भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.123

1.123.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमो ऽध्यायः
सनातन उवाच
शृणु नारद वक्ष्यामि चतुर्दश्या व्रतानि ते ।
यानि कृत्वा नरो लोके सर्वान्कामानवाप्नुयात्

1.123.2

चैत्रशुक्ल चतुर्दश्यां कुङ्कुमागरुचन्दनैः ।
गन्धाद्यैर्वस्त्रमणिभिः कार्यार्या महती शिवे

1.123.3

वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः ।
एवं कृत्वार्चनं विप्र सोपवासो ऽथवैकभुक्

1.123.4

अश्वमेधाधिकं पुण्यं लभते मानवो भुवि ।
अत्रैव दमनार्चां च कारयेद्गन्धपुष्पकैः

1.123.5

समर्पयेत्सुपूर्णायां शिवाय शिवरूपिणे ।
राधकृष्णच तुर्द्दश्यां सोपवासो निशागमे

1.123.6

लिङ्गमभ्यर्चयेच्चैवं स्नात्वा धौतांबरः सुधीः ।
गन्धाद्यैरुपचारैश्च बिल्वपत्रैश्च सर्वतः

1.123.7

दत्वा मन्त्रं द्विजाग्र्याय भुञ्जीत च परे ऽहनि ।
एवमेव तु कृष्णासु सर्वासु द्विजसत्तम

1.123.8

शिवव्रतं प्रकर्तव्यं धनसंतानमिच्छता ।
राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेत्

1.123.9

उपवासविधानेन शक्तो ऽशक्तस्तथैकभुक् ।
निशागमे तु संपूज्य नृसिंहं दैत्यसूदनम्

1.123.10

उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः ।
ततः क्षमापयेद्देवं मन्त्रेणानेन नारद

1.123.11

तत्पहाटककेशान्त ज्वलत्पावकलोचन ।
वज्राधिकनखस्पर्शदिव्यसिंह नमो ऽस्तु त

1.123.12

इति संप्रार्थ्य देवेशं व्रती स्यात्स्थण्डिलेशयः ।
जितेन्द्रियो जितक्रोधः सर्वभोगविवर्ज्जितः

1.123.13

एवं यः कुरुते विप्र विधिवद्व्रतमुत्तमम् ।
वर्षे वर्षे स लभते भुक्तभोगो हरेः पदम्

1.123.14

ओङ्कारेश्वरयात्रा च कार्यात्रैव मुनीश्वर ।
दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम्

1.123.15

किमत्र बहुनोक्तेन पूजाध्यानजपेक्षणम् ।
यद्भवेत्तत्समुद्दिष्टं ज्ञानमोक्षप्रदं नृणाम्

1.123.16

अत्र लिङ्गव्रतं चापि कर्त्तव्यं पापनाशनम् ।
पञ्चामृतैस्तु संस्नाप्य लिङ्गमालिप्य कुङ्कुमैः

1.123.17

नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः ।
एवं यः पूजयेत्पैष्टं लिङ्गं सर्वार्थसिद्धिदम्

1.123.18

भुक्तिं मुक्तिं स लभते महादेवप्रसादतः ।
ज्येष्ठशुक्लचतुर्दश्यां दिवा पञ्चतपा निशः

1.123.19

मुखे ददेद्धेमधेनुं रुद्रव्रतमिदं स्मृतम् ।
शुचिशुक्लचतुर्दश्यां शिवं संपूज्य मानवः

1.123.20

देशकालोद्भवैः पुष्पैः सर्वसंपदमाप्नुयात् ।
नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम्

1.123.21

तत्स्वशाखोक्तविधिना कर्तव्यं द्विजसत्तम ।
शताभिमन्त्रितं कृत्वा ततो देव्यै निवेदयेत्

1.123.22

पवित्रारोपणं कृत्वा नरो नार्यथवा यदि ।
महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात्

1.123.23

भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम् ।
कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम्

1.123.24

विपाच्य शर्कराज्याक्तमनन्ताय निवेदयेत् ।
गन्धाद्यैः प्राक् समभ्यर्च्यः कार्पासं पट्टजं तु वा

1.123.25

चतुर्दशग्रन्थियुतं सूत्रं कृत्वा सुशोभनम् ।
ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें

1.123.26

निबघ्नीयान्नवं नारी वामे दक्षे पुमान्भुजे ।
विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम्

1.123.27

स्वयं च तन्मितं चाद्यादेवं कुर्याद्व्रतोत्तमम् ।
द्विसप्तवर्षपर्यन्तं तत उद्यापयेत्सुधीः

1.123.28

मण्डलं सर्वतोभद्रं धान्यवर्णैः प्रकल्प्य च ।
सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने

1.123.29

तस्योपरि न्यसेद्धैमीमनन्तप्रतिमां शुभाम् ।
पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत्

1.123.30

गणेशं मातृकाः खेटांल्लोकपांश्च यजेत्पृथक् ।
ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत्

1.123.31

शय्यां सोपस्करां धेनुं प्रतिमां च द्विजोत्तम ।
प्रदद्याद्गुरवे भक्त्या द्विजानन्यांश्चतुर्दश

1.123.32

संभोज्य मिष्टपक्वान्नैर्दक्षिणाभिः प्रतोषयेत् ।
एवं यः कुरुते ऽनन्तव्रतं प्रत्यक्षमादरात्

1.123.33

सो ऽप्यनन्तप्रसादेन जायते भुक्तिमुक्तिभाक् ।
कदलीव्रतमप्यत्र तद्विधानं च मे शृणु

1.123.34

नरो वा यदि वा नारी रंभामुपवनस्थिताम् ।
स्नात्वा संपूजयेद्गन्धपुष्पधान्याङ्कुरादिभिः

1.123.35

दधिदूर्वाक्षतैर्द्द्वीपैर्वस्त्रपक्कान्नसं चथैः ।
एवं संपूज्य मन्त्रेण ततः संप्रार्थयेर्द्वती

1.123.36

अप्सरो मरकन्याभिर्नागकन्याभिरार्चिते ।
शरीरारोग्यलावण्यं देहि देवि नमो ऽस्तु ते

1.123.37

इति संप्रार्थ्यं कन्यास्तु चतस्रो वा सुवासिनीः ।
संभोज्यां शुकसिद्वरकज्जलालक्तचर्चिताः

1.123.38

नमस्कृत्य निजं गेहं समाप्य नियमं व्रजेत् ।
एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम्

1.123.39

इह लोके विमानेन स्वर्गलोके व्रजेत्परम् ।
इषकृष्णचतुर्द्दश्यां विषशस्त्रांबुवह्निभिः

1.123.40

सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम् ।
चतुर्द्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानतः

1.123.41

कर्तव्यं विप्रवर्गं च भोजयेन्मिष्टपक्वकैः ।
तर्पणं च गवां ग्रासं बलिं चैव श्वकाकयोः

1.123.42

कृत्वा चम्य स्वयं पश्चाद्भुञ्जीयाद्बन्धुभिः सह ।
एवं यः कुरुते विप्र श्राद्धं संपन्नदक्षिणम्

1.123.43

स उद्धृत्य पितॄन्गच्छेद्देवलोकं सनातनम् ।
इषशुक्ल चतुर्द्दश्यां धर्मराजं द्विजोत्तम

1.123.44

गन्धाद्यैः सम्यगभ्यर्च्य सौवर्णं भोज्य वाङवम् ।
दद्यात्तस्मै धर्मराजस्त्रायते भुवि नारद

1.123.45

एवं यः कुरुते धर्मप्रतिमादानमुत्तमम् ।
स भुक्त्वेह वरान्भोगान्दिवं धर्माज्ञया व्रजेत्

1.123.46

ऊर्ज्जकृष्णचतुर्द्दश्यां तैलाभ्यङ्गं विधूदये ।
कृत्वा स्नात्वार्चयेद्धर्मं नरकादभयं लभेत्

1.123.47

प्रदोषे तैलदीपांस्तु दीपयेद्यमतुष्टये ।
चतुष्पथे गृहाद्ब्राह्मप्रदेशे वा समाहितः

1.123.48

वत्सरे हेमलंब्याख्ये मासि श्रीमति कार्तिके ।
शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति

1.123.49

स्नात्वा विश्वेश्वरो देवो देवैः सह मुनीश्वर ।
मणिकर्णिक तीर्थे च त्रिपुण्ड्रं भस्मना दधत्

1.123.50

स्वात्मानं स्वयमभ्यर्च्य चक्रे पाशुपतव्रतम् ।
ततस्तत्र महापूजां लिङ्गे गन्धादिभिश्चरेत्

1.123.51

द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः ।
पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि

1.123.52

एवं कृत्वैकभुक्तं तु व्रतं विश्वेशतोषणम् ।
लभते वाञ्छितान्कामानिहामुत्र च नारद

1.123.53

ब्रह्मकूर्चव्रतं चात्र कर्तव्यमृद्धिमिच्छता ।
सोपवासः पञ्चगव्यं पिबेद्रात्रौ जितेन्द्रियः

1.123.54

कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा ।
श्वेतायाः क्षीरमुदितं रक्तायाश्च तथा दधि

1.123.55

गृहीत्वा कर्बुरायाश्च घृतमेकत्र मेलयेत् ।
कुशां बुना ततः प्रातः स्नात्वा सन्तर्प्यं देवताः

1.123.56

ब्रह्मणांस्तोषयित्वा च भुञ्जीयाद्वाग्यतः स्वयम् ।
ब्रह्मकूर्चव्रतं ह्येतत्सर्वपातकनाशनम्

1.123.57

यच्च बाल्ये कृतं पापं कौमारे वार्द्धके ऽपि यत् ।
ब्रह्मकूर्चोपवासेन तत्क्षणादेव नश्यति

1.123.58

पाषाणव्रतमप्यत्र प्रोक्तं तच्छृणु नारद ।
सोपवासो दिवा नक्तं पाषाणाकारपिष्टचकम्

1.123.59

प्रार्च्य गन्धादिभिर्गौंरीं घृतपङ्क्वमुपाहरेत् ।
व्रतमेतच्चरित्वा तु यथोक्तं द्विजसत्तम

1.123.60

ऐश्वर्यसौख्यसौभाग्यरूपाणि प्राप्नुयान्नरः ।
मार्गशुक्लचतुर्दश्यामेकभुक्तः पुरोदितम्

1.123.61

निराहारो वृषं स्वर्णं प्रार्च्य दद्याद्द्विजातये ।
परे ऽह्नि प्रातरुत्थाय स्नात्वा सोमं महेश्वरम्

1.123.62

पूजयेत्कमलैः पुष्पैर्गन्धमाल्यानुलेपनैः ।
द्विजान्सम्भोज्य मिष्टान्नौस्तोषयेद्दक्षिणादिभिः

1.123.63

एतच्छिवव्रतं विप्र भुक्तिमुक्तिप्रदायकम् ।
कर्तृआणामुपदेष्टृआणां साह्यानामनुमोदिनाम्

1.123.64

पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं स्मृतम् ।
कपर्दीश्वरसांनिध्यं प्राप्स्याम्यत्र विचिन्त्य च

1.123.65

स्नात्वागाधजले विप्र विरूपाक्षं शिवं यजेत् ।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा

1.123.66

तत्स्थं द्विजातये दत्त्वा मोदते दिवि देववत् ।
माघकृष्णचतुर्द्दश्यां यमतर्पणमीरितम्

1.123.67

अनर्काभ्युदिते काले स्नात्वा संतर्पयेद्यमम् ।
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये

1.123.68

तिलदर्भांबुभिः कार्यं तर्प्पणं द्विजभोजनम् ।
कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः

1.123.69

अन्त्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं द्विज ।
निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत्

1.123.70

स्वयंभुवादिकं लिङ्गं पार्थिवं वा समाहितः ।
गन्धाद्यैरुपचारैश्च सांबुबिल्वदलादिभिः

1.123.71

धूपैर्दीपैश्च नैवेद्यैः स्तोत्रपाठैर्जपादिभिः ।
ततः परे ऽह्नि संपूज्य पुनरेवोपचारकैः

1.123.72

संभोज्य विप्रान्मिष्टान्नैर्विसृजेल्लब्धदक्षिणान् ।
एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादतः

1.123.73

अमर्त्यभोगान् लभते दैवतैः सुसभाजितः ।
अन्त्यशुक्लचतुर्दश्यां दुर्गां संपूज्य भक्तितः

1.123.74

गन्धाद्यैरुपचारैस्तु विप्रान्संभोजयेत्ततः ।
एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः

1.123.75

लभते वाञ्छितान्कामानिहामुत्र च नारद ।
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च

1.123.76

केदारोदकपानेन वाचिमेधफलं भवेत् ।
उद्यापने तु सर्वांसां सामान्यो विधिरुच्यते

1.123.77

कुंभाश्चतुर्दशैवात्र सपूगाक्षतमोदकाः ।
सदक्षिणांशुकास्ताम्रामृन्मयाश्चाव्रणा नवाः

1.123.78

तावन्तो वशदण्डाश्च पवित्राण्यासनानि च ।
पात्राणि यज्ञसूत्राणि तावत्येव हि कल्पयेत्

1.123.79

शेषं प्रागुक्तवत्कुर्याद्वित्तशाठ्यविवर्ज्जितः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc