नारद पुराण · अध्याय 1.113
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमो ऽध्यायः
सनातन उवाच
शृणु विप्रं प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्यहम् ।
यानि कृत्वा नरा नार्यो ऽभीष्टान्कामानवाप्नुयुः
चैत्रमासचतुर्थ्यां तु वासुदेवस्वरूपिणम् ।
गणपं सम्यगभ्यर्च्य दत्त्वा काञ्चनदक्षिणाम्
विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः ।
वैशाखस्य चतुर्थ्यां तु प्रार्थ्यं संकर्षणाह्वयम्
गृहस्थद्विजमुख्येभ्यः शङ्खं दत्त्वा विधानवित् ।
प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम्
ज्येष्ठमासचतुर्थ्यां तु प्रार्च्य प्रद्युम्नरूपिणम् ।
फलं मूलं च युथेभ्यो दत्त्वा स्वर्गं लभेन्नरः
आषाढस्य चतुर्थ्यां तु संप्रपूज्यानिरुद्धकम् ।
यतिभ्यो ऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः
चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् ।
उद्यापनं विधानेन कर्तव्यं फलमिच्छता
अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् ।
कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम्
तथाऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभावहम् ।
रथन्तराह्वकल्पस्य ह्यादिभूतं दिनं यतः
श्रद्धापूतेन मनसा गणेशं विधिना नरः ।
पूजयित्वा लभेच्चापि फलं देवादिदुर्गमम्
श्रावणस्य चतुर्थ्यां तु जाति चन्द्रोदये मुने
गणेशाय प्रदद्याच्च ह्यर्घ्यं विधिविदांवरः ।
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्
नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिन्तयेत् ।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत्
नैवेद्यं मोदकं दद्याद्गणेशप्रीतिदायकम् ।
एवं व्रतं विधायाथ भुक्त्वा मोदकमेव च
सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः ।
व्रतस्यास्य प्रभावेण कामान्मनसि चिन्तितान्
लब्ध्वा लेके परं चापि गणेशपदमाप्नुयात् ।
नानेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये
तस्मात्कार्यं प्रयत्नेन सर्वान्कामानभीप्सता ।
अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम्
केचिदिच्छन्ति देवर्षे तद्विधानं वदामि ते ।
हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम्
वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमण्डले ।
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः
बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया ।
आभिरन्यश्च कुसुमैरभ्यर्च्य फलमोदकैः
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ।
उपहारं प्रकल्प्याथ दद्यादर्घं समुद्यते ।
ततः संप्रारथ्य विघ्नेशमूर्तिं सोपस्करां मुने
आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ।
कृत्वैवं पञ्च वर्षाणि समुपास्य यथाविधि
भुक्त्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् ।
अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम्
पूजनी यो ऽत्र यत्नेन स्रग्गन्धयवसादिभिः ।
ततः प्रदक्षिणीकृत्य शक्तश्चेद्दानमाचरेत्
अशक्तः पुरेतां तु नमस्कृत्य विसर्जयेत् ।
पञ्चाब्दं वादशाब्दं वा षोडशाब्दमथापि वा
व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् ।
प्रभावेण व्रतस्यास्य भुक्त्वा भोगान्मनोरमान्
सत्कृतो देवतावृन्दैर्गोलोकं समवाप्नुयात् ।
अथ शुक्ल चतुर्थ्यां तु सिद्धवैनायकव्रतम्
आवाहनादिभिः सर्वैरुपचारैः समर्चनम् ।
एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम्
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।
पाशाङ्कुशधरं देवं तप्तकाञ्चनसन्निभम्
एकविंशति पत्राणि चैकविंशतिनामभिः ।
समर्पयेद्भक्तियुक्तस्तानि नामानि वै शृणु
सुमुखाय शमीपत्रं गणाधीशाय भृङ्गजम् ।
उमापुत्राय बैल्वं तु दूर्वां गजमुखाय च
लंबोदराय बदरीं धत्तूरं हरसूनवे ।
शूर्पकर्णाय तुलसीं वक्रतुण्डाय शिंबिजम्
गुहाग्रजायापामार्गमेकदन्ताय बार्हतम् ।
हेरम्बाय तु सिंदूरं चतिर्हेत्रे च पत्रजम्
सर्वेश्वरायागस्त्यस्य पत्रं प्रीतिविवर्द्धनम् ।
दूर्वायुग्मं ततो गृह्य गन्धपुष्पाक्षतैर्युतम्
पूजां निवेदयेद्भक्तियुक्तो मोदकपञ्चकम् ।
आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत्
विनायकस्य प्रतिमां हैमीं सोपस्करां मुने ।
निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत्
एवं कृतार्चनो भक्त्या पञ्च वर्षाणि नारद ।
उपास्य लभते कामानैहिकामुष्मिकान् शुभान्
अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन ।
पश्यन् मिथ्याभिशाप तु लभते नात्र संशयः ।
अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत्
सिंहः प्रसेनममधीत्सिंहो जांबवता हतः ।
सकुमारक मा रोदीस्तव ह्येष स्यमन्तकः
इषशुक्लचतुर्थ्यां तु कपर्द्दीशं विनायकम्
पौरुषिण तु सूक्तेन पूजयेदुपचारकैः ।
अकारणान्मुष्टिगतांस्तण्डुलान्सकपर्द्दिकान्
विप्राय बटवे दद्याद्गन्धपुष्पार्चिताय च ।
तण्डुला वैश्वदैवत्या हरदैवत्यमिश्रिताः
कपर्दिगणनाथो ऽसौ प्रीयतां तैः समर्पितैः ।
चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम्
स्त्रीणामेवाधिकारो ऽत्र तद्विधानमुदीर्यते ।
पूजयेच्च गणाधीशं स्नाता स्त्रीसमलङ्कृता
तदग्रे पूर्णपक्वान्नं विन्यसेत्करकान्दश ।
समर्प्य देवदेवाय भक्त्या प्रयतमानसा
देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् ।
सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम्
ततश्चन्द्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् ।
भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये
यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने ।
सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत्
एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् ।
उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत्
यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवाञ्छया ।
व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम्
विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः ।
ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम्
प्रातर्व्रतं तु संकल्प्य धेनुशृञ्जगलं शुचि ।
पीत्वा स्नात्वाथ मध्याह्ने शङ्खपालादिपन्नगान्
शेषं चाह्वामपूर्वैस्तु पूजयेदुपचारकैः ।
क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम्
एवङ्कृते तु विप्रेन्द्र नृभिर्नागव्रते शुभे ।
विषाणि नश्यन्त्यचिरान्न दशन्ति च पन्नगाः
मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वरा ।
क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम्
अयाचितोपवासाभ्यां तृतीयकचतुर्थके ।
एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः
समाप्य च ततो ऽस्यान्ते व्रतस्नातो महाव्रती ।
कारयेद्धेमघटितं भूगणेर्मूषकं रथम्
अशक्तो वर्णकैरेव शुभ्रं चाब्जं सुपत्रकम् ।
तस्योपरि घटं स्थाप्य ताम्रपात्रेण संयुतम्
पूरयेत्तण्डलैः शुभ्रैस्तस्योपरि गणेश्वरम् ।
न्यसेद्वस्त्रयुगाच्छन्नं गन्धाद्यैः पूजयेच्च तम्
नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति ।
जागरैर्शीतवाद्याद्यैः पुराणाख्यानकैश्चरेत्
प्रभाते विमले स्नात्वा होमं कृत्वा विधानतः ।ऽ
तिलव्रीहियवश्वेतसुर्षपाज्यैः सखण्डकैः
गणो गणाधिपश्चैव कूष्माण्डस्त्रिपुरान्तकः ।
लंबोदरैकदन्तौ च रुक्मदंष्ट्रश्च विघ्नपः
ब्रह्मा यमो ऽथ वरुणः सोमसूर्यहुताशनाः ।
गन्धमादी परमेष्ठीत्येवं षोडशनामभिः
प्रणवाद्यैर्ङेंनमोंऽतैः प्रत्येकं दहने हुनेत् ।
वक्रतुण्डेति ङेंतेन बर्मान्तेनाष्टयुक्छतम्
ततो व्याहृतिभिः शक्त्या हुत्वा पूर्णाहुतिं चरेत् ।
दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः
चतुत्विंशतिसंख्याकान् मोदकैः पायसैस्तथा ।
सवत्सां गां ततो दद्यादाचार्याय सदक्षिणाम्
अन्योभ्यो ऽपि यथाशक्ति भूयसीं च ततो ददेत् ।
प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम्
बन्धुभिः सह भुञ्जीत स्वयं च प्रीतमानसः ।
एतद्व्रतं नरः कृत्वा भुक्त्वा भोगानिहोत्तमान्
सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः ।
केचिद्वरव्रतं नाम प्राहुरेतस्य नारद
विधानमेतदेवापि फलं चापीह तत्समम् ।
पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः
विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिणां ददेत् ।
एवं कृते मुने भूयाद्व्रती संपत्तिभाजनम्
माघकृष्णचतुर्थ्यां तु संकष्टव्रतमुच्यते ।
तत्रोपवासं संकल्प्य व्रती नियमपूर्वकम्
चन्द्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः ।
ततश्चन्द्रोदये प्राप्ते मृन्मयं गणनायकम्
विधाय विन्यसेत्पीठे सायुधं च सवाहनम् ।
उपचारैः षोडशभिः समभ्यर्च्य विधानतः
मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् ।
ततोर्ऽघ्यं ताम्रजे पात्रे रक्तचन्दनमिश्रितम्
सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् ।
सशमीपत्रदधि च कृत्वा चन्द्राय दापयेत्
गगनार्णवमाणिक्य चन्द्र दाक्षायणीपते ।
गृहाणार्घ्यं मया दत्तं गणेशप्रतिरूपक
एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् ।
शक्त्या संभोज्य विप्राग्र्यान्स्वयं भुञ्जीत चाज्ञया
एवं कृत्वा व्रतं विप्र संकष्टाख्यं शूभावहम् ।
समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात्
माघशुक्लचतुर्थ्यां तु गौरीव्रतमनुत्तमम् ।
तस्यां तु गौरी संपूज्या संयुक्ता योगिनीगणैः
नरैः स्त्रीभिर्विशेषेण कुन्दपुष्पैः सकुङ्कुमैः ।
रक्तसूत्रे रक्तपुष्पैस्तथैवालक्तकेन च
धूपैर्दीपंश्च बलिभिः सगुडैनार्द्रकेण च ।
पयसा पायसेनापि लवणेन च पालकैः
पूज्याश्चाविधवा नार्यस्तथा विप्राः सुशोभनाः ।
सौभाग्यवृद्धये देयो भोक्तव्यं बन्धुभिः सह
इदं गौरीव्रतं विप्र सौभाग्यारोग्यवर्द्धनम् ।
प्रतिवर्षं प्रकर्त्तव्यं नारीभिश्च नरैस्तथा
ढुण्ढिव्रतं परैः प्रोक्तं कैश्चित्कुण्डव्रतं स्मृतम् ।
ललिताव्रतमित्यन्यैः शान्तिव्रतमथापरैः
स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ।
भवेत्सह स्रगुणितं प्रसादाद्दन्तिनः सदा
चतुर्थ्यां फआल्गुने मासि ढुण्ढिराजव्रतं शुभम् ।
तिलषिष्टैर्द्विजान् भोज्य स्वयं चाश्नीत मानवः
गणेशाराधनपरो दानहोमप्रपूजनैः ।
तिलैरेव कृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः
सौवर्णं गजवक्त्रं च कृत्वा संपूज्य यत्नतः ।
द्विजाग्र्याय प्रदातव्यं सर्वसंपत्समृद्धये
यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् ।
सांगारका वा विप्रेन्द्र सा विशेषफलप्रदा
सर्वासु च चतुर्थीषु शुक्लास्वप्यसितासु च ।
विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0