भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.124

1.124.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितचतुर्दशीव्रतवर्णनं नाम त्रयोविंशत्यधिकशततमो ऽध्यायः
सनातन उवाच
अथ नारद वक्ष्यामि शृणु पूर्णाव्रतानि ते ।
यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम्

1.124.2

चैत्रपूर्णा तु विप्रेन्द्र मन्वादिः समुदाहृता ।
अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये

1.124.3

वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम् ।
यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम्

1.124.4

धर्मराजव्रतं चात्र कथितं तन्निशामय ।
शृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे

1.124.5

दद्याद्गोदानफलदं धर्मराजस्य तुष्टये ।
अत्र कृष्णाजिनं दद्यात्सखुरं च सशृङ्गकम्

1.124.6

तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये ।
यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम्

1.124.7

सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै ।
मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम्

1.124.8

कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान् ।
यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित्

1.124.9

अथ ज्येष्टस्य पूर्णायां वटसावित्रिकं व्रतम् ।
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः

1.124.10

सृत्रेण वेष्टयेच्चैव सशताष्टप्रदक्षिणम् ।
ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम्

1.124.11

जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते ।
पत्या सहावियोगं मे वटस्थे कुरु ते नमः

1.124.12

इति सप्रार्थ्य या नारी भोजयित्वा परे ऽहनि ।
सुवासिनीः स्वयं भुञ्ज्यात्सा स्यात्सौभाग्यभागिनी

1.124.13

आषाढस्य तु पूर्णायां गोपद्मव्रतमुच्यते ।
चतुर्भुजं महाकायं जांबूनदसमप्रभम्

1.124.14

शङ्खचक्रगदापद्मरमागरुडशोभितम् ।
सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नरैः

1.124.15

एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत् ।
पौरुषेणैव सूक्तेन गन्धाद्यैरुपचारकैः

1.124.16

आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः ।
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः

1.124.17

एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः ।
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः

1.124.18

कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ।
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले

1.124.19

पूर्णान्तं श्रावणे मासि गौरीरूपां च कोकिलाम् ।
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपङ्कजाम्

1.124.20

कस्तूरीवर्णसंयुक्तामुत्पन्नां नन्दने वने ।
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम्

1.124.21

चिन्तयेत्पार्वतीं देवीं कोकिलारूपधारिणीम् ।
गन्धाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे

1.124.22

ततो व्रतान्ते हैमीं वा तिलपिष्टमयीं द्विज ।
दद्याद्विप्राय मन्त्रेण भक्त्या सस्वर्णदक्षिणाम्

1.124.23

देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे ।
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव

1.124.24

द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः ।
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत्

1.124.25

एवं या कुरुते नारी कोकिलाव्रतमुत्तम् ।
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद

1.124.26

अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम् ।
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम्

1.124.27

ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः ।
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे

1.124.28

रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम्

1.124.29

सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तन्तुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः ।
गन्धाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके

1.124.30

ततस्तु दक्षिणां दत्वा द्विजेभ्यो ऽध्यायमाचरेत् ।
विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम्

1.124.31

रञ्जितं कुङ्कुमाद्यैश्च नवीनं निर्मितं स्वयम् ।
शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत्

1.124.32

कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम् ।
विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत्

1.124.33

प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम् ।
एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः

1.124.34

कृताञ्जलिः प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो ।
एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम्

1.124.35

रात्रौ देवान्तिके सुप्त्वा उत्थायापरयामके ।
कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः

1.124.36

पूजयेच्छङ्करं सम्यगुपचारैः पृथग्विधैः ।
बिल्वपत्रैः सुगन्धाढ्येर्ंनैवेद्यैर्धूपदीपकैः

1.124.37

ततश्चोपवसेद्विद्वानाप्रदोषं विन्धूदये ।
पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत्

1.124.38

एवं पञ्चदशाब्दान्तं कृत्वा व्रतमतन्द्रितः ।
वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम्

1.124.39

उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम् ।
हैमा रौप्या मृन्मयाश्च घटाः पञ्चदशोत्तमाः

1.124.40

तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम् ।
पञ्चामृतेन संस्राप्य जलैः शुद्धैस्ततोर्ऽचयेत्

1.124.41

उपचारैः षोडशभिस्ततः पञ्चदश द्विजान् ।
भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम्

1.124.42

कुंभमेकैकमीशस्य मूर्त्याढ्यं गुरवेर्ऽपयेत् ।
एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम्

1.124.43

जायते भुवि विख्यातो निधानं सर्वसंपदाम् ।
अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम्

1.124.44

प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम् ।
गन्धाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः

1.124.45

ततो निमन्त्रितान्विप्रान्संभोज्य विधिवद्द्विज ।
समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत्

1.124.46

एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम् ।
राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता

1.124.47

आश्विने मासि पूर्णायां व्रतं कोजागराभिधम् ।
तेन स्नात्वा विधानेन सोपवासो जितेन्द्रियः

1.124.48

लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे ।
मृन्मये वा सवस्त्रान्तामुपचारैः पृथग्विधम्

1.124.49

ततः सायन्तने काले ऽभ्युदिते तारकाधिपे ।
हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत्

1.124.50

लक्षं तदर्धमयुतं सहस्रं शतमेव वा ।
घृतशर्करसंमिश्रं विपाच्य बहु पायसम्

1.124.51

बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः ।
याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत्

1.124.52

ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः ।
सहैव जागरं कुर्य्यान्नृत्यगीतसुमङ्गलैः

1.124.53

ततो ऽरुणोदये स्नात्वा तां मूर्तिं गुरवेर्ऽपयेत् ।
अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा

1.124.54

निशीथे चरते लोके को जागर्तिं धरातले ।
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे

1.124.55

वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम् ।
समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम्

1.124.56

कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम् ।
विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च

1.124.57

अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः ।
निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः

1.124.58

कीटाः पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः ।
दृष्ट्वा प्रदीपान्नहि ते ऽपि जन्मिनः पुनश्च मुक्तिं हि लभन्त एव च

1.124.59

अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट्

1.124.60

कार्तिकेयस्तथा खड्गी वरुणश्च हुताशनः ।
गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः

1.124.61

परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः ।
एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः

1.124.62

दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः ।
चतुर्द्दंशाङ्गुलः कार्यः सेच्यश्चदनवारिणा

1.124.63

गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत् ।
मुक्तानेत्रसमायुक्तं मत्स्यं सर्वाङ्गशोभनम्

1.124.64

महामत्स्याय च नम इति मन्त्रं समुच्चरन् ।
गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत्

1.124.65

क्षीरसागरदानं ते मयोक्तं द्विजसत्तम ।
दानस्यास्य प्रभावेण मोदते हरिसन्निधौ

1.124.66

अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद ।
रुद्रलोकमवाप्नोति नात्र कार्या विचारणा

1.124.67

मार्गशीर्ष्या पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ।
देवं विप्राय शान्ताय सर्वकामसमृद्धये

1.124.68

इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः ।
पुरन्दरश्च सोमश्च तथा तिष्यो बृहस्पतिः

1.124.69

पञ्चैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात् ।
अलङ्कृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः

1.124.70

तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये ।
गौरसर्षपकल्केन समालभ्य स्वकां तनुम्

1.124.71

स्नायात्सर्वौंषधिजलैर्धारयेच्च नवांशुके ।
दृष्ट्वा च मङ्गलं द्रव्यं स्पृष्ट्वा नत्वा ततोर्ऽचयेत्

1.124.72

हरिशक्रेन्दुपुष्येज्यान्गन्धाद्यरुपचारकैः ।
विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः

1.124.73

एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम् ।
अलक्ष्मीनाशनं चैव मोदतेह परत्र च

1.124.74

पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम् ।
रत्नानि कञ्चुकोष्णीषपादत्राणानि वा धनम्

1.124.75

दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः ।
यस्त्वत्र शङ्करं देवं पूजयेद्विधिपूर्वकम्

1.124.76

सो ऽश्वमेधफलं प्राप्यविष्णुलोके महीयते ।
फआल्गुने पूर्णिमायां तु होलिकापूजनं मतम्

1.124.77

संचयं सर्वकाष्ठानामुपलानां च कारयेत् ।
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः

1.124.78

"असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः ।
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"

1.124.79

इति मन्त्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः ।
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः

1.124.80

होलिका राक्षसी चेयं प्रह्लादभयदायिनी ।
ततस्तां प्रदहॄन्त्येवं काष्ठाद्यैर्गीतमङ्गलैः

1.124.81

संवत्सरस्य दाहो ऽयं कामदाहो मतान्तरे ।
इति जानीहि विप्रेन्द्र लोके स्थितिरनेकधा

1.124.82

पक्षान्ते द्वे पृथग्वैवे ततो ऽमाव्रतमुच्यते ।
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम्

1.124.83

चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम् ।
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः

1.124.84

द्विजानां भोजनं दानं गवादीनां विशेषतः ।
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः

1.124.85

ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद ।
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम्

1.124.86

शुचौ नभसि भाद्रे च मासे पूर्णान्तिके द्विज ।
पितृश्राद्धं दानहोमसुरार्चानन्त्यश्नुते

1.124.87

भाद्रदर्शे ऽपराह्ने तु तिलक्षेत्रसमुद्भवान् ।
विरिञ्चिमनुनामन्त्र्य हुंफट् छिन्नान्कुशान् द्विज

1.124.88

सर्वदा सर्वकार्येषु योजयेदेकदापरान् ।
इषामायां विशेषण पितॄणां श्राद्धतर्पणम्

1.124.89

विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले ।
ऊर्ज्जामायां दीपदानं देवा गारगृहेषु च

1.124.90

नद्यारामतडागेषु चैत्यगोष्ठापणेषु च ।
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते

1.124.91

द्यूतं च वर्षफलदं जये चापिपराजये ।
गवां पूजात्र विहिता शृङ्गाद्यङ्गानुरञ्जनैः

1.124.92

यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः ।
मार्गे ऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैः

1.124.93

ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः ।
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम्

1.124.94

अमायां कर्णपातार्कयुक्तायां तु गयाधिकम् ।
फआल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा

1.124.95

दानादि सर्वफलदं दर्शे सोमे ऽधिकं फलम् ।
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव

1.124.96

सर्वत्रापि विशेषो ऽस्ति स पुराणान्तरे स्थितः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc