नारद पुराण · अध्याय 1.118
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थिताष्टमीव्रतकथनं नाम सप्तदशाधिकशततमो ऽध्यायः
सनातन उवाच
अथ वक्ष्यामि विप्रेन्द्र नवम्यास्ते व्रतानि वै ।
यानि कृत्वा नरा लोके लभन्ते वाञ्छितं फलम्
चैत्रस्य शुक्लपक्षे तु श्रीरामनवमीव्रतम् ।
तत्रोपवासं विधिवच्छक्तो भक्तः समाचरेत्
अशक्तश्चैकभक्तं वै मध्याह्नोत्सवतः परम् ।
विप्रान्संभोज्य मिष्टान्नै रामप्रीति सुमाचरेत्
गोभूतिलहरिरण्याद्येर्वस्त्रालङ्करणेस्तथा ।
एव यः कुरुते भक्त्या श्रीरामनवमीव्रतम्
विधूय चेहपापानि व्रजे द्विष्णोः परं पदम् ।
उक्तं मातृव्रतं चात्र भैरवेण समन्विताः
स्रग्गन्धवस्रनमनैवेद्यैश्चतुःष्टिस्तु योगिनीः ।
अत्रैव भद्रकालो तु योगिनीनां महाबला
ब्राह्मणश्रेष्ठः सर्वासामाधिपत्ये ऽभिषेचिता ।
तस्मात्तां पूजयेच्चात्र सोपवासो जितेन्द्रियः
राधे नवम्यां दलयोश्चण्डिकां यस्तु पूजयेत् ।
विधिना स विमानेन देवतैः सह मोदते
ज्येष्ठशुक्लनवम्यां तु सोपवासो नरोत्तमः ।
उमां संपूज्य विधिवत्कुमारीर्भोजयेद्द्विजान्
स्वभक्त्या दक्षिणां दत्वा शाल्यन्नं पयसाश्नुयात् ।
उमाव्रतमिदं विप्र यः कुर्याद्विधिवन्नरः
स भुक्त्वेह वरान्भोगानन्ते स्वर्गगतिं लभेत् ।
आषाढे मासि विप्रेन्द्र यः कुर्यात्पक्षयोर्द्विज
नक्तं चैन्द्रीं समभ्यर्च्येदैरावतगतां सिताम् ।
स भवेद्वै वलोके तु भोगभारग्देवयानगः
श्रावणे मासि विप्रेन्द्र यः कुर्यान्नक्तभोजनम् ।
पक्षयोरुपवासं वा कौमारीं चण्डिकां यजेत्
एवं पापहरां गन्धैः पुष्पैर्धूपैश्च दीपकैः ।
नैवेद्यैर्विविधैश्चैव कुमारीभोजनैस्तथा
एवं यः कुरुते भक्त्या कौमारीव्रतमुत्तमम् ।
स विमानेन गच्छेद्वै देवीलोकं सनातनम्
भाद्रे तु नवमी शुक्ला नन्दाह्वा परिकीर्तिता ।
तस्यां यः पूजयेद्दुर्गां विधिवच्चोपचारकैः
सो ऽश्वमेधफलं लब्ध्वा विष्णुलोके महीयते ।
आश्विने शुक्लनवमी महापूर्वा प्रकीर्तिता
अपराह्ने शमीपूजा कार्यास्यां प्राग्दिशि द्विज ।
ततो निशायां प्राग्यामे खड्गं धनुरिषून्गदाम्
शूलं शक्तिं च परशुं छिरिकां चर्म खेटकम् ।
छत्रं ध्वजं गजं चाश्व गोवृषं पुस्तकं तुलाम्
दण्डं पाशं चक्रशङ्खौ गन्धाद्यैरुपचारकैः ।
संपूज्य महिषं तत्र भद्रकाल्यै समालभेत्
एवं बलिं विधायाथ भुक्त्वा पक्कान्न मेव च ।
द्विजेभ्यो दक्षिणां दत्वा व्रतं तत्र समापयेत्
एवं यः पूजयेद्दुर्गां नॄणां दुर्गतिनाशिनीम् ।
इह भुक्त्वा वरान्भोगानन्ते स्वर्गतिमाप्नुयात्
कार्तिके शुक्लनवमी याक्षया सा प्रकीर्तता ।
तस्यामश्वत्थमूले वै तर्प्पणं सम्यगाचरेत्
देवानां च ऋषीणां च पितॄणां चापि नारद ।
स्वशाखोक्तैस्तथा मन्त्रैः सूर्यायार्घ्यं ततोर्ऽपयेत्
ततो द्विजान्भोजयित्वा मिष्टान्नेन मुनूश्वर ।
स्वयं भुक्त्वा च विहरेद्द्विजेभ्यो दत्तदक्षिणः
एवं यः कुरुते भक्त्या जपदानं द्विजार्चनम् ।
होमं च सर्वमक्षय्यं भवेदिति विधेर्वयः
मार्गे तु शुक्लनवमी नन्दिनी परिकीर्तिता ।
तस्यामुपोषितो यस्तु जगदंबां प्रपूजयेत्
गन्धाद्यैः सो ऽश्वमेधस्य फलभाङ्नात्र संशयः ।
पौषे शुक्लनवम्यां तु महामायां प्रपूजयेत्
एकभक्तपरो विप्र वाजपेयफलाप्तये ।
माघमासे तु वा शुक्ला नवमी लोकपूजिता
महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ।
तस्यां स्नानं तथा दानं जपो होम उपोषणम्
सर्वमक्षयतां याति नात्र कार्या विचारणा ।
फआल्गुनामलपक्षस्य नवमी या द्विजोत्तम
आनन्दा सा महापुण्या सर्वपापहरा स्मृता ।
सोपवासोर्ऽचयेत्तत्र यस्त्वानन्दां द्विजोत्तम
स लभेद्वाञ्छितान्कामान्सत्यं सत्यं मयोदितम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0