नारद पुराण · अध्याय 1.114
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वाद्शनास चतुर्थीव्रतानिरूपणं नाम त्रयोदशाधिकसततमो ऽध्यायः
सनातन उवाच
शृणु विप्र प्रवक्ष्यामि पञ्चम्यास्ते व्रतान्यहम् ।
यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात्
प्रोक्ता मत्स्यजयन्ती तु पञ्चमी मधुशुक्लगा ।
अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा
श्रीपञ्चमीति चैषोक्ता तत्र कार्यं श्रियोर्ऽचनम् ।
गन्धाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः
यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुञ्चति ।
पृथ्वीव्रतं तथा चान्द्रं हयगरीवव्रतं तथा
कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीप्सुभिः ।
अथ वैशाखपञ्चम्यां शेषं चाभ्यर्च्य मानवः
सर्वैर्नागगणैर्युक्तमभीष्टं लभते फलम् ।
तथा ज्येष्ठस्य पञ्चम्यां पितॄनभ्यर्चयेत्सुधीः
सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः ।
अथाषाढस्य पञ्चम्यां वायुं सर्वगतं मुने
ग्रामाद्बहिर्विनिर्गत्य धरोपस्थे समास्तितः ।
ध्वजं च पञ्चवर्णं तु वंशदण्डाग्रसंस्थितम्
समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः ।
ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद
लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम् ।
प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते
तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् ।
एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम्
सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः ।
लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ
यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके ।
स एव भविता नूनं स्वप्न इत्याह वै शिवः
अशुभे तु समुत्पन्ने शिवपूजापरायणः ।
सोपवासो नयेदष्टयामं तद्दिनमेव वा
भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत् ।
व्रतमेतत्समुदितं शुभाशुभनिदर्शनम्
नृणां सौभाग्यजनकमिह लोके परत्र च ।
श्रावणे कृष्णपञ्चम्यां व्रतं ह्यन्नसमृद्धिदम्
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद ।
पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः
ततो पात्रान्तरे तत्तु निष्कास्यांबु निधापयेत् ।
प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन्
देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः ।
तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः
सर्वं दिनं क्षिपेदेवं प्रदोषे तु शिवालये ।
गत्वा संपूजयेद्देवं लिङ्गरूपिणमीश्वरम्
गन्धपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम् ।
जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम्
जपं निवेद्य देवाय भवाय भवरूपिणे ।
स्तुत्वा सर्वैर्वौन्दिकैश्च पौराणैश्चाप्यनाकुलः
प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये ।
शारदीयानि चान्नानि तथा वासंतिकान्यपि
यानि स्युस्तैः समृद्धो ऽहं भूयां जन्मनि जन्मनि ।
एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम्
दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जीत वाग्यतः ।
एतदन्नव्रतं विप्र विधिनाऽचरितं नृभिः
सर्वान्नसंपज्जनकं परलोके गतिप्रदम् ।
श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ।
गन्धाद्यैः पूजयेत्तांश्च तथेन्द्राणीमनन्तरम्
संपूज्य स्वर्णरूप्यादिदध्यक्षतकुशांबुभिः ।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः
ततः प्रदक्षिणीकृत्य तद्द्रव्यं संप्रणम्य च ।
संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत्
यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम् ।
तदनन्तफलं भूयान्मम जन्मनि जन्मनि
इत्येवं ददतो द्रव्यं भक्तिभावेन नारद ।
प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः
एतद्व्रतं नरः कृत्वा विप्रान्संभोज्य भक्तितः ।
पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः
भाद्रे तु कृष्णपञ्चम्यां नागान् क्षीरेण तर्पयेत्
यस्तस्याऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम् ।
भाद्रस्य शुक्लपञ्चम्यां पूजयेदृषिसत्तमान्
प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतन्द्रितः ।
गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा
गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम् ।
तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत्
गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः ।
कश्यपो ऽत्रिर्भरद्वाजौ विश्वामित्रो ऽथ गौतमः
जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।
एतैभ्यो ऽघ्य च विधिवत्कल्पयित्वा प्रदाय च
नैवेद्यं विपचेद्वीमान्श्यामाकाद्यैरकृष्टकैः ।
तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि
अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम् ।
कृत्वा व्रतान्ते वरयेदाचार्यान् सप्त वैदिकान्
प्रतिमाः सप्तकुर्वीन्त सुवर्णेन स्वशक्तितः ।
जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः
संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा ।
स्नापयेद्विधि वद्भक्त्या पृथक्पञ्चामृतैरपि
उपचारैः षोडशभिस्ततः संपूज्य भक्तितः ।
अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः
ठसहस्तोमाऽइति ऋखा नामनन्त्रैस्तु वा पृथक् ।
पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत्
ततस्तु सप्त गा दद्याद्वस्त्रालङ्कारसंयुताः ।
आचार्यं पूजयेज्जैव वस्त्रालङ्कारभूषणैः
अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत् ।
भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत्
ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम् ।
भुङ्क्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बन्धुभिः
एतत्कृत्वा व्रतं गाङ्गं भोगान्भुक्त्वाथ वाञ्छितान् ।
सप्तर्षीणां प्रसादेन विमानवरगो भवेत्
आश्विने शुक्लपञ्चम्यामुपाङ्गललिताव्रतम्
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद ।
उपचारैः षोडशभिः पूजयेत्तां विधानतः
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम् ।
द्विजवर्याय दातव्यं व्रतसंपूर्तिहेतवे
"सवाहना शक्तियुता वरदा पूजिता मया ।
मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम्
कार्तिके शुक्लपञ्चम्यां जयाव्रतमनुत्तमम् ।
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम
पूजयित्वा जयां विप्र यथाविधि समाहितः ।
उपचारैः षोडशभिस्ततः शुचिरलङ्कृतः
विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम् ।
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः
यस्तु वै भक्तिसंयुक्तः स्नानं कुर्याज् जयादिने ।
नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा
यदश्वमेधावभृथे फलं स्नानेन कीर्तितम् ।
तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने
अपुत्रो लभते पुत्रं वन्ध्या गभ च विन्दति ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात्
मार्गशुक्ले च पञ्चम्यां नागानिष्ट्वा विधानतः ।
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बान्धवैः
पौषे ऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम् ।
लभते बाञ्छितान्कामान्नात्र कार्या विचारणा
पञ्चम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद ।
पितॄणां पूजनं शस्तं नागानां चापि सर्वथा
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0