भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.121

1.121.1

इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्तितैकादशीव्रतकथनं नाम विंशत्यधिकशततमो ऽध्यायः
सनातन उवाच
अथ व्रतानि द्वादश्याः कथयामि तवानघ ।
यानि कृत्वा नरो लोके विष्णोः प्रियतरो भवेत्

1.121.2

चैत्रस्य शुक्लद्वादश्यां मदनव्रतमाचरेत् ।
स्थापयेदव्रणं कुंभं सिततन्दुलपूरितम्

1.121.3

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् ।
सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम्

1.121.4

नानाभक्ष्यसमोपेतं सहिरण्यं स्वशक्तितः ।
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्

1.121.5

तत्र संपूजयेद्देवं कामरूपिणमच्युतम् ।
गन्धाद्यैरुपचारैस्तु सोपवासो परे ऽहनि

1.121.6

पुनः प्रातः समभ्यर्च्य ब्राह्मणाय निवेदयेत् ।
ब्रह्मणान्भोजयेच्चैव तेभ्यो दद्याच्च दक्षिणाम्

1.121.7

वर्षमेवं व्रतं कृत्वा घृतधेनुसमन्विताम् ।
शय्यां तु दद्याद्गुरवे सर्वोपस्करसंयुताम्

1.121.8

काञ्चनं कामदेवं च शुक्तां गां च पयस्विनीम् ।
वासोभिर्द्विजदांपत्यं पूजयित्वा समर्पयेत्

1.121.9

प्रीयतां कामरूपी मे हरिरित्येवमुच्चरन् ।
यः कुर्याद्विधिनानेन मदनद्वादशीव्रतम्

1.121.10

स सर्वपापनिर्भुक्तः प्राप्नोति हरिसाम्यताम् ।
अस्यामेव समुद्दिष्टं भर्तृद्वादशिकाव्रतम्

1.121.11

स्वास्तृतां तत्र शय्यां तु कृत्वात्र श्रीयुतं हरिम् ।
संस्थाप्य मण्डपं पुष्पैस्तदुपर्प्युपकल्पयेत्

1.121.12

ततः संपूज्य गन्धाद्यैर्व्रती जागरणं निशि ।
नृत्यवादित्रगीताद्यैस्ततः प्रातः परे ऽहनि

1.121.13

सशय्यं श्रीहरिं हैमं द्विजग्र्याय निवेदयेत् ।
द्विजान्संभोज्य विसृजद्दक्षिणाभिः प्रतोषितान्

1.121.14

एवं कृतव्रतस्यापि दांपत्यं जायते स्थिरम् ।
सप्तजन्मसु भुङ्क्ते च भोगान् लोकद्वयेप्सितान्

1.121.15

वैशाखशुक्लद्वादश्यां सोपवासो जितेन्द्रियः ।
संपूज्य माधवं भक्त्या गन्धाद्यैरुपचारकैः

1.121.16

पक्कान्नं तृप्तिजनकं मधुरं सोदकुंभकम् ।
विप्राय दद्याद्विधिवन्माधवः प्रीयतामिति

1.121.17

द्वादश्यां ज्येष्ठशुक्लायां पूजयित्वा त्रिविक्रमम् ।
गन्धाद्यैर्मधुरान्नाढ्यं करक विनिवेदयेत्

1.121.18

व्रती द्विजाय तत्पश्चादेकभक्तं समाचरेत् ।
व्रतेनानेन संतुष्टो देवदेवस्त्रिविक्रमः

1.121.19

ददाति विपुलान्भोगानन्ते मोक्षं च नारद ।
आषाढशुक्लद्वादश्यां द्विजान्द्वादश भोजयेत्

1.121.20

मधुरान्नेन तान्पूज्य पृथग्गन्धादिकैः क्रमात् ।
तभ्यो वासांसि दण्डांश्च ब्रह्मसूत्राणि मुद्रिकाः

1.121.21

पात्राणि च ददेद्भक्त्या विष्णुमें प्रीयतामिति ।
द्वादश्यां तु नभःशुक्ले श्रीधरं पूजयेद्व्रती

1.121.22

गन्धाद्यैस्तत्परो भक्त्या दधिभक्तैर्द्विजोत्तमान् ।
संभोज्य दक्षिणा रौप्यां दत्वा नत्वा विसर्ज्जयेत्

1.121.23

व्रतेनानेन देवेशः श्रीधरः प्रीयतामिति ।
द्वादश्यां नभस्यशुक्ले व्रती संपूज्य वामनम्

1.121.24

तदग्रे भोजयेद्विप्रान्पायसैर्द्वादशैव च ।
सौवर्णी दक्षिणां दत्वा विष्णुप्रीतिकरो भवेत्

1.121.25

द्वादश्यामिषशुक्लायां पद्मनाभं समर्चयेत् ।
गन्धाद्यैरुपचारैस्तु तदग्रे भोजयेद्द्विजान्

1.121.26

मधुरान्नेन वस्त्राढ्यां सौवर्णीं दक्षिणां ददेत् ।
व्रतेनैतेन संतुष्टः पद्मनाभो द्विजोत्तम

1.121.27

श्वेतद्वीपगतिं दद्याद्देहभोगांश्च वाञ्छितान् ।
कार्तिके कृष्णपक्षे तु गोवत्सद्वादशीव्रतम्

1.121.28

तत्र वत्सयुतां गां तु समालिख्य सुगन्धिभिः ।
चन्दनाद्यैस्तथा पुष्पमालाभिः प्रार्च्य ताम्रके

1.121.29

पात्रे पुष्पाक्षततिलैरर्घ्यं कृत्वा विधानतः ।
प्रदद्यात्पादमूले ऽस्या मन्त्रेणानेन नारद

1.121.30

क्षीरोदार्णवसंभूते सुरासुरनमस्कृते ।
सर्वदेवमये देवि सर्वदेवैरलङ्कृते

1.121.31

मातर्मातर्गवां मातर्गृहाणार्घ्यं नमो ऽस्तु ते ।
ततो माषादिसंसिद्धान्वटकांश्च निवेदयेत्

1.121.32

एवं पञ्च दशैकं वा यथाविभवमात्मनः ।
सुरभि त्वं जगन्माता नित्यं विष्णुपदे स्थिता

1.121.33

सर्वदेवमये ग्रासं मया दत्तमिमं ग्रस ।
सर्वदेवमये देवि सर्वदेवैरलङ्कृते

1.121.34

मातर्ममाभिलषितं सफलं कुरु नन्दिनी ।
तद्दिने तैलपक्वं च स्थालीपक्वं द्विजोत्तम

1.121.35

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत् ।
द्वादश्यामूर्जशुक्लायां देवं दामोदरं द्विज

1.121.36

समभ्यर्च्योपचारैस्तु गन्धाद्यैः सुसमाहितः ।
तदग्रे भोजयेद्विप्रान्पक्वान्नेनार्कसंख्यकान्

1.121.37

ततः कुंभानपांपूर्णान्वस्त्राच्छन्नान्समर्चितान् ।
सपूगमोदकस्वर्णांस्तेभ्यः प्रीत्या समर्पयेत्

1.121.38

एवं कृते प्रियो विष्णोर्जायते ऽखिलभोगभुक् ।
देहान्ते विष्णुसायुज्यं लभते नात्र संशयः

1.121.39

नीराजनव्रतं चात्र गदितं तन्निबोध मे ।
सुप्तोत्थितं जगन्नाथमलङ्कृत्य निशागमे

1.121.40

अलङ्कृतो नवं वह्निमुत्पाद्याभ्यर्च्य मन्त्रतः ।
हुत्वा तत्र समुद्दीप्ते रौप्य दीपिकया मुने

1.121.41

गन्धपुष्पाद्यर्चितया जनैर्नीराजयेद्धरिम् ।
तत्रैवानुगतां लक्ष्मीं ब्रह्माणीं चण्डिकां तथा

1.121.42

आदित्यं शङ्करं गौरीं यक्षं गणपतिं ग्रहान् ।
मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्क्रमात्

1.121.43

गवां नीराजनं कुर्यान्महिष्यादेश्च मण्डलम् ।
नमो जयेति शब्दैश्च घण्टाशङ्खा दिनिःस्वनैः

1.121.44

सिंदूरालिप्तशृङ्गाणां चित्राङ्गाणां च वर्णकैः ।
गवां कोलाहले वृत्ते नीराजनमहोत्सवे

1.121.45

तुरगांल्लक्षणोपेताम् गजांश्च मदविप्लुतान् ।
राजचिह्नानि सर्वाणि च्छत्रादीनि च नारद

1.121.46

राजा पुरोधसा सार्धं मन्त्रिभृत्यपरः सरः ।
पूजयित्वा यथान्यायं नीरज्य स्वयमादरात्

1.121.47

शङ्खतूर्यादिघोषैश्च नानारत्नविनिर्मिते ।
सिंहासने नवे कॢप्ते तिष्ठेत्सम्यगलङ्कृतः

1.121.48

ततः सुलक्षणैर्युक्ता वेश्या वाथ कुलाङ्गना ।
शीर्षोपरि नरेद्रस्य तया नीराजयेच्छनैः

1.121.49

एवमेषा महासांतिः कर्तव्या प्रतिवत्सरम् ।
राज्ञा वित्तवतान्येन वर्षमारोग्यमिच्छता

1.121.50

येषां राष्ट्रे पुरे ग्रामे क्रियते शान्तिरुत्तमा ।
नीराजनाभिधा विप्र तद्रोगा यान्ति संक्षयम्

1.121.51

द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम् ।
मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान्

1.121.52

चितिर्हयो नृपश्चैव हंसो नारायणस्तथा ।
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः

1.121.53

पूजयेद्गन्धपुष्पाद्यैरेतांस्तन्दुलकल्पितान् ।
ततो द्विजाग्र्यान्संभोज्य द्वादशात्र सुदक्षिणाः

1.121.54

दत्वा तेभ्यस्तु विसृजेत्प्रीयान्नारयणस्त्विति ।
एतस्यामेव विदितं द्वादशादित्यसंज्ञितम्

1.121.55

व्रतं तत्रार्चयेद्धीमानादित्यान्द्वादशापि च ।
धातामित्रोर्ऽयमा पूषा शक्रोंऽशो वरुणो भगः

1.121.56

त्वष्टा विवस्वान्सविता विष्णुर्द्वादश ईरिताः ।
प्रतिमासं तु शुक्लायां द्वादश्यामर्च्य यत्नतः

1.121.57

वर्षं नयेद्व्रतान्ते तु प्रतिमा द्वादशापि च ।
हैमीः संपूज्य विधिना भोजयित्वा द्विजोत्तमान्

1.121.58

मधुरान्नैः सुसत्कृत्य प्रत्येकं चार्पयेद्व्रती ।
एव व्रतं नरः कृत्वा द्वादशादित्यसंज्ञकम्

1.121.59

सूर्यलोकं समासाद्य भुक्त्वा भोगांश्चरं ततः ।
जायते भुवि धर्मात्मा मानुष्ये रोगवर्जितः

1.121.60

ततो व्रतस्य पुण्येन पुनरेव लभेद्व्रतम् ।
तत्पुण्येन रवेन्भित्वा मण्डलं द्विजसत्तम

1.121.61

निरञ्जनं निरा कारं निर्द्वन्द्वं ब्रह्म चाप्नुयात् ।
अत्रैवाखण्डसंज्ञं च व्रतमुक्त द्विजोत्तम

1.121.62

मूर्तिं निर्माय सौवर्णीं जनार्दनसमाह्वयाम् ।
अभ्यर्च्य गन्धपुष्पाद्यैस्तदग्रे भोजयेद्द्विजान्

1.121.63

द्वादश प्रतिमासं तु नक्ताशीः स्याज्जितेन्द्रियः ।
ततः समान्ते तां मूर्तिं समभ्यर्च्य विधानतः

1.121.64

गुरवे धेनुसहितां दद्यात्संप्रार्थयेत्तथा ।
शतजन्मसु यत्किञ्चिन्मयाखण्डव्रतं कृतम्

1.121.65

भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ।
ततः संभोज्य विप्राग्र्यान्सखण्डाढ्यैस्तु पायसैः

1.121.66

द्वादशैव हि सौवर्णीं दक्षिणां प्रददेन्नमेत् ।
इति कृत्वा व्रतं विप्र प्रीणयित्वा जनार्दनम्

1.121.67

सौवर्णेन विमानेन याति विष्णोः परं पदम् ।
पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम्

1.121.68

दशम्यां विधिवत्स्नात्वा गृह्णीयाद्गोमयं व्रती ।
श्वेताया वैकवर्णाया अन्तरिक्षगतं द्विज

1.121.69

अष्टोत्तरशतं तेन पिण्डिकाः कल्प्य नारद ।
शोषयेदातपे धृत्वा पात्रे ताम्रे ऽथ मृन्मये

1.121.70

एकादश्यां सोपवासः समभ्यर्च्य विधानतः ।
सौवर्णीं प्रतिमां विष्णोर्निशायां जागरं चरेत्

1.121.71

सुमङ्गलैर्गीतवाद्यैः स्तोत्रपाठैर्जपादिभिः ।
ततः प्रभाते द्वादश्यां तिलपात्रोपरि स्थिताम्

1.121.72

अंबुपूर्णे घटे न्यस्य पूजयेदुपचारकैः ।
ततो ऽग्निं नवमुत्पाद्य काष्ठसंघर्षणादिभिः

1.121.73

तं समभ्यर्च्य विधिवदेकैकां पिण्डिकां सुधीः ।
होमयेत्सतिलाज्यां च द्वादशाक्षरविद्यया

1.121.74

वैष्णव्याथ च पूरणां च शतमष्टोत्तर ततः ।
भोजयेत्पायसैर्विप्रान्प्रीत्या सुस्निग्धमानसः

1.121.75

सहितां च घटेनैव प्रतिमां गुरवऽपेयेत् ।
विप्रेभ्यो दक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ।
नरो वा यदि वा नारी व्रतं कृत्वैवमादरात्

1.121.76

लभते रूपसौभाग्यं नात्र कार्या विचारणा ।
सहस्ये शुक्लपक्षे तु सुजन्मद्वादशीव्रतम्

1.121.77

स्नात्वा विधानेन गृह्णोयाद्वार्षिकव्रतम् ।
पीत्वा गशृङ्गवार्यादौ तां च कृत्वा प्रदक्षिणम्

1.121.78

प्रतिमासं ततः शुक्लेद्वादश्यां दानमाचरेत् ।
घृतप्रस्थं तच्चतुष्कं क्रमाद्वीहेर्यवस्य च

1.121.79

द्विरक्तिकं हेम तिलाढकार्द्धं पयसां घटम् ।
रौप्यस्य माषमेकं च तृप्तिकृन्मिष्टपक्वकम्

1.121.80

छत्रं माषार्धहेम्नश्च प्रस्थं फआणितमुत्तमम् ।
चन्दनं पलिकं वस्त्रं पञ्चहस्तोन्मितं तनुम्

1.121.81

एवं तु मासिकं दानं कृत्वा प्राश्य यथाक्रमम् ।
गोमूत्रं जलमाज्यं वा पक्त्वा शाकं चतुर्विधम्

1.121.82

दधियुक्तं च यावान्नं तिलाज्यं शर्करान्विताम् ।
दर्भांबुक्षीरमुदितं प्राशनं प्रतिमासिकम्

1.121.83

एवं कृतव्रतो वर्षं सौवर्णीं प्रतिमां रवेः ।
कृत्वा वै ताम्रपात्रस्थां न्यस्याभ्यर्च्य विधानतः

1.121.84

गुरवे धेनुसहितां प्रत्यर्प्य प्रणमेत्पुरः ।
विप्रान्द्रादश संभोज्य तेभ्यो दद्याच्च दक्षिणाम्

1.121.85

एवं कृतव्रतो विप्र जन्माप्नोत्युत्तमे कुले ।
निरोगो धनधान्याढ्यो भवेच्चाविकलेद्रियः

1.121.86

माघस्य शुक्लद्वादश्यां शालग्रामशिलां द्विज ।
अभ्यच्य विधिवद्भक्त्या सुवर्णं तन्मुखे न्यसेत्

1.121.87

तां स्थाप्य रौप्यपात्रे तु सितवस्त्रयुगावृताम् ।
प्रदद्याद्वेदविदुषे तं हि संभोजयेत्ततः

1.121.88

पायसान्नेन खण्डाज्यसहितेन हितेन च ।
एवं कृत्वैकभक्तः सन्विष्णु चिन्तनतत्परः

1.121.89

वैष्णवं लभते धाम भुक्त्वा भोगानिहेप्सितान् ।
अन्त्ये सितायां द्वादश्यां सौवर्णीं प्रतिमां हरेः

1.121.90

अभ्यर्च्य गन्धपुष्पाद्यैर्दद्याद्वेदविदे द्विज ।
द्विषट्कसंख्यान्विप्रांश्च भोजयित्वा च दक्षिणाम्

1.121.91

दत्वा विसर्जयेत्पश्चात्स्वयं भुञ्जीत बान्धवैः ।
त्रिस्पृशोन्मीलिनी पक्षवर्द्धिनी वञ्जुली तथा

1.121.92

जया च विजया चैव जयन्ती चापराजिता ।
एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः

1.121.93

श्रीनारद उवाच
कीदृशं लक्षणं ब्रह्मन्नेतासां किं फलं तथा ।
तत्सर्वं मे समाचक्ष्व याश्चन्याः पुण्यदायुकाः

1.121.94

सूत उवाच
इत्थं सनातनः पृष्टो नारदेन द्विजोत्तमः ।
प्रशस्य भ्रातरं प्राह महाभागवतं मुनिः

1.121.95

सनातन उवाच
साधु पृष्टं त्वया भ्रातः साधूनां संशयच्छिदा ।
वक्ष्ये महाद्वादशीनां लक्षणं च फलं पृथक्

1.121.96

एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा ।
तदा तु त्रिस्पृशा नाम द्वादशी सा महाफला

1.121.97

अस्यामुपोष्य गोविन्दं यः पूजयति नारद ।
अश्वमेधसहस्रस्य फलं लभते ध्रुवम्

1.121.98

यदारुणोदये विद्धा दशम्यैकादशी तिथिः ।
तदा तां संपरित्यज्य द्वादशीं समुपोषयेत्

1.121.99

तत्रेष्ट्वा वासुदेवाख्यं सम्यक्पूजाविधानतः ।
राजसूयसहस्रस्य फलमुन्मीलिते लभेत्

1.121.100

यदोदये तु सवितुर्याम्या त्वेकादशीं स्पृशेत् ।
तदा वञ्जुलिकाख्यां तु तां त्यक्त्वोपोषयेत्सदा

1.121.101

अस्यां संकर्षणं देवं गन्धाद्यैरुपचारकैः ।
पूजयेत्सततं भक्त्या सर्वस्याभयदं परम्

1.121.102

एषा महाद्वादशी तु सर्वक्रतुफलप्रदा ।
सर्वपापहरा प्रोक्ता सर्वसंपत्प्रदायिनी

1.121.103

कुहूराके यदा वृद्धे स्यातां विप्र यदा तदा ।
पक्षवर्द्धनिका नाम द्वादशी सा महाफला

1.121.104

तस्यां संपूजयेद्देवं प्रद्युम्नं जगतां पतिम् ।
सर्वैश्वर्य्यप्रदं साक्षात्पुत्र पौत्रविवर्धनम्

1.121.105

यदा तु धवले पक्षे द्वादशी स्यान्मधान्विता ॥ठ
तदा प्रोक्ता जया नाम सर्वशत्रुविनाशिनी

1.121.106

अस्यां संपूजयेद्देव मनिरुद्धं रमापतिम् ।
सर्वकामप्रदं नॄणां सर्वसौभाग्यदायकम्

1.121.107

श्रवणर्क्षयुता चेत्स्याद्द्वादशी धवले दले ।
तदा सा विजया नाम तस्यामचेद्गदाधरम्

1.121.108

सर्वसौख्यप्रदं शश्वत्सर्वभोगपरायणम् ।
सर्वतीर्थफलं विप्र तां चोपोष्याप्नुयान्नरः

1.121.109

यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता ।
द्वादशी सा महापुण्या जयन्ती नामतः स्मृता

1.121.110

यस्यां समर्च्चयेद्देवं वामनं सिद्धिदं नृणाम् ।
उपोषितैषा विप्रेन्द्र सर्वव्रतफलप्रदा

1.121.111

सर्वदानफला चापि भुक्तिमुक्तिप्रदायिनी ।
यदा तु स्यात्सिते पक्षे द्वादशी जीवभान्विता

1.121.112

तदापराजिता प्रोक्ता सर्वज्ञा नप्रदायिनी ।
अस्यां समर्चयेद्देवं नारायणमनामयम्

1.121.113

संसारपाशविच्छित्तिकारकं ज्ञानसागरम् ।
अस्यास्तूपोषणादेव मुक्तः स्याद्विप्र भोजनः

1.121.114

यदा त्वाषाढशुक्लायां द्वादश्यां मैत्रभं भवेत् ।
तदा व्रतद्वयं कार्य्यं न दोषो ऽत्रैकदैवतम्

1.121.115

श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके ।
ऊर्ज्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम्

1.121.116

एताभ्यो ऽन्त्र विप्रेन्द्र द्वादश्यामेकभुक्तकम् ।
निसर्गतः समुद्दिष्टं व्रतं पातकनाशनम्

1.121.117

एकादश्या व्रतं नित्यं द्वादश्याः सहितं यतः ।
नोद्यापनमिहोद्दिष्टं कर्त्तव्यं जीविताविधि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc