भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.120

1.120.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितदशमीव्रतनिरूपणं नामैकोनविंशत्यधिकशततमो ऽध्यायः
सनातन उवाच
एकादश्यां तु दलयोर्निराहारः समाहितः ।
नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम्

1.120.2

स्रात्वा सम्यग्विधानेन सोपवासो जितेन्द्रियः ।
संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः

1.120.3

उपचारैर्बहुविधैर्जपैर्हेमैः प्रदक्षिणैः ।
स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः

1.120.4

दण्डवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः ।
रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम्

1.120.5

चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः ।
कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये

1.120.6

द्वादश्यामर्चयेद्भक्तया वासुदेवं सनातनम् ।
उपचारैः षोडशभिस्ततः संभोज्य बान्धवान्

1.120.7

दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम् ॥।
इयं तु कामदा नाम सर्वपातकनाशिनी

1.120.8

भुक्तिमुक्तिप्रदा विप्र भक्त्या सम्यगुपोषिता ।
वैशाखकृष्णैकादश्यां समुपोष्य विधानतः

1.120.9

वरूथिनीं परदिने पूजयेन्मृधुसूदनम् ।
स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते

1.120.10

वरूथिनीव्रतं कृत्वा नरो नियमतत्परः ।
सर्वपाप विनिर्मुक्तो वैष्णवं लभते पद्वम्

1.120.11

वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीम् ।
स्नात्वा परे ऽह्नि संपूज्य गन्धाद्यैः पुरुषोत्तमम्

1.120.12

संभोज्य विप्रान्मुच्येत पातकेभ्यो न संशयः ।
जेष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप

1.120.13

द्वादश्यां नैत्यिकं कृत्वा समभ्यर्च्य त्रिविक्रमम् ।
ततो द्विजाग्र्यान्संभोज्य दत्वा तेभ्यश्च दक्षिणाम्

1.120.14

सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ।
ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु

1.120.15

उदयादुदयं यावद्भास्करस्य द्विजोत्तम ।
प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः

1.120.16

ह्यषीकेशं समभ्यर्च्य विप्रान् संभोज्य भक्तितः ।
चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात्

1.120.17

आषाढकृष्णैकादश्यां योगिनीं समुपोष्य वै ।
नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः

1.120.18

ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ।
सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे

1.120.19

आषाढशुक्लैकादश्यां यद्बिधानं शृणुष्व तत् ।
उपोष्य तस्मिन् दिवसे विधिवन्मण्डपे शुभे

1.120.20

स्थापयेत्प्रतिमां विष्णोः शङ्खचक्रगदांबुजैः ।
लसच्चतुर्भुजामग्र्यां काञ्चनीं वाथ राजतीम्

1.120.21

पीतांबरधरां शुभ्रे पर्य्यङ्के स्वास्तृते द्विज ।
ततः पञ्चामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च

1.120.22

पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेत् ।
नीराजनान्तान्पाद्यादींस्ततः संप्रार्थयेद्धरिम्

1.120.23

सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् ।
विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम्

1.120.24

इति संप्रार्थ्य देवाग्रे चातुर्मास्यप्रचोदितान् ।
नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः

1.120.25

ततः प्रभाते द्वादश्यां समर्चेच्छेषशायिनम् ।
उपचारैः षोडशभिस्ततः संभोज्य वाडवान्

1.120.26

प्रतोष्य दभिणाभिश्च स्वयं भुञ्जीत वाग्यतः ।
ततः प्रभृति विप्रेन्द्र गन्धाद्यैः प्रत्यहं यजेत्

1.120.27

कृत्वैवं विधिना विप्र देवस्य शयनीव्रतम् ।
भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः

1.120.28

श्रावणे कृष्णपक्षे तु एकादश्यां द्विजोत्तम ।
कामिकां समुपोष्यैव नियमेन नरोत्तम

1.120.29

द्वादश्यां कृतनित्यस्तु श्रीधरं पूजयेद्धरिम् ।
उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान्

1.120.30

दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत बान्धवैः ।
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम्

1.120.31

स सर्वकामांल्लब्ध्वेह याति विष्णोः परं पदम् ।
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै

1.120.32

द्वादश्यां नियतो भूत्वा पूजयेच्च जनार्दनम् ।
उपचारैः षोडशभिस्ततः संभोज्य वाडवान्

1.120.33

.
दत्वा च दक्षिणां तेभ्यः पुत्रं प्राप्येह सद्गुणम् ।
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः

1.120.34

नभस्यकृष्णैका दश्यामजाख्यां समुपोष्य वै ।
अर्चेदुर्पेन्द्रं द्वादश्यामुपचारैः पृथग्विधैः

1.120.35

विप्रान्संभोज्य मिष्टान्नैर्विसृजेत्प्राप्तदक्षिणान् ।
एवं कृतव्रतो विप्रभक्त्याजायाः समाहितः

1.120.36

भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं क्षयम् ।
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै

1.120.37

कृत्वा नित्यार्चनं तत्र कटिदानमथाचरेत् ।
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम

1.120.38

समुत्सवविधानेन नीत्वा तां सलिलाशये ।
कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः

1.120.39

आनीय मण्डपे तस्मिन् वामपार्श्वेन शाययेत् ।
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम्

1.120.40

संभोज्य वाडवान्दत्वा दक्षिणां च विसर्जयेत् ।
एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम्

1.120.41

भुक्तिं प्राप्येह मुक्तिं तु लभतेंऽते प्रपञ्चतः ।
इषस्य कृष्णैका दश्यामिन्दिरां समुपोष्य वै

1.120.42

शालग्रामशिलाग्रे तु मध्याह्ने श्राद्धमाचरेत् ।
विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने

1.120.43

पद्ननाभं समभ्यर्च्य भूदेवान्भोजयेत्सुधीः ।
विसृज्य दक्षिणां दत्वा तांस्ततो ऽश्नीत च स्वयम्

1.120.44

एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् ।
पितॄणां कोटिमुद्धृत्य यात्यन्ते वैष्णवं गृहम्

1.120.45

एकादश्यामिषे शुक्ले विप्र पाशाङ्कुशाह्वयाम् ।
उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत्

1.120.46

ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ।
भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः

1.120.47

एवं यः कुरुते भक्त्या नरः पाशाङ्कुशाव्रतम् ।
स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम्

1.120.48

कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम ।
रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत्

1.120.49

केशवं केशिहॄन्तारं देवदेवं सनातनम् ।
भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान्

1.120.50

एवं कृतव्रतो विप्र भोगान्भुक्त्वेह वाञ्छितान् ।
व्योमयानेन सांनिध्यं लभते च रमापतेः

1.120.51

ऊर्जस्य शुक्लैकादश्यां समुपोष्य प्रबोधिनीम् ।
केशवं बोधयेद्रात्रौ सुप्तं गीतादिमङ्गलैः

1.120.52

ऋग्यजुःसाममन्त्रैश्च वाद्यैर्नानाविधैरपि ।
द्राक्षेक्षुदाडिमैश्चान्यै रंभाशृङ्गाटकादिभिः

1.120.53

समर्पणैस्ततो रात्र्यां व्यतीतायां परे ऽहनि ।
स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत्

1.120.54

उपचारैः षोडशभिः पौरुषेणापि सूक्ततः ।
संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान्

1.120.55

ततस्तां प्रतिमां हैमीं सधेनुं गुरवेर्ऽपयेत् ।
एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः

1.120.56

स भुक्त्वेह वरान्भोगान्वैष्णवं लभते पदम् ।
मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै

1.120.57

द्वादश्यां कृष्णमभ्यर्चेद्गन्धाद्यैरुपचारकैः ।
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम्

1.120.58

विसृज्य पश्चाद्भुञ्जीत स्वयमिष्टैः समाहितः ।
एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत्

1.120.59

स विमानं समारुह्य यात्यन्ते वैष्णवं पदम् ।
मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै

1.120.60

द्वादश्यां प्रातरभ्यर्च्य ह्यनन्तं विश्वरूपकम् ।
सर्वैरेवोपचारैस्तु विप्रान्संभोजयेद्द्विजः

1.120.61

विसृज्य दक्षिणां दत्वा स्वयं भुञ्जीत बान्धवैः ।
एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान्

1.120.62

दश पूर्वान्दश परान्समुद्धृत्य व्रजेद्धरिम् ।
पौपस्य कृष्णैकादश्यां सफलां समुपोष्य वै ।
द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः

1.120.63

संभोज्य विप्रान्मधुरैर्विसृजेल्लब्धदक्षिणान् ।
एवं कृत्वा व्रतं विप्र सफलाया विधानतः

1.120.64

भुक्त्वेह भोगानखिलान्यात्यन्ते वैष्णवं पदम् ।
पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै

1.120.65

द्वादश्यां चक्रिणं प्रार्येदर्घाद्यैरुपचारकैः ।
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम्

1.120.66

विसृज्य स्वयमश्नीयाच्छेषान्नं स्वेष्टबान्धवैः ।
एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान्

1.120.67

विमानवरमारुह्य यात्यन्ते हरिमन्दिरम् ।
माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै

1.120.68

स्नात्वा दत्वा तर्पयित्वा हुत्वा भुक्त्वा समर्च्य च ।
तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि

1.120.69

वैकुण्ठं सम्यगभ्यर्व्य सर्वैरेवोपचारकैः ।
द्विजान्संभोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम्

1.120.70

एवं कृत्वा व्रतं विप्र विधिना सुसमाहितः ।
भुक्त्वेह वाञ्छितान्भोगानन्ते विष्णुपदं लभेत्

1.120.71

माघस्य शुक्लैकादश्यां समुपोष्य जयाह्वयाम् ।
प्रातर्हरि दिने ऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज

1.120.72

भोजयित्वा दक्षिणां च दत्वा विप्रान्विसृज्य च ।
स्वयं भुञ्जीत तच्छेषं प्रयतो निजबान्धवैः

1.120.73

य एवं कुरुते विप्र व्रतं केशवतोषणम् ।
स भुक्त्वेह वरान्भोगानन्ते विष्णोः पदं व्रजेत्

1.120.74

तपस्यकृष्णैकादश्यां विजयां समुपोष्य वै ।
द्वादश्यां प्रातरभ्यर्च्य योगीशं गन्धपूर्वकैः

1.120.75

ततः संभोज्य भूदेवान्दक्षिणाभिः प्रतोष्य तान् ।
विसृज्य बान्धवैः सार्द्धं स्वयमश्नीत वाग्यतः

1.120.76

एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् ।
देहान्ते वैष्णवं लोकं याति देवैः सुसत्कृतः

1.120.77

फआल्गुनस्य सिते पक्षे एकादश्यां द्विजोत्तम ।
उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत्

1.120.78

पुण्डरीकाक्षमखिलैरुपचारैस्ततो द्विजान् ।
भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम्

1.120.79

एवं कृत्वा विधानेनामलक्यां पूजनादिकम् ।
सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम्

1.120.80

चैत्रस्य कृष्णैकादशीं पापमोचनिकां द्विज ।
उपाष्य द्वादश्यांप्रातर्गोविन्दं पूजयेत्तथा

1.120.81

उपचारैः षोडशभिर्द्विजान्संभोज्य दक्षिणाम् ।
दत्वा तेभ्यो विसृज्याथ स्वयं भुञ्जीत बान्धवैः

1.120.82

एव यः कुरुते विप्र पापमोचनिकाव्रताम् ।
स याति वैष्णवं लोकं विमानेन तु भास्वता

1.120.83

इत्थं कृष्णो तथा शुक्ले व्रतं चैकादशीभवम् ।
मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित्

1.120.84

यतस्त्रिदिनसंसाध्यं कीर्तिनं पापनाशनम् ।
सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम्

1.120.85

त्यजेच्चत्वारि भुक्तानि नारदै तद्दिनत्रये ।
आद्यन्तयोरेकमेकं मध्यमे द्वयमेव हि

1.120.86

अथ ते नियमान्वच्मि व्रते ह्यस्मिन्दिनत्रये ।
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा

1.120.87

शाकं मधु परान्नं च पुनर्भोजनमैथुने ।
दशम्यां दश वस्तूनि वर्जयेद्वैष्णवऋ सदा

1.120.88

द्यूतक्रीडां च निद्रां च तांबूलं दन्तधावनम् ।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्

1.120.89

कोपं ह्यनृतवाक्यं च एकादश्यां विवर्ज्जयेत् ।
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम्

1.120.90

व्यायामं च प्रवासं च पुनर्भोजनमैथुने ।
अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत्

1.120.91

एवं नियमकृद्विप्र उपवासं समाचरेत् ।
शक्तो ऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम्

1.120.92

अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc