नारद पुराण · अध्याय 1.112
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासद्वितीयाव्रतनिरूपणं नामैकादशाधिकशततमो ऽध्यायः
सनातन उवाच
शृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते ।
यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात्
चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् ।
सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज
अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ।
दूर्वाकाण्डैश्च विधिवत्सोपवासा तु कन्यका
वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा ।
द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः
सिंदूराञ्जनवस्त्राद्यैः प्रतोष्य प्रीतमानसा ।
रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया
ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् ।
धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये
एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ।
धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये
किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ।
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये
धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् ।
लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः
राधशुक्लतृतीया या साक्षया परिकीर्तिता ।
तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी
द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ।
शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चैव तपस्तथ
द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै ।
तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम्
नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः ।
यद्वा गङ्गांभसि स्नातो मुच्यते सर्वकिल्बिषैः
अक्षत्नैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः ।
सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान्
एवं कृतविधिर्विप्र नरो विष्णुपरायणः ।
विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः
अथ ज्येष्ठतृतीया तु शुक्ला रंभेति नामतः ।
तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम्
गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया ।
रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम्
ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् ।
अथाषाढतृतीयायां शुक्लायां शुक्लवाससा
केशवं तु सलक्ष्मीकं सस्त्रीके तु द्विजेर्ऽचयेत् ।
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः
प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्यवाञ्छया ।
समुपास्य व्रतं चैतद्धनधान्यसमन्विता
देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् ।
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत्
उपचारैः षोडशभिर्भवानीमभिपूजयेत् ।
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते
अन्यांश्च सर्वकामान्मे देहि देहि नमो ऽस्तु ते ।
एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम्
व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा ।
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम्
उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता ।
मण्डपे मण्डले शुद्धे गणेशादिसुरार्चनम्
कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् ।
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत्
गन्धपुष्पादिभिः सम्यक् ततो होमं समाचरेत् ।
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः
समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् ।
वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु
प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा ।
पूर्णं लभेत्फलं नारी व्रताचरणतत्परा
भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् ।
कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम्
ततस्तु काञ्चने पात्रे राजते चापि ताम्रके ।
वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम्
सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् ।
तदन्ते पारणं कुर्यादिष्टबन्धुजनैः सह
एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ।
व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत्
सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश ।
दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि
अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः ।
भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये
एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् ।
सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम्
यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् ।
हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा
तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना ।
लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते
अस्यां व्रतं तु संग्राह्यं यावद्वर्षचतुष्टयम् ।
उपवासेन कर्तव्यं वर्षे वर्षे तु नारद
अखण्डानां तण्डुलानां तिलानां वा मुनीस्वर ।
लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते
तत्पक्केन तु निर्माय देव्या मूर्तिं सुशोमनाम् ।
प्रकरे गन्धपुष्पाणां पुष्पमालाविभूषिताम्
संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः ।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः
विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् ।
ततो विसर्जयद्देवीं जलमध्ये ऽथ दक्षिणाम्
दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने ।
इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम्
गौरीलोकं प्रयात्यन्ते व्रतस्यास्य प्रभावतः ।
इषशुक्लतृतीयायां बृबद्गौरीव्रतं चरेत्
पञ्चवर्षं विधानेन पूर्वोक्तेनैव नारद ।
आचार्यं पूजयेदन्ते विप्रानन्यान्धनादिभिः
सुवासिनीः पञ्च पूज्या वस्त्रालङ्कारचन्दनैः ।
कञ्चुकैश्चैव ताटङ्कैः कण्ठसूत्रैर्हरिप्रियाः
वंशपात्राणि पञ्चैव सूत्रैः संवेष्टितानि च ।
सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम्
गोधीमपिष्टजातं च नवापूपं फला दिकम् ।
वायनानि च पञ्चैव ताभ्यो दद्याच्च भोजयेत्
अर्घं दत्त्वा वायनानि पश्चाद्भुञ्जीत वाग्यता ।
तत्फलं धारयेत्कण्ठे सर्वकामसमृद्धये
ततः प्रातः समुत्थाय सालङ्कारा सखीजनैः ।
गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत्
आहूतासि मयाभद्रे पूजिता च यथा विधि ।
मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया
एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः ।
भुक्त्वा भोगांस्तु देहान्ते गौरीलोकमवाप्नुयात्
ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् ।
पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः
सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् ।
विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये
मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् ।
कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम्
एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ।
देवीलोकं समासाद्य मोदते च तया सह
पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् ।
पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम
ब्रह्मगौरीप्रसादेन मोदते तत्र संगता ।
माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी
पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः ।
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता
फआल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा ।
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत्
सर्वासु च तृतीयासु विधिः साधारणो मुने ।
देवीपूजा विप्रपूजा दानं होमो विसर्जनम्
इत्येवं कथितानीह तृतीयाया व्रतानि ते ।
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0