भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.115

1.115.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशततमो ऽध्यायः
सनातन उवाच
शृणु विप्र प्रवक्ष्यामि षष्ठ्याश्चैव व्रतानि ते ।
यानि सम्यग्विधायात्र लभघेत्सर्वान्मनोरथान्

1.115.2

चैत्रमासे शुक्लषष्ठ्यां कुमारव्रतमुत्तमम् ।
तत्रेष्ट्वा षण्मुखं देवं नानापूजा विधानतः

1.115.3

पुत्रं सर्वगुणोपेतं प्राप्नुयाच्चिरजीविनम् ।
वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम्

1.115.4

लभते मातृजं सौख्यं नात्र कार्या विचारणा ।
ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम्

1.115.5

लभते वाञ्छितान्कामांस्तत्प्रसादान्न संशयः ।
आषाढशुक्लषष्ठ्यां वै स्कन्दव्रतमनुत्तमम्

1.115.6

उपोष्य पूजयित्वैनं शिवोमाप्रियमात्मजम् ।
लभते ऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः

1.115.7

श्रावणे शुक्लषष्ठ्यां तु शरजन्मानमर्चयेत् ।
उपचारैः षोडशभिर्भक्त्या परमयान्वितः

1.115.8

लभते ऽभीप्सितानर्थान्षण्मुखस्य प्रसादतः ।
भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते

1.115.9

प्रातः स्नात्वा विधानेन नारी शुक्लाम्बरावृता ।
शुक्तमाल्ययधरा वापि नद्याः संगमवालुकाम्

1.115.10

गृहीत्वा वंशपात्रे तु धृत्वा पिण्डाकृतिं च ताम् ।
पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम्

1.115.11

पङ्कजं करवीरं च नेपालीं मालतीं तथा ।
नीलोत्पलं केतकीं च संगृह्य तगरं तथा

1.115.12

एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव च ।
अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत्

1.115.13

प्रार्थयेदग्रतः स्थित्वा देवीं तां गिरिशप्रियाम् ।
गङ्गाद्वारे कुशावर्त्ते विल्वके नीलपर्वते

1.115.14

स्नात्वा कनखले देवि हररिं लब्धवती पतिम् ।
ललिते सुभगं देवि सुखसौभाग्यदायिनि

1.115.15

अनतं दहि सौभाग्येमह्यं तुभ्यं नमो ऽनमनः ।
मन्त्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः

1.115.16

अभ्यर्च्य विधिवत्तस्या नवैद्यं पुरतो न्यसेत् ।
त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः

1.115.17

बीजपूरैः सुतुडीरैः कारवल्लैः सचिर्भटैः ।
फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः

1.115.18

विरूढधान्याङ्कुरकैः सुदीपावलिभिस्तथा ।
साद्धै सर्गणकैधूपः सौहालककरञ्जकैः

1.115.19

गुडपुष्पैः कर्णवेष्टडैर्मोदकैरुपमोदकैः ।
बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः

1.115.20

एवमभ्यर्च्य विधिवद्रात्रौ जागरणोत्सवम् ।
गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा

1.115.21

सखीभिः सहिता साध्वी तां रात्रिं प्रसभं नयेत् ।
न च संमीलयेन्नेत्रे नारीयामचतुष्टयम्

1.115.22

दुर्भगा दुष्कृता वन्ध्या नेत्रसंमीलनाद्भवेत् ।
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत्

1.115.23

गन्धपुष्पैस्तथाभ्यर्च्य गीतवाद्यपुरःसरैः ।
तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम

1.115.24

स्नात्वा गृहं समागत्य हुत्वा वैश्वानरं ततः ।
देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः

1.115.25

कन्यकाश्चैव संभोज्य ब्राह्मणान्दश पञ्च च ।
भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः

1.115.26

ललिता मे ऽस्तु सुप्रीता इत्युक्त्वा तान्विसर्जयेत् ।
यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम्

1.115.27

नरो वा यदि वा नारी तस्य पुण्यफलं शृणु ।
यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि

1.115.28

तदेतेनेह लभ्येत किं बहूक्तेन नारद ।
मृतेरनन्तरं प्राप्य शिवलोकं सनातनम्

1.115.29

मोदते ललितादेव्या शैवे वै सखिवच्चिरम् ।
नभस्ये मासि या शुक्ला षष्ठी सा चन्दनाह्वया

1.115.30

तस्यां देवीं समभ्यर्च्य लभते तत्सलोकताम् ।
रोहिणी पातभौमैस्तु संयुता कपिला भवेत्

1.115.31

तस्यां रविं समभ्यर्च्य व्रती नियमतत्परः ।
लभते वाञ्छितान्कामान्भास्करस्य प्रसादतः

1.115.32

अन्नदानं जपो होमं पितृदेवर्षितर्पणम् ।
सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम

1.115.33

कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुले पनैः ।
प्रदद्याद्वेदविदुषे द्वादशात्मप्रतुष्टये

1.115.34

अथेषुशुक्लषष्ठ्यां तु पूज्या कात्यायनी द्विज ।
गन्धाद्यैर्मङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा

1.115.35

ततः क्षमाप्य देवेशीं प्रणिपत्य विसर्जयेत् ।
पूज्यात्र सैकती मूर्तिर्यद्वा द्विजसती मुदा

1.115.36

वस्त्रालङ्करणैर्भव्यैः कात्यायिन्याः प्रतुष्टये ।
कन्या वरं प्राप्नुयाच्च वाञ्चितं पुत्रमङ्गना

1.115.37

कात्यायिनीप्रसादाद्वै नात्र कार्या विचारणा ।
कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना

1.115.38

देवसेना महाभागा लब्धा सर्वुसुरार्पिता ।
अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम्

1.115.39

संपूज्य निखिलैरेव उपचारैर्मनोहरैः ।
प्राप्नुयादतुलां सिद्धिं मनोभीष्टां द्विजोत्तम

1.115.40

अत्रैव वह्निपूजोक्तां तां च सम्पक्समाचरेत् ।
विविधद्रव्यहोमैश्च वह्निपूजापुरः सरम्

1.115.41

मार्गशीर्षे शक्लषष्ठ्यां निहतस्तारकासुरः ।
स्कन्देन सत्कृतिः प्राप्ता ब्रहमाद्यैः परिकल्पिता

1.115.42

ततो ऽस्यां पूजयेत्स्कन्दं गन्धपुष्पाक्षतैः फलैः ।
वस्त्रैराभूषणश्चापि नैवेद्यैर्विविधैस्तथा

1.115.43

रविवारेण संयुक्ता तथा शतभिषान्विता ।
यदि चेत्सा समुद्दिष्टा चंपाह्वा मुनिसत्तम

1.115.44

तस्यां विश्वेश्वरो देवो द्रष्टव्यः पापनाशनः ।
पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता

1.115.45

स्नानदानादिकं चात्र सर्वमक्षय्यमुच्यते ।
पौषमासे शुक्लषष्ठ्यां देवो दिनपतिर्द्विज

1.115.46

विष्णुरूपी जगत्त्राता प्रदुर्भूताः सनातनः

1.115.47

स तस्मात्पूजनीयो ऽस्यां द्रव्यैर्गन्धपुरस्कृतैः ।
नैवेद्यैर्वस्त्त्रभूषाद्यैः सर्वसौख्यमभीप्सुभिः

1.115.48

माघमासे सिता षष्ठी वरुणाह्वा स्मृता तु सा ।
तस्यां वरुणमभ्यर्च्येद्विष्णुरूपं सनातनम्

1.115.49

रक्तैर्गन्धांशुकैः पुष्पैर्नैवेद्यैर्धूपदीपकैः ।
एवमभ्यर्च्य विधिवद्यद्यच्चाभिलषेन्नरः

1.115.50

तत्तच्च फलतो लब्ध्वा मोदते तत्प्रसादतः ।
फआल्गुने शुक्लषष्ठ्यां तु देवं पशुपतिं द्विज

1.115.51

मृन्मयं विधिना कृत्त्वा पूजयेदुपचारकैः ।
संस्नाप्य शतरुद्रेण पृथक्पञ्चामृतैर्जलैः

1.115.52

गन्धैरालिप्य सुश्वेतैरक्षतैः श्वेतपुष्पकैः ।
बिल्वपत्रैश्च धत्तूरकुसुमैश्च फलैस्तथा

1.115.53

सम्पूज्य नानानैवेद्यैर्नीराज्य विधिवत्ततः ।
क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत्

1.115.54

एवं कृत शिवार्चस्तु नरो नार्यथवा मुने ।
इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc