भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.111

1.111.1

इति श्रीबृहन्ननारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासप्रतिपद्व्रतनिरूपणं नाम दशोत्तरशततमो ऽध्यायः
सनातन उवाच
शृणु विप्र प्रवक्ष्यामि द्वितीयाया व्रतानि ते ।
यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते

1.111.2

चैत्रशुक्लद्वितीयायां ब्रह्मणं च सशक्तिकम् ।
हविष्यान्नेन गन्धाद्यैः स्तोष्य सर्वक्रतूद्भवम्

1.111.3

फलं लब्ध्वाखिलान्कामानन्ते ब्रह्मपदं लभेत् ।
अस्मिन्नेव दिने विप्र बालेन्दुमुदितं परे

1.111.4

समभ्यर्च्य निशारंभे भुक्तिमुक्तिफलं भवेत् ।
अथ वास्मिन्दिने भक्त्या दस्रावभ्यर्च्य यत्नतः

1.111.5

सुवर्णरजते नेत्रे प्रदद्याच्च द्विजातये ।
पूर्णयात्राव्रते ह्यस्मिन्दध्ना वापि घृतेन च

1.111.6

नेत्रव्रतं द्वादश वत्सरान्वै कृत्या भवेद्भूमिपतिर्द्विजेन्द्र ।
सुरूपरूपो ऽरिगणप्रतापी धर्माभिरामो नृपवर्गमुख्यः

1.111.7

राधशुक्लद्वितीयायां ब्रह्मणं विष्णुरूपिणम् ।
समर्च्य सप्तधान्यान्याढ्यकुंभोपरि विधानतः

1.111.8

विष्णुलोकमवाप्नोति भुक्त्वा भोगान्मनोरमान् ।
ज्येष्ठशुक्लद्वितीयायां भास्करं भुवनाधिपम्

1.111.9

चतुवक्त्रस्वरूपं च समभ्यर्च्य विधानतः ।
भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयात्

1.111.10

आषाढस्य सिते पक्षे द्वितीया पुण्यसंयुता ।
तस्यां रथं समारोप्य रामं सह सुभद्रया

1.111.11

द्विजादिभिर्व्रती सार्धं परिक्रम्य पुरादिकम् ।
जलाशयान्तिकं गत्वा कारयेच्च महोत्सवम्

1.111.12

तदन्ते देवभवने निवेश्य च यथाविधि ।
ब्राह्मणान्भोजयेच्चैव व्रतस्यास्य प्रपूर्तये

1.111.13

नभः शुक्लद्वितीयायां विश्वकर्मा प्रजापतिः ।
स्वपितीति तिथिः पुण्या ह्यशोकशयनाह्वया

1.111.14

सशक्तिक तु शय्यास्थं पूजयित्वा चतुर्मुखम् ।
इममुच्चारयेन्मन्त्रं प्रणम्य जगतां पतिम्

1.111.15

श्रीवत्सधारिञ्छ्रीकान्त श्रीवास श्रीपते प्रभो ।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद

1.111.16

चन्द्रार्द्धदानमत्रोक्तं सर्वसिद्धिविधायकम् ।
भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिम्

1.111.17

पूजयित्वा विधानेनन सर्वक्रतुफलं लभेत् ।
आश्विने मासि वै पुण्या द्वितीया शुक्लपक्षगा

1.111.18

दानं प्रदत्तमेतस्यामनन्तफलमुच्यते ।
ऊर्ज्जशुक्लद्वितीयायां यमो यमुनया पुरा

1.111.19

भोजितः स्वगृहे तेन द्वितीयैषा यमाह्वया ।
पुष्टिप्रवर्द्धनं चात्र भगिन्या भोजनं गृहे

1.111.20

वस्त्रालङ्कारपूर्वं तु तस्मै देयमतः परम्

1.111.21

यस्यां तिथौ यमुनया यमराजदेवः संभोजितो निजकरात्स्वसृसौहृदेन ।
तस्यां स्वसुः करतलादिह यो भुनक्ति प्राप्नोति रत्नधनधान्यमनुत्तमं सः

1.111.22

मार्गशुक्लद्वितीयायां श्राद्धेन पितृपूजनम् ।
आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः

1.111.23

पौषशुक्लद्वितीयायां गोशृङ्गोदकमार्जनम् ।
सर्वकामप्रदं नॄणामास्ते बालेन्दुदर्शनम्

1.111.24

योर्ऽघ्यदानेन बालेन्दुं हविष्याशी जितेन्द्रियः ।
पूजयेत्साज्यसुमनेधर्मकामार्थसिद्धये

1.111.25

माघशुक्लद्वितीयायां भानुरूपं प्रजापतिम् ।
समभ्यर्च्य यथान्यायं पूजयेद्रक्तपुष्पकैः

1.111.26

रक्तैर्गंवैस्तथा स्वर्णमूर्तिं निर्माय शक्तितः ।
ततः पूर्णं ताम्रपात्रं गाघृमैर्वापितण्डुलैः

1.111.27

समर्प्य देवे भक्त्यैव स मूर्तिं प्रददेद्द्विजे ।
एवं कृते व्रते विप्र साक्षात्सूर्य इवोदितः

1.111.28

दुरासदो दुराधर्षो जायते भुविमानवः ।
इह कामान्वराम्भुक्त्वा यात्यन्ते ब्रह्मणः पदम्

1.111.29

सर्वदेवस्तुतो ऽभीक्ष्णं विमानवरमास्थितः ।
अथ फआल्गुनशुक्लाया द्वितीयायां द्विजोत्तमः

1.111.30

पुष्पैः शिवं समभ्यर्च्य सुश्वेतैश्च सुगन्धिभः ।
पुष्पैर्वितानकं कृत्वा पुष्पालङ्करणैः शुभैः

1.111.31

नैवेद्यैर्विविधैर्धूपैर्दीपर्नीराजनादिभिः ।
प्रसाद्य प्रणमेच्चैव साष्टाङ्गं पतितो भुवि

1.111.32

एवमभ्यर्च्य देवेशं मर्त्यो व्याधिविवर्जितः ।
धनधान्यसमायुक्तो जीवेद्विर्षशतं ध्रुवम्

1.111.33

यद्विधानं द्वितीयासु शुक्लपक्षगतासु वा ।
प्रोक्तं तदेव कृष्णासु कर्त्तव्यं विधिकोविदैः

1.111.34

वह्निरेव पृथङ्माःसु नानारूपवपुर्द्धरः ।
पूज्यते हि द्वितीयासु ब्रह्मचर्य्यादि पूर्ववत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc