नारद पुराण · अध्याय 1.119
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितनवमीव्रतकथनं नामाष्टादशाधिकशततमो ऽध्यायः
सनातन उवाच
अथ ते ऽहं प्रवक्ष्यामि दशम्या वै व्रतानि च ।
यानि कृत्वा नरो भक्त्या धर्मराजप्रियो भवेत्
चैत्रशुक्लद शम्यां तु धर्मराजं प्रपूजयेत् ।
तत्कालसंभवैः पुष्पैः फलैर्गन्धादिभिस्तथा
सोपवासो वैकभक्तो भोजयित्वा द्विजोत्तमान् ।
चतुर्द्दशततस्तेभ्यः शक्त्या दद्याच्च दक्षिणाम्
एवं यः कुरुते विप्र धर्मराजप्रपूजनम् ।
स धर्मस्याज्ञयागच्छेद्देवैः साधर्म्यमच्युतः
दशम्यां माधवे शुक्ले विष्णुमभ्यर्च्य मानवः ।
गन्धाद्यैरुपचारैश्च श्वेतपुष्पैः सुगन्धिभिः
शतं प्रदक्षिणाः कृत्वा विप्रन्संभोज्य यत्नतः ।
लभते वैष्णवं लोकं नात्र कार्या विचारणा
ज्येष्ठे शुक्लदशम्यां तु जाह्नवी सरितां वरा ।
समायाता धरां स्वर्गात्तस्मात्सा पुण्यदा स्मृता
ज्येष्ठः शुक्लदलं हस्तो बुधश्च दशमीः तिथिः ।
गरानन्दव्यतीपाताः कन्येन्दुवृषभास्कराः
दशयोगः समाख्यातो महापुण्यतमो द्विज ।
हरते दश पापानि तस्माद्दशहरः स्मृतः
अस्यां यो जाह्नवीं प्राप्य स्नाति संप्रीतमानसः ।
विधिना जाह्नवीतोये स याति हरिमन्दिरम्
आषाढशुक्लदशमी पुण्या मन्वा दिकैः स्मृता ।
तस्यां स्नानं जपो दानं होमो वा स्वर्गतिप्रदाः
श्रावणे शुक्लदशमी सर्वाशापरिपूर्तिदा ।
अस्यां शिवार्चनं शस्तं गन्धाद्यै रुपचारकैः
तत्रोपवासो नक्तं वा द्विजानां भोजनं जपः ।
हेम्नो दान च धेन्वादेः सर्वपापप्रणाशनम्
अथो नभस्यशुक्लायां दशम्यां द्विजसत्तम ।
व्रतं दशावताराख्यं तत्र स्नानं जलाशये
कृत्वा संध्यादिनियमं देवर्षिपितृतर्पणम् ।
ततो दशावताराणि समभ्यर्चेत्स माहितः
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ।
रामं रामं च कृष्णं च बौद्धं कल्किनमेव च
दशमूर्तिस्तु सौवर्णीः पूजयित्वा विधानतः ।
दशभ्यो विप्रवर्येभ्यो दद्यात्सत्कृत्य नारद
उपवासं चैकभक्तं कृत्वा संभोज्य वाडवान् ।
विसृज्य पश्चाद्भुञ्जीत स्वयं स्वेष्टैः समाहितः
भक्त्या कृत्वा व्रतं त्वेतद्भुक्त्वा भोगानिहोत्तमान् ।
विमानेन व्रजेदन्ते विष्णुलोकं सनातनम्
आश्विने शुक्लदशमी विजया सा प्रकीर्तिता ।
चतुर्गोमयपिण्डानि प्रातर्न्यस्य गृहाङ्गणे
चक्रवालस्वरूपेण तन्मध्ये रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ पूजयेच्चतुरो ऽपि हि
सपिधानासु पात्रीषु गोमयीषु चतसृष्ट ।
किन्नं धान्यं सरौप्यं तु धृत्वा धौतांशुकावृतम्
पितृमातृभ्रातृपुत्रजाया भृत्यसमन्वितम् ।
संपूज्यं गन्धपुष्पाद्यैर्नैवेद्यैश्च विधानतः
नमस्कृत्याथ भुञ्जीत द्विजान्संभोज्य पूजितान् ।
एवं कृत्वा विधानं तु नरो वर्षं सुरवान्वितः
धनधान्यसमृद्धश्च निश्चितं जायते द्विज ।
अथापाराह्नसमये नवम्यां संनिमन्त्रिताम्
पूर्वदिक्षु शमीं विप्र गत्वा तन्मूलजां मृदम् ।
गृहीत्वा स्वगृहं प्राप्य गीतवादित्रनिःस्वनैः
संपूज्य तां विधानेन सज्जीकृत्य स्वकं बलम् ।
निर्गत्य पूर्वद्वारेण ग्रामाद्ब्रहिरनाकुलः
ततः शत्रुप्रतिकृतिं निर्मितां पत्रकादिभिः ।
मनसा कल्पितां वापि स्वर्णं पुंरवंशरेण वै
विध्येदिति भृशं प्रीतः प्राप्नुयात्स्वगृहं निशि ।
एवं कृतविधिर्वापि गच्छेद्वा शत्रुनिग्रहे
एषैवं दशमी विप्र विधिनाऽचरिता सदा ।
धनं जयं सुतान् गाश्च गजाश्वं वाप्यजाविकम्
दद्यादिह शरीरान्ते स्वर्गतिं चापि नारद ।
दशम्यां कार्तिके शुक्ले सार्वभौमव्रतं चरेत्
कृतोपवासो वैकाशी निशीथे ऽपूपकादिभिः ।
दशदिक्षु बलिं दद्याद् गृहद्वापि पुराद्ब्रहिः
मण्डले ऽष्टदले कॢप्ते गोविड्लिप्तधरातले ।
मन्त्रैरेभिर्द्विजश्रेष्ठ गणेशादिकृतार्चनः
यो मे पूर्वगतः पाप्मा पापकेनेह कर्मणा ।
तमिन्द्रो देवरा जो ऽद्य नाशयत्वखिलेष्टदः
यो मे वह्निगतः पाप्मा पापकेनेह कर्मणा ।
तेजोराजो ऽथ वह्निस्तं नाशयत्वखिलेष्टदः
यो मे दक्षगतः पाप्मा पापकेनेह कर्मणा ।
तं यमः प्रेतराजो वै नाशयत्वखिलेष्टदः
यो मे नैरृतिगः पाप्मा पापकेनेह कर्मणा ।
रक्षोराजो नैरृतिस्तं नाशयत्वखिलेष्टदः
यो मे पश्चिमगः पाप्मा पापकेनेहकर्मणा ।
यादः पतिस्तं वरुणो नाशयत्वखिलेष्टदः
यो मे वायुगतः पाप्मा पापकेनेह कर्मणा ।
वायुस्तं मरुतां राजो नाशयत्वखिलेष्टदः
यो मे सौम्यगतः पाप्मा पापकेनेह कर्मणा ।
सोमस्तमृक्षयक्षेशो नाशयत्वखिलेष्टदः
यो म ईशगतः पाप्मा पापकेनेह कर्मणा ।
ईशानो भूतनाथस्तं नाशयत्वखिलेष्टदः
यो मं ऊर्द्ध्वगतः पाप्मा पापकेनेह कर्मणा ।
ब्रह्मा प्रजापतीशस्तं नाशयत्वखिलेष्टदः
यो मे ऽधःसंस्थितः पाप्मा पापकेनेह कर्मणा ।
अनन्तो नागराजस्तं नाशयत्वखिलेष्टदः
इत्येवं दिक्षु दशसु बलिं दत्वा समाहितः ।
क्षेत्रपालाय तद्बाह्ये क्षिपेद्बलिमतन्द्रितः
एवं कृतविधिः शेषं निशायां निनयेत्सुधीः ।
गीतैः सुमङ्गलप्रायैः स्तवपाठैर्जपादिभिः
प्रातः स्नात्वा समभ्यर्च्य लोकपालान् द्विजोत्तमान् ।
द्वादशाभ्यर्च्य संभोज्य शक्तितो दक्षिणां ददेत्
इत्थं कृत्वा व्रतं विप्र भोगान्भुक्तैहिकाञ्छुभान् ।
युगं स्वर्गसुखं भुक्त्वा सार्वभौमो नृपो भवेत्
मार्गशुक्लदशम्यां तु चरेदा रोग्यकं व्रतम् ।
गन्धाद्यैरर्चयेद्विप्रान् दश तच्चरणोदकम्
पीत्वाथ दक्षिणां दत्वा विसूजेदेकभोजनं ।
एतत्कृत्वा व्रतं विप्र ह्यारोग्यं प्राप्य भूतले
धर्मराजप्रसादेन मोदते दिवि देववत् ।
पौषे दशम्यां शुक्लायां विश्वेदेवान् समर्चयेत्
ऋतुं दक्षं वसू6न्सत्यं कालं कामं मुनिं गुरुम् ।
विप्रं रामं च दशधा केशवस्तान्समास्थितः
स्वापयित्वा दर्भमयानासनेषु च संस्थितान् ।
गन्धैर्धूपैस्तथा दीपैर्नैवेद्यैश्चापि नारद
प्रत्येकं दक्षिणां दत्वा प्रणियत्य विसर्जयेत् ।
दक्षिणां तां द्विजाग्र्येभ्यो गुरवे वा समर्पयेत्
एवं कृतविधि श्चैकभक्तो भोगी व्रती भवेत् ।
लोकद्वयस्य विप्रर्षे नात्र कार्या विचारणा
माघशुक्लदशम्यां तु सोपवासो जितेन्द्रियः ॥।
देवांनगिरसो नाम दश सम्यक्समर्चयेत्
कृत्वा स्वर्णमयान्विप्र गन्धाद्यैरुपचारकैः ।
आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च
बर्हिष्मांश्च गविष्ठश्च दत्तः सत्यश्च ते दश ।
दश विप्रान्भोजयित्वा मधुरान्नेन नारद
मूर्तीस्तेभ्यः प्रदद्यात्ताः स्वर्गलोकाप्तये क्रमात् ।
अन्त्यशुक्लदशम्यां तु चतुर्दशं यमान्यजेत्
यमश्च धर्मराजश्च मृत्युश्चैवान्तकस्तथा ।
वैवस्वतश्च कालश्च सर्वभूतक्षयस्तथा
औदुम्बरश्च दघ्नश्च द्वौ नीलपरमेष्ठिनौ ।
वृकोदरश्चचित्रश्च चित्रगुप्तश्चतुर्दश
गन्धाद्यैरुपचारैश्च समभ्यर्च्याथतर्पयेत् ।
तिलांबुमिश्राञ्जलिभिर्दर्भैः प्रत्येकशस्त्रिभिः
ततश्च दद्यात्सूर्यार्घं ताम्रपात्रेण नारद ।
रक्तचन्दनसंमिश्रतिलाक्षतयवांबुभिः
एहि सूर्यसहस्रांशो तेजोराशे जगत्पते ।
गृहाणार्घ्यं मया दत्तं भक्त्या मामनुकंपय
इति मन्त्रेण दत्वार्घ्यं विप्रान्भोज्य चतुर्द्दश ।
रौप्यां सुदक्षिणां दत्वा विसृज्याश्नीत च स्वयम्
एवं कृतविधिर्विप्र धर्मराजप्रसादतः ।
भुक्त्वा भोगांश्च पुत्रार्थानैहिकान्देवदुर्लभान्
विमानवरमास्थाय देहान्ते विष्णुलोकभाक्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0