भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.125

1.125.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमो ऽध्यायः
सूत उवाच
इत्येवमुक्त्वा मुनिना हि पृष्टास्ते वै कुमाराः किल नारदेन ।
संपूजिताः शास्त्रविदां वरिष्ठाः कृताह्निका जग्मुरुमेशलोकम्

1.125.2

तत्रेशमग्र्यर्कनिभैर्मुनीन्द्रैः श्रीवामदेवादिभिरर्चिताङ्घ्रिम् ।
सुरासुरेन्द्रैरभिवन्द्यमुग्रं नत्वाज्ञया तस्य निषेदुरुर्व्याम्

1.125.3

श्रुत्वाथ तत्राखिलशास्त्रसारं शिवागमं ते पशुपाशमोक्षणम् ।
जग्मुस्ततो ज्ञानघनस्वरूपा नत्वा पुरारिं स्वपितुर्निकाशम्

1.125.4

तत्पादपद्मे प्रणतिं विधाय पित्रापि सत्कृत्य सभाजितास्ते ।
लब्ध्वाशिषो ऽद्यापि चरन्ति शश्वल्लोकेषु तीर्थानि च तीर्थभूताः

1.125.5

जग्मुस्ततो वै बदरीवनान्ते सुरेन्द्रवर्गैरुपसेव्यमानम् ।
दध्युश्चिरं विष्णुपदाब्जमव्ययं ध्यायन्ति यद्यतयो वीतरागाः

1.125.6

नारदो ऽपि ततो विप्रा कुमारेभ्यः समीहितम् ।
लब्ध्वा ज्ञानं सविज्ञानं भृशं प्रीतमना ह्यभूत्

1.125.7

स तस्मात्स्वर्णदीतीरादागत्य पितुरन्तिके ।
प्रणम्य सत्कृतः पित्रा ब्रह्मणा निषसाद च

1.125.8

कुमारेभ्यः श्रुतं यच्च ज्ञानं विज्ञानसंयुतम् ।
वर्णयामास तत्त्वेन सो ऽपि श्रुत्वा मुमोद च

1.125.9

अथ प्रणम्य शिरसा लब्धाशीर्मुनिसत्तमः ।
आजगाम च कैलासं मुनिसिद्धनिषेवितम्

1.125.10

नानाश्चर्यमयं शश्वत्सर्वर्त्तुकुसुमद्रुमैः ।
मन्दारैः पारिजातैश्च चंपकाशोकवञ्जुलैः

1.125.11

अन्यैश्च विविधैर्वृक्षैर्नानापक्षिगणावृतैः ।
वातोद्धूतशिखैः पान्थानाह्वयद्भिरिवावृतम्

1.125.12

नानामृगगणाकीर्णं सिद्धकिन्नरसंकुलम् ।
सरोभिः स्वच्छसलिलैर्लसत्काञ्चनपङ्कजैः

1.125.13

शोभितं सारसैर्हंसैश्चक्राह्वाद्यैर्निनादितम् ।
स्वर्द्धनीपातनिर् घृष्टं क्रीडद्भिश्चाप्सरोगणैः

1.125.14

सलिले ऽलकनन्दायाः कुचकुङ्कुमपिङ्गले ।
आमोदमुदितैर्नागैः सलिलैः पुष्करोद्धृतैः

1.125.15

स्नापयद्भिः करेणूश्च कलभांश्च समाकुले ।
अथ श्वेताभ्रसदृशे शृङ्गे तस्य च भूभृतः

1.125.16

वटं कालाभ्रसदृशं ददर्श शतयोजनम् ।
तस्याधस्तात्समासीनं योगिमण्डलमध्यगम्

1.125.17

कपर्दिनं विरूपाक्ष व्याघ्रचर्मांबरावृतम् ।
भूतिभूषितसर्वाङ्गं नागभूषणभूषितम्

1.125.18

रुद्राक्षमालया शश्वच्छोभितं चन्द्रशेखरम् ।
तं दृष्ट्वा नारदो विप्रा भक्तिनम्रात्मकन्धरः

1.125.19

ननाम् शिरसा तस्य पादयोर्जगदीशितुः ।
ततः प्रसन्नमनसा स्तुत्वा वाग्भिर्वृषध्वजम्

1.125.20

निषसादाज्ञया स्थाणोः सत्कृतो योगिभिस्तदा ।
अथापृच्छच्च कुशलं नारदं जगतां गुरुः

1.125.21

स च प्राह प्रसादेन भवतः सर्वमस्ति मे ।
सर्वेषां योगिवर्याणां शृण्वतां तत्र वाडवाः

1.125.22

पप्रच्छ शांभिवं ज्ञानं पशुपाशविमोक्षणम् ।
स शिवः सादरं तस्य भक्त्या संतुष्टमानसः

1.125.23

योगमष्टाङ्गसंयुक्तं प्राह प्रणतवत्सलः ।
स लब्ध्वा शांभवं ज्ञानं शङ्कराल्लोकशङ्करात्

1.125.24

सुप्रसन्नमना नत्वा ययौ नारायणान्तिकम् ।
तत्रापि नारदो ऽभीक्ष्णं गतागतपरायणः

1.125.25

सेवितं योगिभिः सिद्धैर्नारायणमतोषयत् ।
एतद्वः कीर्तितं विप्रा नारदीयं महन्मया

1.125.26

उपाख्यानं वेदसमं सर्वशास्त्रनिदर्शनम् ।
चतुष्पादसमायुक्तं शृण्वतां ज्ञानवर्द्धनम्

1.125.27

य एतत्कीर्तयेद्विप्रा नारदीयं शिवालये ।
समाजे द्विजमुख्यानां तथा केशवमन्दिरे

1.125.28

मथुरायां प्रयागे च पुरुषोत्तमसन्निधौ ।
सेतौ काञ्च्यां कुशस्थल्यां गङ्गाद्वारे कुशस्थले

1.125.29

पुष्करेषु नदीतीरे यत्र कुत्रापि भक्तिमान् ।
स लभेत्सर्वय ज्ञानां तीर्थानां च फलं महत्

1.125.30

दानानां चापि सर्वेषां तपसां वाप्यशेषतः ।
उपवासपरो वापि हविष्याशी जितेन्द्रियः

1.125.31

श्रोता चैव तथा वक्ता नारायणपरायणः ।
शिवभक्तिरतो वापि शृण्वन् सिद्धिमवाप्नुयात्

1.125.32

अस्निन्नशेषपुण्यानां सिद्धीनां च समुद्भवः ।
कथितः सर्वपापघ्नः पठतां शृण्वतां सदा

1.125.33

कलिदोषहरं पुंसां सर्वसंपत्तिवर्द्धनम् ।
सर्वेषामीप्सितं चेदं सर्वज्ञानप्रकाशकम्

1.125.34

शैवानां वैष्णवानां च शाक्तानां सूयसेविनाम् ।
तथैव गाणपत्यानां वर्णाश्रमवतां द्विजाः

1.125.35

तपसां च व्रतानां च फलानां संप्रकाशकम् ।
मन्त्राणां चैव यन्त्राणां वेदाङ्गानां विभागशः

1.125.36

तथागमानां सांख्यानां वेदानां चैव संग्रहम् ।
य एतत्पठते भक्त्या शृणुयाद्वा समाहितः

1.125.37

स लभेद्वाञ्छितान्कामान्देवादिष्वपि दुर्लभान् ।
श्रुत्वेदं नारदीयं तु पुराणं वेदसंमितम्

1.125.38

वाचकं पूजयेद्भक्त्या धनरत्नांशुकादिभिः ।
भूमिदानैर्गवां दानै रत्नदानैश्च संततम्

1.125.39

हस्त्यश्वरथदानैश्च प्रीणयेत्सततं गुरुम् ।
यस्तु व्याकुरुते विप्राः पुराणं धर्मसंग्रहम्

1.125.40

चतुर्वर्गप्रदं नॄणां को ऽन्यस्तत्सदृशो गुरुः ।
कायेन मनसा वाचा धनाद्यैरपि संततम्

1.125.41

प्रियं समाचरेत्तस्य गुरोर्द्धर्मोपदेशिनः ।
श्रुत्वा पुराणं विधिवद्धोमं कृत्वा सुरार्चनम्

1.125.42

ब्राह्मणान्भोजयेत्पश्चाच्छतं मिष्टान्नपायसैः ।
दक्षिणां प्रददेच्छक्त्या भक्त्या प्रीयेत माधवः

1.125.43

यथा श्रेष्ठा नदी गङ्गा पुष्करं च सरो यथा ।
काशी पुरी नगो मेरुर्देवो नारायणो हरिः

1.125.44

कृतं युगं सामवेदो धेनुर्विप्रो ऽन्नमंबु च ।
मार्गो मृगेन्द्रः पुरुषो ऽश्वत्थः प्रह्लाद आननम्

1.125.45

उच्चैः श्रवा वसंतश्च जपः शेषोर्ऽयमा धनुः ।
पावको विष्णुरिन्द्रश्च कपिलो वाक्पतिः कविः

1.125.46

अर्जुनो हनुमान्दर्भश्चित्तं चित्ररथोंऽबुजम् ।
उर्वशी काञ्चनं यद्वच्छ्रेष्टाश्चैते स्वजातिषु

1.125.47

तथैव नारदीयं तु पुराणेषु प्रकीर्तितम् ।
शान्तिरस्तु शिवं चास्तु सर्वेषां वो द्विजोत्तमाः

1.125.48

गमिष्यामि गुरोः पार्ंश्वं व्यासस्यामिततेजसः ।
इत्युक्त्वाभ्यर्चितः सूतः शौनकाद्यैर्महात्मभिः

1.125.49

आज्ञप्तश्च पुनः सर्वैर्दर्शनार्थं गुरोर्ययौ ।
ते ऽपि सर्वे द्विजश्रेष्ठाः शौनकाद्याः समाहिताः ।
श्रुतं सम्यगनुष्ठाय तत्र तस्थुश्च सत्रिणः

1.125.50

कलिकल्मषविषनाशनं हरिं यो जपपूजनविधिभेषजोपसेवी ।
स तु निर्विषमनसा समेत्य यागं लभते सतमभीप्सितं हि लोकम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc