भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.117

1.117.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्पमीव्रतनिरूपणं नाम षोडशाधिकशततमो ऽध्यायः
सनातन उवाच
शुक्लाष्टम्यां चैत्रमासे भवान्याः प्रोच्यते जनिः ।
प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः

1.117.2

दर्शनं जगदम्बायाः सर्वानन्दप्रदं नृणाम् ।
अत्रैवाशो ककलिकाप्राशनं समुदाहृतम्

1.117.3

अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः

1.117.4

महाष्टमीति च प्रोक्ता देव्याः पूजाविधानतः ।
वैशाखस्य सिताष्टम्यां समुपोष्यात्र वारिणा

1.117.5

स्नात्वापराजितां देवीं मांसीबालकवारिभिः ।
स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम्

1.117.6

कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः ।
ज्योतिर्मयविमानेन भ्राजमानो यथा रविः

1.117.7

लोकेषु विचरेद्विप्र देव्याश्चैव प्रसादतः ।
कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम्

1.117.8

शिवलोके वसेत्कल्पं सर्वदेवनमस्कृतः ।
ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः

1.117.9

स विमानेन चरति गन्धर्वाप्सरसां गणैः ।
शुक्लाष्टम्यां तथाऽषाढे स्नात्वा चैव निशांबुना

1.117.10

तेनैव स्नापयेद्देवीं पूजयेच्च विधानतः ।
ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचन्दनैः

1.117.11

नैवेद्यं शर्करोपेतं दत्वाऽचमनमर्पयेत् ।
भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम्

1.117.12

विसृज्य च ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ।
एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात्

1.117.13

नभःशुक्लेतथाष्टम्यां देवीमिष्ट्वा विधानतः ।
क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत्

1.117.14

ततो द्विजान् भोजयित्वा परे ऽह्नि स्वयमप्युत ।
भुक्त्वा समापयेदद्व्रतं संततिवर्धनम्

1.117.15

नभोमासे सिताष्टम्यां दशाफलमिति व्रतम् ।
उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम्

1.117.16

तुलस्याः कृष्णावर्णाया दलैर्दशभिरर्चयेत् ।
कृष्णं विष्णुं तथानन्तं गोविन्दं गरुडध्वजम्

1.117.17

दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम् ।
एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत्

1.117.18

नमस्कारं ततः कुर्यात्प्रदक्षिणसमन्वितम् ।
एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम्

1.117.19

आदौ मध्ये तथा चान्ते होमं कुर्याद्विधानतः ।
कृष्णमन्त्रेण जुहुयाच्चरुणाष्टोत्तरं शतम्

1.117.20

होमान्ते विधिना सम्यगाचार्य्यं पूजयेत्सुधीः ।
सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके

1.117.21

तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणम् ।
हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः

1.117.22

निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेत् ।
दातव्या गौः सवत्सा च वस्त्रालङ्कारभूषिता

1.117.23

दशाहं कृष्णदेवाय पूरिका दश चार्पयेत् ।
ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती

1.117.24

शयनं च प्रदातव्यं यथाशक्ति द्विजोत्तम ।
दशमे ऽह्नि ततो मूर्तिं सद्रव्यां गुरवेर्ऽपयेत्

1.117.25

व्रतान्ते दशविप्रेभ्यः प्रत्येकं दश पूरिकाः ।
दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम्

1.117.26

उपोष्य विधिना भूयात्सर्वका मसमन्वितः ।
अन्ते कृष्णस्य सायुज्यं लभते नात्र संशयः

1.117.27

कृष्णजन्माष्टमी चेयं स्मृता पापहरा नृणाम् ।
केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः

1.117.28

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।
उपवासी तिलैः स्नातो नद्यादौ विमले जले

1.117.29

सुदेशे मण्डपे कॢप्ते मण्डलं रचयेत्सुधीः ।
तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम्

1.117.30

तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम् ।
हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम्

1.117.31

पाद्याद्यैरुपचारैस्तु पूजयेत्स्निग्धमानसः ।
देवकीं वसुदेवं च यशोदां नन्दमेव च

1.117.32

व्रजं गोपांस्तथा गोपीर्गाश्च दिक्षु समर्चयेत् ।
तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः

1.117.33

तिष्ठेत्तथैवार्द्धरात्रे पुनः संस्नापयेद्धरिम् ।
पञ्चामृतैः शुद्धजलैर्गन्धाद्यैः पूजयेत्पुनः

1.117.34

धान्याकं च यवानीं च शुण्ठीं खण्डं च नारद ।
साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत्

1.117.35

पुनरारार्तिकं कृत्वा दशधा रूपधारिणम् ।
विचिन्तयन्मृगाङ्काय दद्यादर्घ्यं समुद्यते

1.117.36

ततः क्षमाप्य देवेशं रात्रिखण्डं नयेद्व्रती ।
पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा

1.117.37

ततः प्रभाते विप्रग्र्यान्भोजयेन्मधुरान्नकैः ।
दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः

1.117.38

ततस्तां प्रतिमां विष्णोः स्वर्णधेनुधरान्विताम् ।
गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम्

1.117.39

दारापत्यसुहृद्भृत्यरेवं कृत्वा व्रत नरः ।
साक्षाद्गोकमाप्नोति विमानवरमास्थितः

1.117.40

नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ।
कृतेन येन लभ्येत कोट्यैकादशकं फलम्

1.117.41

शुक्लाष्टम्यां नभस्यस्य कुर्याद्राधाव्रतं नरः ।
पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत्

1.117.42

मध्याह्ने पूजयित्वेनामेकभक्तं समापयेत् ।
शक्तो भक्तश्चोपवासं परे ऽह्नि विधिना ततः

1.117.43

सुवासिनीर्भोजयित्वा गुरवे प्रतिमार्पणम् ।
कृत्वा स्वयं च भुञ्जीतं व्रतमेवं समापयेत्

1.117.44

व्रतेनानेन विप्रर्षे कृतेन विधिना व्रती ।
रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत्

1.117.45

दूर्वाष्टमीव्रतं चात्र कथितं तच्च मे शृणु ।
शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम

1.117.46

स्थाप्य लिङ्गं ततो गन्धैः पुष्पैर्धूपैश्च दीपकैः ।
नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः

1.117.47

अर्घ्यं प्रदद्यात्पूजान्ते मन्त्राभ्यां सुसमाहितः ।
त्वं दूर्वे ऽमृतजन्मासि सुरासुरनमस्कृते

1.117.48

सौभाग्यं संततिं देहि सर्वकार्यकरी भव ।
यथा शाखा प्रशाखाभिर्विस्तृतासि महीतले

1.117.49

तथा विस्तृतसंतानं देहि मे ऽप्यजरामरम् ।
ततः प्रदक्षिणीकृत्य विप्रान्संभोज्य तत्र वै

1.117.50

भुक्त्वा स्वयं गृहं गच्छेदत्वा विप्रेषु दक्षिणाम् ।
फलानि च प्रशस्तानि मिष्टानि सुरभीणि च

1.117.51

एवं पुण्या पापहरा नृणा दूर्वाष्टमी द्विज ।
चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः

1.117.52

या न पूजयते दूर्वा नारी मोहाद्यथाविधि ।
जन्मानि त्रीणि वैधव्यं लभते सा न संशयः

1.117.53

यदा ज्येष्ठर्क्षसंयुक्ता भवेच्जैवाष्टभी द्विज ।
ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी

1.117.54

अथैनां तु समारभ्य व्रतं षोडशवासरम् ।
महालक्ष्म्याः समुद्दिष्टं सर्वसंपद्विवर्धनम्

1.117.55

करिष्ये ऽहं महालक्ष्मीव्रतं ते त्वत्परायणः ।
तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः

1.117.56

इत्युच्चार्य ततो बद्धा डोरक दक्षिणे करे ।
षोडशग्रन्थिसहितं गुणैः षोडशभिर्युतम्

1.117.57

ततो ऽन्वहं महालक्ष्मीं गन्धाद्यैरर्च्चयेद्व्रती ।
यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः

1.117.58

वस्त्रमण्डपिकां कृत्वा सर्वतोभद्रमण्डले ।
कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः

1.117.59

उत्तार्य डोरकं बाहोः कुंभस्याधो निवेदयेत् ।
चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः

1.117.60

स्नपनं कारयेत्तासाः जलैः पञ्चामृतैस्तथा ।
उपचारैः षोडशभिः पूजयित्वा विधानतः

1.117.61

जागरस्तत्र कर्तव्यो गीतवादित्रनिः स्वनैः ।
ततो निशीथे संप्राप्ते ऽभ्युदिते ऽमृतदीधितौ

1.117.62

दत्वार्घ्यं बन्धनं द्रव्यैः श्रीखण्डाद्यैर्विधानतः ।
चन्द्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत्

1.117.63

क्षीरोदार्णवसंभूत महालक्ष्मीसहोदर ।
पीयूषधाम रोहिण्याः सहितार्ऽघ्यं गृहाण मे

1.117.64

क्षीरोदार्णवसम्भूते कमले कमलालये ।
विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव

1.117.65

एकनाथे जगन्नाथे जमदग्निप्रिये ऽव्यये ।
रेणुके त्राहि मां देवि राममातः शिवं कुरु

1.117.66

मन्त्रैरेतैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः ।
सम्यक्संपूज्य ताः सम्यग्गन्धयावककज्जलैः

1.117.67

संभोज्य जुहुयादग्नौ बिल्वपद्मकपायसैः ।
तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान्

1.117.68

मृत्युञ्जयाय च परं सर्वरोगप्रशान्तये ।
चन्दनं तालपत्रं च पुष्पमालां तथाक्षतान्

1.117.69

दुर्वां कौसुम्भसूत्रं च युगं श्रीफलमेव वा ।
भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश

1.117.70

समाच्छाद्यान्यशूर्पेण व्रती दद्यात्समन्त्रकम् ।
क्षीरोदार्णवसंभूता लक्ष्मीश्चन्द्रसहोदरा

1.117.71

व्रतेनानेन संतुष्टा भवताद्विष्णुवल्लभा ।
चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत्

1.117.72

ततस्तु चतुरो विप्रान् षोडशापि सुवासिनीः ।
मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः

1.117.73

समाप्तिनियमः पश्चाद्भञ्जीतेष्टैः समन्वितः ।
एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः

1.117.74

भुक्त्वेष्टानैहिकान् कामांल्लक्ष्मीलोके वसेच्चिरम् ।
एषाषोकाष्टमी चोक्ता यस्यां पूर्णं रमाव्रतम्

1.117.75

अत्राशोकस्य पूजा स्यादेकभक्तं तथा स्मृतम् ।
कृत्वाशोकव्रतं नारी ह्यशोका शोकजन्मनि

1.117.76

यत्र कुत्रापि संजाता नात्र कार्या विचारणा ।
आश्विने शुक्लपक्षे तु प्रोक्ता विप्र महाष्टमी

1.117.77

तत्र दुर्गाचनं प्रोक्तं सव्रैरप्युपचारकैः ।
उपवासं चैकभक्तं महाष्टम्यां विधाय तु

1.117.78

सर्वतो विभवं प्राप्य मोदते देववच्चिरम् ।
ऊर्ज्जे कृष्णादिके ऽष्टम्यां करकाख्यं व्रतं स्मृतम्

1.117.79

तत्रोमासहितः शंभुः पूजनीयः प्रयत्नतः ।
चन्द्रोदयेर्ऽघदानं च विधेयं व्रतिभिः सदा

1.117.80

पुत्रं सर्वगुणोपेतमिच्छद्भिर्विविधं सुखम् ।
गोपाष्टमीति संप्रोक्ता कार्तिके धवले दले

1.117.81

तत्रकुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणाम् ।
गवानुगमनं दानं वाञ्छन्सर्वाश्च संपदः

1.117.82

कृष्णाष्टम्यां मार्गशीर्षे मिथुनं दर्भनिर्मितम् ।
अनघां चानघां तत्र बहुपुत्रसमन्वितम्

1.117.83

स्थापयित्वा शुभे देशे गोमयेनोपलेपिते ।
पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः

1.117.84

संभोज्य द्विजदांपत्यं विसृजेल्लब्धदक्षिणम् ।
व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम्

1.117.85

पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः

1.117.86

मार्गाशीर्षसिताष्टम्यां कालभैरवसन्निदौ ।
उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते

1.117.87

यत्किञ्चिदशुभं कर्म कृतं मानुषजन्मनि ।
तत्सर्वं विलयं याति कालभैरवदर्शनात्

1.117.88

अथ पौषसिताष्टम्यां श्राद्धमष्टकसंज्ञितम् ।
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम्

1.117.89

शुक्लाष्टम्यां तु पौषस्य शिवं सम्पूज्य भक्तितः ।
भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन्

1.117.90

कृष्णाष्टम्यां तु माघस्य भद्रकालीं समर्चयेत् ।
भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम्

1.117.91

माघमासे सिताष्टम्यां भीष्मं संतर्पयद्द्विज ।
संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम्

1.117.92

फआल्गुने त्वसिताष्टम्यां भीप्रां देवीं समर्चयेत् ।
तत्र व्रतपरो विप्र सर्वकामसमृद्धये

1.117.93

शुक्लाष्टम्यां फआल्गुनस्य शिवं चापि शिवां द्विज ।
गन्धाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत्

1.117.94

फआल्गुनापरपक्षे तु शीतलामष्टमीदिने ।
पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः

1.117.95

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्वात्री शीतलायै नमोनमः

1.117.96

वन्दे ऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।
मार्जनी कलशोपेतां विस्फोटकविनाशिनीम्

1.117.97

शीतले शीतले चेत्थं ये जपन्ति जले ल्थिताः ॥ठ
तेषां तु शीतला देवी स्याद्विस्फोटकशान्तिदा

1.117.98

इत्येवं शीतलामन्त्रैर्यः समर्चयते द्विज ।
तस्य वर्षं भवेच्छान्तिः शीतलायाः प्रसादतः

1.117.99

सर्वमासोभये पक्षे विधिवच्चाष्टमीदिने ।
शिवां वापिशिवं प्रार्च्यलभते वाञ्छितं फलम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc