भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.116

1.116.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्ठीव्रतनिरूपणं नाम पञ्चदशाधिकशततमो ऽध्यायः
सनातन उवाच
शृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम् ।
यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात्

1.116.2

चैत्रे तु शुक्लसप्तम्यां बहिः स्नानं समाचरेत् ।
स्थण्डिले गोमयालिप्ते गौरमृत्तिकयास्तृते

1.116.3

लिखित्वाष्टदलं पद्मं कर्णिकायां विभावम् ।
विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ

1.116.4

आग्नेयं च न्यसेन्पत्रे गन्धर्वौं कृतकारकौ ।
दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम्

1.116.5

आकृतौ द्वौ न्यसेत्पत्रे नैरृते मुनिसत्तम ।
काद्रवेयौ महानागौ पश्चिमे कृतचारकौ

1.116.6

वायव्य यातुधानौ द्वौ उत्तरे च ऋषिद्वयम् ।
ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम

1.116.7

तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः ।
दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः

1.116.8

एवं संपूज्य होमं तु घृतेनाष्टशतं चरेत् ।
सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात्

1.116.9

नाममन्त्रेण वेद्यां वा ततः पूर्णाहुतिं ददेत् ।
दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज

1.116.10

एतत्कृत्वा विधआनं तु सर्वसौख्यमवाप्नुयात् ।
देहान्ते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम्

1.116.11

वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी स्वयम् ।
क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात्

1.116.12

तां तत्र पूजयेत्स्नात्वा प्रत्यूषे विमले जले ।
गन्धपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः

1.116.13

ततो घटसहस्रं तु देयं गङ्गाव्रते त्विदम् ।
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः

1.116.14

कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ।
तिलमात्रं तु सौवर्णं विधाय कमलं शुभम्

1.116.15

वस्त्रयुग्मावृतं कृत्वा गन्धधूपादिनार्चयेत् ।
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे

1.116.16

दिवाकर नमस्तुभ्यं प्रभाकर नमो ऽस्तु ते ।
इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते

1.116.17

सोदकुंभं तु तत्पद्मं कपिलां च द्विजेर्ऽपयेत् ।
तद्दिने तूपवस्तव्यं भोक्तव्यं च परे ऽहनि

1.116.18

संभोज्य ब्राह्मणान्भक्त्या व्रतसाकल्यमाप्नुयात् ।
निबव्रतं च तत्रेव तद्विधानं शृणुष्व मे

1.116.19

निंबपत्रैः स्मृता पूजा भास्करस्य द्विजोत्तम ।
खखोल्कायेति मन्त्रेण प्रणवाद्येन नारद

1.116.20

निंबपत्रं ततो ऽश्नीयाच्छयेद्भूमौ च वाग्यतः ।
द्विजान्परे ऽह्नि संभोज्य स्वयं भुञ्जीत बन्धुभिः

1.116.21

निंबपत्रव्रतं चैतत्कर्तृआणां सर्वसौख्यदम् ।
सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे शृणु

1.116.22

अमृतं पिबतो हस्तात्सूर्यस्यामृतबिन्दवः ।
निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः

1.116.23

शर्करा च ततस्तस्मादिक्षुसारामृतोपमा ।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः

1.116.24

शर्करासप्तमी चैव वाजिमेधपलप्रदा ।
सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी

1.116.25

अस्यान्तु शर्करादानं शर्कराभोजनं तथा ।
कर्तव्यं हि प्रयत्नेन व्रतमे तद्रविप्रियम्

1.116.26

यः कुर्यात्पराया भक्त्या स वै सद्गतिमाप्नुयात् ।
ज्येष्ठे तु शुक्लसप्तम्यां जात इन्द्रो रविः स्वयम्

1.116.27

तं संपूज्य विधानेन सोपवासो जितेन्द्रियः ।
स्वर्गतिं लभते विप्र देवेन्द्रस्य प्रसादतः

1.116.28

आषाढशुक्लसप्तम्यां विवस्वान्नाम भास्करः ।
जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक्

1.116.29

लभते सूर्यसायुज्यं विप्रेन्द्रात्र न संशयः ।
श्रावणे शुक्लसप्तम्यामव्यङ्गाख्यं व्रतं शुभम्

1.116.30

कार्पासं तु चतुर्हस्तं सार्द्ध वस्त्रं हि गोपतेः ॥।
पूजान्ते प्रीतये देयं व्रतमेतच्छुभावहम्

1.116.31

यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी ।
अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत्

1.116.32

भाद्रे तु शुक्लसप्तम्याममुक्ताभरणव्रतम् ।
सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम्

1.116.33

गङ्गादिभिः षोडशभिरुपचारैः समर्चनम् ।
प्रार्थ्य प्रणम्य विसृजेत्सर्वकामसमृद्धये

1.116.34

फलसप्तमिका चेयं तद्विधानमुदीर्यते ।
नालिकेरं च वृन्ताकं नारङ्गं बीजपूरकम्

1.116.35

कूष्माण्डं बृहतीपूगमिति सप्त फलानि वै ।
महादेवस्य पुरतो विन्यस्यापरदोरकम्

1.116.36

सप्ततन्तुकृतं सप्तग्रन्थियुक्तं द्विजोत्तम ।
संपूज्य परया भक्त्या धारयेद्वामके करे

1.116.37

स्त्री नरो दक्षिणे चैव यावद्वर्षं समाप्यते ।
संभोज्य विप्रान्सप्तैव पायसेन विसृज्यस तान्

1.116.38

स्वयं भुञ्जीत मतिमान् व्रतसंपूर्तिहेतवे ।
फलानि तानि देयानि सप्तस्वपि द्विजेषु च

1.116.39

एवं तु सप्त वर्षाणि कृत्वोपास्य यथाविधि ।
सायुज्यं लभते विप्र महादेवस्य तद्व्रती

1.116.40

आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी ।
तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान्

1.116.41

आरभ्य कपिलाङ्गां च संपूज्य प्रार्थयेत्ततः ।
त्वामहं दद्मि कल्याणि प्रीयतामर्यमा स्वयम्

1.116.42

पालय त्वं जगत्कत्स्नं यतो ऽसि धर्मसम्भवा ।
इत्युक्त्वा वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम्

1.116.43

नमस्कृत्य स्वयं विप्र विसृजेत्प्राशयेत्वरवयम् ।
पचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान्

1.116.44

भोजयित्वा स्वयं चाद्यात्तदन्नं द्विजशेषितम् ।
कृतं ह्येतद्गतं विप्र सुभाष्यं श्रद्धयान्वितः

1.116.45

देवदेवप्रसादेन भुक्तिमुक्तिमवाप्नुयात् ।
अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम्

1.116.46

तस्यां तु सप्तशाकानिसस्वर्णकमलानि च ।
प्रदद्यात्सप्तविप्रेभ्यः शाकाहारस्ततः स्वयम्

1.116.47

द्वितीये ऽह्नि द्विजान्भोज्य दत्वा तेभ्यो ऽन्नदक्षिणाम् ।
विसृज्य बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः

1.116.48

मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम् ।
यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह

1.116.49

अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः ।
अतो ऽस्यां पूजनं तस्य यथोक्तविधिना द्विज

1.116.50

कृत्वा द्विजान्भोजयित्वा सप्तैव मधुरादिना ।
सुवर्णदक्षिणां दत्वा विसृज्याश्नीत च स्वयम्

1.116.51

कृत्वैतद्विधिना लोकं सृर्य्यस्य व्रजति ध्रुवम् ।
द्विजोब्राह्मं तथा शूद्रः सत्कुलेजन्म चाप्नुयात्

1.116.52

पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंज्ञितम् ।
उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः

1.116.53

क्षीरसिक्तान्नसंबद्धं मोदकं प्रस्थसंमितम् ।
द्विजाय दत्वा भोज्यान्यान्सप्ताष्टभ्यश्च दक्षिणाम्

1.116.54

पृथवी वा सुवर्णं वा विसृज्याश्नीत च स्वयम् ।
अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम्

1.116.55

मार्तण्डाख्यं व्रतं नाम कथयन्ति द्विजाः परे ।
एकमेवेति च प्रोक्तमेकदैवतया बुधैः

1.116.56

माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिसंज्ञकम् ।
समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम्

1.116.57

सौवर्णं गन्धपुष्पाद्यैः कृत्वा रात्रौ च जागरम् ।
परे ऽह्नि विप्रान्सम्भोज्य पायसेन तु सप्त वै

1.116.58

दक्षिणां नालिकेराणि तेभ्यो दत्वा गुरुं ततः ।
सौवर्णं तु रवेर्बिम्बं युक्तं दक्षिणया न्यया

1.116.59

समर्प्य च भृशं प्रार्थ्य विसृज्याद्यात्स्वयं ततः ।
एतत्सर्वाप्तिदं नाम संप्रोक्तं सार्वकामिकम्

1.116.60

व्रतस्यास्य प्रभावेण द्वैतं सिध्येद्धि सर्वथा ।
माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम्

1.116.61

त्रिलोचनजयन्तीयं सर्वपापहरा स्मृता ।
रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी

1.116.62

अस्यां समर्च्य सवितुः प्रतिमां तु हैमीं हैमाश्वयुक्तरथगां तु ददेत्सहेभाम् ।
यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः

1.116.63

भास्करी सप्तमी चेयं कोटिभास्वद्ग्रहोपमा ।
अरुणोदयवेलायामस्यां स्नानं विधीयते

1.116.64

अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै ।
निधाय शिरसि स्नायात्सप्तजन्माघशान्तये

1.116.65

पुत्रप्रदं व्रतं चात्र प्राहादित्यः स्वयं प्रभुः ।
यो माघसितप्तम्यां पूजयेन्मां विधानतः

1.116.66

तस्याहं पुत्रतां यास्ये स्वांशेन भृशतोषितः ।
तस्माज्जितेन्द्रियो भूत्वा समुपोष्य दिवानिशम्

1.116.67

पूजयेदपरे चाह्नि होमं कृत्वा द्विजां स्ततः ।
दध्योदनेन पयसा पायसेन च भोजयेत्

1.116.68

अनेन विधिना यम्तु कुरुते पुत्रसप्तमीः ।
लभते स तु सत्पुत्रं चिरायुषमनामयम्

1.116.69

तपस्यशुक्लसप्तम्यां व्रतमर्कपुटं चरेत् ॥
अर्कपत्रैर्यजेदर्कमर्कपत्राणि चाश्नुयात्

1.116.70

अर्कनाम जपेच्छश्वदित्थं चार्कपुटव्रतम् ।
धनदं पुत्रदं चैतत्सर्वपापप्रणाशनम्

1.116.71

त्रिवर्गदामिति प्राहुः केचिदेतद्वतं द्विज ।
यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा

1.116.72

सर्वासु सर्वमासेषु सप्तमीषु द्विजोत्तमः ।
भास्कराराधनं प्रोक्तं सर्वकामिकमित्यलम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc