भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.122

1.122.1

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने पूर्वभागे चतुर्थपादे द्वादशमासस्य द्वादशीव्रतनिरूपणं नामैकविंशत्यधिकशततमो ऽध्यायः
सनातन उवाच
अथातऋ संप्रवक्ष्यामि त्रयोदश्या व्रतानि ते ।
यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि

1.122.2

मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् ।
कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च

1.122.3

ततः संक्षुधितः कामः पुत्रपौत्रविवर्द्धनः ।
अनङ्गपूजाप्यत्रोक्ता तां निबोध मुनीश्वर

1.122.4

सिन्दूररजनीरागैः फलके ऽनङ्गमालिखेत् ।
रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम्

1.122.5

कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम् ।
मध्याह्ने पूजयेद्भक्त्या गन्धस्रग्भूषणांशुकैः

1.122.6

क्षभ्यैर्नानाविधैश्चापि मन्त्रेणानेन नारद ।
नमो माराय कामाय कामदेवस्य मूर्त्तये

1.122.7

ब्रह्मविष्णुशिवेन्द्राणां मनःभोभकराय वै ।
तत्तस्याग्रतो भक्त्या पूजयेदङ्गनापतिम्

1.122.8

वस्त्रमाल्याविभूषाद्यैः कामो ऽयमिति चिन्तयेत् ।
संपूज्य द्विजदांपत्यं गन्धवस्त्रविभूषणैः

1.122.9

एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम् ।
वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः

1.122.10

प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते ।
मदनं हृद्भवं कामं मन्मथं च रतिप्रियम्

1.122.11

अनङ्गं चैव कन्दर्पं पूजयेन्मकरध्वजम् ।
कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम्

1.122.12

विषमेषु तथा विप्र मालर्ताप्रियमित्यपि ।
अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः

1.122.13

अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुंबिने ।
भूयस्त्वनेन दानेन स लोके नैव जायते

1.122.14

यदीयं शनिना युक्ता सा महावारुणी स्मृता ।
गङ्गायां यदि लभ्येत कोटिसूर्यग्रहाधिका

1.122.15

शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते ।
महामहेति विख्याता कुलकोटिविमुक्तिदा

1.122.16

राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम् ।
तत्र गन्धादिभिः कामं पूजयेदुपवासवान्

1.122.17

प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले ।
एवमेव व्रतं कार्यं वर्षान्ते गामलङ्कृताम्

1.122.18

दद्याद्विप्राय सत्कृत्य व्रतसांगत्वसिद्धये ।
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम्

1.122.19

तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम् ।
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम्

1.122.20

निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा ।
मन्दारकरवीरार्का भवन्तो भास्करांशजाः

1.122.21

पूजिता मम दौर्भाग्यं नाशयन्तु नमो ऽस्तु वः ।
इत्थं योर्ऽचयते भक्त्या वर्षे वर्षे द्रुमत्रयम्

1.122.22

नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा ।
शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत्

1.122.23

पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः ।
हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च

1.122.24

सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि ।
स्थापयित्वा प्रतिष्ठाप्य दैवमन्त्रेण नारद

1.122.25

ततः पञ्चदिनं पूजा चैकभक्तं व्रतं तथा ।
तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः

1.122.26

समर्पणीयौ विप्राय वेदवेदाङ्गशालिने ।
वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपञ्चकम्

1.122.27

तदन्ते धेनुयुग्मेन सहितौ तौ प्रदापयेत् ।
इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम्

1.122.28

नैव दांपत्यविच्छेदं लभते सप्तजन्मसु ।
नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम्

1.122.29

वैधव्यवारणं स्त्रीणां तथा संतानवर्धनम् ।
कृतोपवासा कन्यैव नारी वा द्विजसत्तम

1.122.30

ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा ।
रतिकामौ प्रविन्यस्य गन्धाद्यैः सम्यगर्चयेत्

1.122.31

ततस्तु द्विजदांपत्यं चतुर्दश्यां निमन्त्र्य च ।
सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे

1.122.32

एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् ।
धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे

1.122.33

भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् ।
लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम्

1.122.34

पञ्चामृतेन संस्नाप्य मण्डले ऽष्टदले शुभे ।
पीठे विन्यस्य वस्त्राढ्यं गन्धाद्यैः परिपूजयेत्

1.122.35

आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम् ।
एवं दिनत्रयं कृत्वा व्रतान्ते मासमर्च्य च

1.122.36

सम्यगर्थं च संपाद्य दद्यान्मन्त्रेण नारद ।
पञ्चगावः समुत्पन्ना मथ्यमाने महोदधौ

1.122.37

तासां मध्ये तु या नन्दा तस्यै धेन्वै नमो नमः ।
प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मन्त्रतः

1.122.38

गावो ममाग्रतः सन्तु गावो मे संतु पृष्ठतः ।
गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम्

1.122.39

ततश्च द्विजदांपत्यं सम्यगभ्यर्च्य भोजयेत् ।
लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत्

1.122.40

अश्वमेधसहस्राणि राजसूयशतानि च ।
कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत्

1.122.41

इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम् ।
हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः

1.122.42

उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः ।
अष्टोत्तरशतं विप्र मन्त्रेणानेन सादरम्

1.122.43

हरेण निर्मितः पूर्वं त्वमशोक कृपालुना ।
लोकोपकारकरणस्तत्प्रसीद शिवप्रिय

1.122.44

ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम् ।
समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत्

1.122.45

एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित् ।
पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा

1.122.46

ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः ।
प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः

1.122.47

गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति ।
एवं कृते तु विप्रेन्द्र यमपीडा न जायते

1.122.48

ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम ।
पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः

1.122.49

प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज ।
प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया

1.122.50

घृतेन दीपयेद्द्वीपान्गन्धाद्यैः पूजयेच्छिवम् ।
फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद

1.122.51

ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च ।
तानि नामानि कीर्त्यन्ते सर्वाभीष्टप्रदानि वै

1.122.52

नमो रुद्राय भीमाय नीलकण्ठाय वेधसे ।
कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः

1.122.53

वृषध्वजाय सोमाय सोमनाथाय वै नमः ।
दिगंबराय भृङ्गाय उमाकान्ताय वर्द्धिने

1.122.54

तपोमयाय व्याप्ताय शिपिविष्याय वै नमः ।
व्यालप्रियाय व्यालाय व्यालानां पतये नमः

1.122.55

महीधराय व्योमाय पशूनां पतये नमः ।
त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च

1.122.56

मिताय मितनाथाय सिद्धाय परमेष्ठिने ।
वेदगीताय गुप्ताय वेदगुह्याय वै नमः

1.122.57

दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे ।
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः

1.122.58

कल्याणाय विशिष्याय शिष्टाय परमात्मने ।
गजकृत्ति धरायाथ अन्धकासुरभेदिने

1.122.59

नीललोहितशुक्लाय चडमुण्डप्रियाय च ।
भक्तिप्रियाय देवाय यज्ञान्तायाव्ययाय च

1.122.60

महेशाय नमस्तुभ्यं महादेवहराय च ।
त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः

1.122.61

अर्थायार्थस्वरूपाय परमार्थाय वै नमः ।
विश्वरूपाय विश्वाय विश्वनाथाय वै नमः

1.122.62

शङ्कराय च कालाय कालावयवरूपिणे ।
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः

1.122.63

श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे ।
शशाङ्कशेखरायाथ रुद्रभूमिश्रिताय च

1.122.64

दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे ।
लिङ्गरूपाय लिङ्गाय लिङ्गानपतये नमः

1.122.65

नमः प्रभावरूपाय प्रभावार्थाय वै नमः

1.122.66

नमो नमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे ।
त्रियंबकाय शितिकण्ठभार्गिणे गौरीयुजे मङ्गलहेतवे नमः

1.122.67

नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम् ।
पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम्

1.122.68

एवं कृत्वा व्रतं विप्र महादेवप्रसादतः ।
भुक्त्वेह भोगानखिलानन्ते शिवपदं लभेत्

1.122.69

मार्गशुक्लत्रयोदश्यां यो ऽनङ्गं विधिना यजेत् ।
त्रिकालमेककालं वा शिवसंगमसंभवम्

1.122.70

गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः ।
घटे मङ्गलपट्टे वा भोजयेद्द्विजदंपती

1.122.71

ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत् ।
एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः
जायते भुवि विप्रेन्द्र महादेवप्रसादतः

1.122.72

पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम् ।
घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये

1.122.73

माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् ।
माघस्नानव्रतं विप्र नानाकामफलावहम्

1.122.74

प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम् ।
नाश्वमेघसहस्रेण तत्फलं लभते भुवि

1.122.75

तत्र स्नानं जपो होमो दानं चानन्त्यमश्नुते ।
फआल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः

1.122.76

नमस्कृत्य जगन्नाथं प्रारंभे धनदव्रतम् ।
महाराजं यक्षपतिं गन्धाद्यैरुपचारकैः

1.122.77

लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः ।
एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम

1.122.78

संपूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः ।
ततो व्रतान्ते तु पुनः सौवर्णं धननायकम्

1.122.79

विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम ।
उपचारैः षोडशभिः स्नानैः पञ्चामृतादिभिः

1.122.80

नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः ।
ततो धेनुमलङ्कृत्य वस्त्रस्रग्गन्धभूषणैः

1.122.81

सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम् ।
संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश

1.122.82

गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत् ।
द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च

1.122.83

स्वयं भुञ्जीत मतिमानिष्टैः सह समाहितः ।
एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम्

1.122.84

मोदते भुवि विख्यातो राजराज इवापरः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc