नारद पुराण · अध्याय 1.110
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमो ऽध्यायः
नारद उवाच
पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो ।
मरूचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना
अधुना तु महाभाग तिथीनां वै कथानकम् ।
क्रमतो मह्यमाख्याहि यथा स्याद्वतनिश्चयः
यस्मिन्मासे तु या पुण्या तिथिर्येन उवासिता ।
यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम्
सनातन उवाच
शृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक् ।
तिथीशानुक्रमादेव सर्वसिद्धिविधायकम्
चैत्रे मासि जगद्ब्रह्मा ससज प्रथमे ऽहनि ।
शुक्लपक्षे समग्रं वै तदा सूर्योदये सति
वत्सरादौ वसंतादौ बलिराज्ये तथैव च ।
पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः
तत्र कार्या महाशान्तिः सर्वकल्मषनाशिनी ।
सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी
आयुः प्रदापुष्टिकरी धनसौभाग्यवर्द्धिनी ।
मङ्गल्या च पवित्रा च लोकद्वयमुखावहा
तस्यामादौ तु संपूज्यो ब्रह्मा वह्निवपुर्धरः ।
पाद्यार्ध्यपुष्पधूपैश्च वस्त्रालङ्कारभोजनैः
होमैर्बल्युपहारैश्च तथा ब्राह्मणतर्पणैः ।
ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक्
कृत्वोङ्कार नमस्कारं कुशोदकतिलाक्षतैः ।
सवस्त्रं सहिरण्यं च ततो दद्याद्दिजातये
दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे ।
एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम्
आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने ।
विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने
तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे ।
अथ ज्येष्ठे सिते पक्षे पक्षत्यां दिवसोदये
देवोद्यानभवं हृद्यं करवीरं समर्चयेत् ।
रक्ततन्तुरीधानं गन्धधूपविलेपनैः
प्ररूढसप्तधान्यैश्च नारगैर्बीजपूरकैः ।
अभ्युक्ष्याक्षततोयेन मन्त्रेणेत्थं क्षमापयेत्
करवीर वृषावास नमस्ते भानुवल्लभ ।
दंभोलिमृडदुर्गादिदेवानां सततं प्रिय
आकृष्णेनेति वेदोक्तमन्त्रेणेत्थं क्षमापयेत् ।
एवं भक्त्या समभ्यच्य दत्त्वा विप्राय दक्षिणाम्
प्रदक्षिणं ततः कुर्यात्पश्चात्स्वभवनं व्रजेत् ।
नभः शुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम्
धर्मार्थकाममोक्षाणां निदानं परमं व्रतम् ।
सोमवारं समारभ्य सार्धमासत्रयं द्विज
कार्तिकासितभूतायामुपोष्यं व्रततत्परः ।
पूर्णायां शिवमभ्यर्च्य सुवण वंशसंयुतम्
वायनं सुमहत्पुण्यं देवताप्रीतिवर्धकम् ।
दद्याद्विप्राय संकल्प्य धनवृद्ध्यै मुनीश्वर
भाद्रशुक्लप्रतिपदि व्रतं नाम्ना महत्तमम् ।
व्रतं मौनाह्वयं केचित्प्राहुरत्र शिवोर्ऽच्यते
नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च ।
फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश
देवाय षोडशान्यानि भुज्यन्ते षोडशात्मना ।
सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित्
तत्सर्वं धेनुसहितमाचार्य्याय प्रदापयेत् ।
इदं कृत्वा व्रतं विप्र देव देवस्य शूलिनः
चतुर्दशाब्दं देहान्तं भुक्तभोगः शिवं व्रजेत् ।
आश्विने सितपक्षत्यां कत्वाशोकव्रतं नरः
अशोको जायते विप्रधनधान्यसमन्वितः ।
अशोकपूजनं तत्र कार्यं नियमतत्परैः
व्रतान्ते द्वादशे वर्षे मूर्तिं चाशोकशाखिनः ।
समर्प्य गुरवे भक्त्या शिवलोके महीयते
अस्यामेव प्रतिपदि नवरात्रं समारभेत् ।
पूर्वाह्ने पूजयेद्देवीं घटस्थापनपूर्वकम्
अङ्कुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः ।
ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम्
उपवासं यथाशक्ति पूजापाठजपादिकम् ।
मार्कंण्डेय पुराणोक्तं चरितत्रितयं द्विज
पठनीयं नवदिनं भुक्तिमुक्ती अभीप्सता ।
कुमारीपूजनं तत्र प्रशस्तं भोजनादिभिः
इत्थं कृत्वा व्रतं विप्र सर्वसिद्ध्यालयो नरः ।
जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः
अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत् ।
विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम्
सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये ।
कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने
सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम् ।
समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात्
अथ मार्गसिताद्यायां धनव्रतमनुत्तमम् ।
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम्
रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत् ।
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि
वह्निना दग्धपापस्तु विष्णुलोके महीयते ।
पौषशुक्लप्रतिपदि भानुमभ्यर्च्य भक्तितः
एकभक्तव्रतो मर्त्यो भानुलोकमवाप्नुयात् ।
माघशुक्लाद्यदिवसे वह्निं साक्षान्महेश्वरम्
समभ्यच्य विधानेन समृद्धो जायते भुवि ।
अथ फआल्गुनशुक्लादौ देवदेवं दिगंबरम्
धूलिधूसरसर्वाङ्गं जलैरुक्षेत्समन्ततः ।
कर्मणा लौकिकेनापि संतुष्टो हि महेश्वरः
स्वसायुज्यं प्रदिशति भक्त्या सम्यक्समर्चितः ।
वैशाखे तु सिताद्यायां विष्णुं विश्वविहारिणम्
समभ्यर्च्य विधानेन विप्रान्संभोजयेद्वती ।
एवं शुचिसिताद्यायां ब्रह्माणं जगतां गुरुम्
विष्णुना सहितो ब्रह्मा सर्वलोकेश्वरेश्वरः ।
स्वसायुज्यं प्रदिशति सर्वसिद्धिमवाप्नुयात्
आसु द्वादशमासानां प्रतिपत्सु द्विजोत्तम ।
व्रतानि तुभ्यं प्रोक्तानि भुक्तिमुक्तिप्रदानि च
व्रतेष्वेतेषु सर्वेषु ब्रह्मचर्यं विधीयते ।
भोजने तु हविष्यान्नं सामान्यत उदाहृतम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0