग्रामशिलादाने ततो ऽपि द्विगुणं फलम्

1.13.105

शाल ग्रामशिलारूपी विष्णुरेवेति विश्रुतः ।
यो ददाति नरो दानं गृहतां प्रभो

1.13.106

गङ्गास्त्रानफलं तस्य निश्चितं नृप जायते ।
रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम

1.13.107

भुक्तिमुक्तिमवान्पोति महादानं यतः स्मृतम् ।
नरो माणिक्यदानेन परं मोक्षमवान्पुयात्

1.13.108

घ्रुवलोकमवान्पोति वज्रदानेन मानवः ।
स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात्

1.13.109

प्रयाति यानदानेन मुक्तादानेन चैन्दवम् ।
वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा

1.13.110

पुष्परागप्रदानेन सर्वत्र सुखमश्नुते ।
अश्वसांनिध्यं चिरं व्रजति भूमिप

1.13.111

गजदानेन महता सर्वान्कामानवान्पुयात् ।
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः

1.13.112

महिषीदो जयत्येव ह्यपमृकत्युं न संशयः ।
गवां तृणप्रदानेन रुद्रलोकमवान्पुयात्

1.13.113

वारुणं लोकमान्पोति महीश लवणप्रदः ।
स्वश्रमाचारनिरताः सर्वभूतहितेरताः

1.13.114

अदाम्भिका गतासूयाः प्रयान्ति बग्रह्मणः पदम् ।
परोपदेश निरता वीतरागा विमत्साराः

1.13.115

हरिपादार्चनरताः प्रयान्ति सदनं हरेः ।
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः

1.13.116

परापवादविमुखाः प्रायान्ति हरिमन्दिरम् ।
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च

1.13.117

परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् ।
जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः

1.13.118

ब्राह्मणेषु क्षमाशीलाः प्रयान्ति भवनं हरेः ।
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा

1.13.119

पतिशुश्रूषणरता न वै संसृतिभागिनः ।
सदा देवार्चनरता हरिनमपरायणाः

1.13.120

प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् ।
अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम

1.13.121

अश्वमेधसहस्राणां फलमश्नुवते सदा ।
पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर

1.13.122

पूजया रहितं लिङ्गमचर्यत्तेत्फलं शृणु ।
अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः

1.13.123

प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः ।
चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप

1.13.124

लक्षाश्वमेधजं पुण्यं संप्रान्पोति न संशयः ।
पूजया रहितं लिङ्गं कुसुमैर्योर्ऽचयेत्सुधीः

1.13.125

अश्वमेधायुतफलं भवेत्तस्य जनेश्वर ।
भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च

1.13.126

शिवसायुज्यमान्पोति पुनरावृत्तिवर्जितम् ।
पूजया रहितं विष्णुं योर्ऽचयेदकर्वंशज

1.13.127

जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम ।
देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः

1.13.128

यावत्पांसु युगावासं वैष्णवे मन्दिरेलभेत् ।
शीर्णं स्फटिकलिङ्गन्तु यः संदध्यान्नृपोत्तम

1.13.129

शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः ।
यस्तु देवालये राजन्नपि गोचर्ममात्रकम्

1.13.130

जलेन सिञ्चिद्भूभागं सो ऽपि स्वर्गं लभेन्नरः ।
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम्

1.13.131

यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ ।
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम्

1.13.132

स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः ।
शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत्

1.13.133

स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम् ।
यः कुर्याद्दीपरचनां देवतायतने नृप

1.13.134

तस्य पुण्यं प्रसंख्यातुं नोत्सहे ऽब्दशतैरपि ।
अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च

1.13.135

क्षणे क्षणे ऽश्वमेधस्य फलं तस्य न दुर्लभम् ।
अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः

1.13.136

स विष्णुभवनं प्राप्य मोदते च युगायुतम् ।
देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप

1.13.137

तिस्त्रो विनायकस्यापि चतस्त्रो विष्णुमन्दिरे ।
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम्

1.13.138

यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च ।
प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे

1.13.139

काश्यां महेश्वरं माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः ।
न तस्य विद्यते कृत्यं संसृतिर्नैव जायते

1.13.140

शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः ।
नरो न च्यवते स्वर्गाच्छङ्करस्य प्रसादतः

1.13.141

स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् ।
सर्वान्कामानवान्पोति मनसा यद्यदिच्छति

1.13.142

देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ।
गायते वा स भूपाल रुद्रलोके च मुक्तिभाक्

1.13.143

ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः ।
ते हंसयानमारुढा व्रजन्ति ब्रह्मणः पदम्

1.13.144

करतालं प्रकुर्वन्ति देवतायतने तु येते ।
सर्वपापनिर्मुक्ता विमानस्था युगायुतम्

1.13.145

देवतायतने ये तु घण्टानादं प्रकुर्वते ।
तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम्

1.13.146

भेरीमृदङ्गपटहमुरजैश्व सडिण्डिमैः ।
संप्रीणयन्ति देवेशं तेषां पुण्यफलं शृणु

1.13.147

देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ।
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम्

1.13.148

देवतामन्दिरे कुर्वन्नरः शङ्खरवं नृप ।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते

1.13.149

तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात्

1.13.150

यो देवः सर्वदृग्विष्णुर्ज्ञानरुपी निरञ्जनः ।
सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च

1.13.151

यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः ।
सफलानि भवन्त्येव सर्वकर्माणि भूपते

1.13.152

परमात्मा जगन्नाथः सर्वकर्ंमफलप्रदः ।
सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः ।
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते

1.13.153

धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता ।
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किञ्चिव्द्यतिरिक्तमस्ति

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc