भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.11

1.11.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गात्पत्तौ बलिकृतदेवपराजयवर्णनन्नाम दशमो ऽध्यायः
नारद उवाच
अहो ह्यत्यद्भुतं प्रोक्तं त्वया भ्रातरिदं मम ।
स वह्निरदितिं मुक्त्वा कथं तानदहत्क्षणात्

1.11.2

वदादितेर्महासत्त्वं विशेषाश्चर्यकारणम् ।
परोपदेशनिरताः सज्जना हि मुनीश्वराः

1.11.3

सनक उवाच
शृणु नारद माहात्म्यं हरिभक्तिरतात्मनाम् ।
हरिध्यानपरान्साधून्कः समर्थः प्रबाधितुम्

1.11.4

हरिभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः ।
देवाः सिद्धा मुनीश्वाश्च नित्यं तिष्टन्ति सत्तमाः

1.11.5

हरिरास्ते महाभाग हृदये शान्तचेतसाम् ।
हरिनामपराणां च किमु ध्यानरतात्मनाम्

1.11.6

शिवपूजारतो वापि विष्णुपूजापरो ऽपि वा ।
यत्र तिष्टति तत्रैव लक्ष्मीः सर्वाश्च देवताः

1.11.7

यत्र पूजापरो विष्णोर्वह्निस्तत्र न बाधते ।
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि

1.11.8

प्रेताः पिशाचाः कूष्माण्डग्रहा बालग्रहास्तथा ।
डाकिन्यो राक्षसाश्चैव न बाधन्ते ऽच्युतार्चकम्

1.11.9

परपीडारता ये तु भूतवेतालकादयः ।
नश्यन्ति यत्र सद्भक्तो हरिलक्ष्म्यर्चने रतः

1.11.10

ट
जितेन्द्रियः सर्वहितो धर्मकर्मपरायणः ।
यत्र तिष्टति तत्रैव सर्वतीर्थानि देवताः

1.11.11

निमिषं निमिषार्द्धं वा यत्र तिष्टन्ति योगिनः ।
तत्रैव सर्वश्रेयांसि तत्तीर्थं तत्तपोवनम्

1.11.12

यन्नामोच्चारणादेव सर्वे नश्यन्त्युपद्रवाः ।
स्तोत्रैर्वाप्यर्हणाभिर्वा किमु ध्यानेन कथ्यते

1.11.13

एवं तेनाग्निना विप्र दग्धं सासुरकाननम् ।
सादितिर्नैव दग्धाभूद्विष्णुचक्राभिर क्षिता

1.11.14

ततः प्रसन्नवदनः पह्मपत्रायतेक्षणः ।
प्रादुरासीत्समीपे ऽस्याः शङ्खचक्रगदाधरः

1.11.15

ईषद्वास्यस्फुरद्दन्तप्रभाभाषितदिङ्मुखः ।
स्पृशन्करेण पुण्येन प्राह कश्यपवल्लभाम्

1.11.16

श्रीभगवाननुवाच
देवमातः प्रसन्नो ऽस्मि तपसाराधितस्त्वया ।
चिरं श्रान्तासि भद्रं ते भविशष्यति न संशयः

1.11.17

वरं वरय दास्यामि यत्ते मनसि रोचते ।
मा भैर्भद्रे महाभागे ध्रुवं श्रेयो भविष्यति

1.11.18

इत्युक्तादेवमाता सा देवदेवेन चक्रिणा ।
तुष्टाव प्रणिपत्यैनं सर्वलोकसुखावहम्

1.11.19

अदितिरुवाच
नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दना ।
सत्त्वादिगुणभेदेन लोकव्यापारकारण

1.11.20

नमस्ते बहुपरुपायारुपाय च महात्मने ।
सर्वैकरुपरुपाय निर्गुणाय गुणात्मने

1.11.21

नमस्ते लोकनाथाय परमज्ञानरुपिणे ।
सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने

1.11.22

यस्यावताररुपाणि ह्यर्चयन्ति मुनीश्वराः ।
तमादिपुरुषं देवं नमामि ह्यर्थसिद्धये

1.11.23

श्रुतयो यं न जानन्ति न जानन्ति च सूरयः ।
तं नमामि जगद्धेतुं समायं चाप्यमायिनम्

1.11.24

यस्यावलोकनं चित्रं मायोपद्रवकारणम् ।
जगद्रूपं जगद्धेतुं तं वन्दें सर्ववन्दितम्

1.11.25

यत्पादाम्बुजकिञ्जल्कसेवारक्षितमस्तकाः ।
अवापुः परमां सिद्धिं तं वन्दे कमलाधवम्

1.11.26

यस्य ब्रह्मादयो देवा महिमानं न वै विदुः ।
अत्यासन्नं च भक्तानां तं वन्दे भक्तसंगिनम्

1.11.27

यो देवस्त्यक्तसङ्गानां शान्तानं करुणार्णवः ।
करोति ह्यात्मनः सङ्गं तं देवं सङ्गवर्जितम्

1.11.28

यज्ञेश्वरं यज्ञकर्मसु निष्टितम् ।
नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम्

1.11.29

अजामिलो ऽपि पापात्मा यन्नामोच्चारणादनु ।
प्रात्पवान्परमं धाम तं वन्दे लोकसाक्षिणम्

1.11.30

हरिरुपी महादेवः शिवरुपी जनार्दनः ।
इति लोकस्य नेता यस्तं नमामि जगद्गुरुम्

1.11.31

ब्रह्माद्या अपि देवेशा यन्मायापाशयन्त्रिताः ।
न जानन्ति परं भावं तं वन्दे सर्वनायकम्

1.11.32

ह्यत्पह्मस्थो ऽपिञ्योग्यानां दूरस्थ इव भासते ।
प्रमाणातीतसद्भावस्तं वन्दे ज्ञानसाक्षिणम्

1.11.33

यन्मुखः द्र्वाह्यणो जातो बाहुभ्यां क्षत्रियो ऽजनि ।
ऊर्वोर्वैश्यः समुत्पन्नः पद्यां शूद्रो ऽभ्यजायत

1.11.34

मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः ।
मुखादग्निस्तर्थेन्द्रश्च प्राणाद्वायुरजायत

1.11.35

ऋग्यजुःसामरुपाय सत्यस्वरगतात्मने ।
षडङ्गरुपिणे तुभ्यं भूयोभूयो नमो नमः

1.11.36

त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः ।
त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः

1.11.37

देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः ।
गिरयः सिद्धगन्धर्वानद्यो भूमिश्च सागराः

1.11.38

त्वमेव जगतामीशो यत्रासि त्वं परात्परः ।
त्वद्रूपमखिलं देव तस्मान्नित्यं नमो ऽस्तु ते

1.11.39

अनाथानाथ सर्वज्ञ भूतदेवेन्द्रविग्रह ।
दैतेयैर्बाधितान्पुत्रान्मम पाहि जनार्दन

1.11.40

इति स्तुत्वा देवमाता देवं नत्वा पुनः पुनः ।
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी

1.11.41

अनुग्राह्यास्मि देवेंश त्वया सर्वादिकारण ।
अकण्टकां श्रियां देहि मत्सुतानां दिवौकसाम्

1.11.42

अन्तर्य्यामिञ्जगद्रूप सर्वज्ञा परमेश्वर ।
अज्ञातं किं तव श्रीश किं मामीहयसि प्रभो

1.11.43

तथापि तव वक्ष्यामि यन्मे मनसि रोचते ।
वृथापुत्रास्मि देवेश दैतेयैः परिपीडिता

1.11.44

तान्न हिंसितुमिच्छामि यतस्ते ऽपि सुता मम ।
तानहत्वा श्रियं देहि मत्सुतेभ्यः सुरेश्वर

1.11.45

इत्युक्तो देवेदेवेशः पुनः प्रीतिमुपागतः ।
उवाच हर्षयन्विप्र देवमातरमादरात्

1.11.46

श्रीभगवानुवाच
प्रीतो ऽस्मि देवि भद्रं ते भविष्यामि सुतो ह्यहम् ।
यतः सपन्तिपुत्रेषु वात्सल्यं देवि दुर्लभम्

1.11.47

त्वया तु यत्कृतं स्तोत्रं तत्पठान्ति नरास्तु ये ।
तेषां संपद्वरा पुत्रा न हीयन्ते कदाचन

1.11.48

त्वात्मजे वान्यपुत्रे वा यः समत्वेन वर्तते ।
न तस्य पुत्रशोकः स्यादेष धर्मः सनातनः

1.11.49

अदितिरुवाच
ताह वोढुं क्षमा देव त्वामाद्यपुरुषं परम् ।
असंख्याताण्डरोमाणं सर्वेशं सर्वकारणम्

1.11.50

यत्प्रभावं न जानन्ति श्रुतयः सर्वदेवताः ।
तमहं देवदेवेशं धारयाम किथं प्रभो

1.11.51

अणोरणीयांसमजं परात्परतरं प्रभुम् ।
धारयामि कथं देव त्वामहं पुरुषोत्तमम्

1.11.52

महायातकयुक्तो ऽपि यन्नामस्मृतिमात्रतः ।
मुच्यते स कथं देवोग्राम्येषु जनिमर्हति

1.11.53

यथा शूकरमत्स्याद्या अवतारास्तव प्रभो ।
तथायमपि को वेद तव विश्वेश चेष्टितम्

1.11.54

त्वत्पादपह्मप्रणतात्वन्नामस्मृतितत्परा ।
त्वामेव चिन्तये देव यथेच्छासि तथा कुरु

1.11.55

सनक उवाच
तयोक्तं वचनं श्रुत्वा देवदेवो जनार्दनः ।
दत्त्वाभयं देवमातुरिदं वचनमब्रवीत्

1.11.56

श्रीभगवानुवाच
सत्यमुक्तं महाभागे त्वया नास्त्यत्र संशयः ।
तथापि शृणु वक्ष्यामि गुह्याद्गुह्यतरं शुभे

1.11.57

रागद्वेषविहीना ये मद्भक्ता मत्परायणाः ।
वंहति सततं तें मां गतासूया अदाम्भिकाः

1.11.58

परोपतापविमुखाः शिवभक्तिपरायणः ।
मत्कथाश्रवणासक्ता वहन्ति सततं हि माम्

1.11.59

पतिव्रताः परिप्राणाः पतिभक्तिपरायणाः ।
वहन्ति सततं देवि स्त्रियो ऽपि त्यक्तप्रत्सराः

1.11.60

मातापित्रोश्च शुश्रूषुर्गुरुभक्तो ऽतिथिप्रियः ।
हितकृद्वाह्यणानां यः स मां वहति सर्वदा

1.11.61

पुण्यतीर्थरता नित्यं सत्सङ्गनिरतास्तथा ।
लोकानुग्रहशीलाश्च सततं ते वहन्ति माम्

1.11.62

परोपकारविरताः परद्रव्यपराङ्मुखाः ।
नषुंसकाः परस्त्रीषु ते वहन्ति च मां सदा

1.11.63

तुलस्युपासनरताः सदा नामपरायणाः ।
गोरक्षणपरा ये च सततं मां वहन्ति ते

1.11.64

प्रतिग्रहनिवृत्ता ये परान्नविमुखास्तथा ।
अन्नोदकप्रदातारो वहॄन्ति सततं हि माम्

1.11.65

त्वं तु देवि पतिप्राणा साध्वी भूतहिते रता ।
संप्राप्य पुत्रभावं ते साधयिष्ये मनोरथम्

1.11.66

इत्युक्त्वा देवेदेवशो ह्यदितिं देवमातरम् ।
दत्त्वा कण्ठगतां मालामभयं च तिरोदधे

1.11.67

सा तु संहृष्टमनसा देवसीर्दक्षनन्दिनी ।
प्रणम्य कमलाकान्तं पुनः स्वस्थआनमाव्रजत्

1.11.68

ततो ऽदितिर्महाभागा सुप्रीता लोकवन्दिता ।
असूत समये पुत्रं सर्वलोकनमस्कृतम्

1.11.69

शङ्गचक्रधरं शान्तं चन्द्रमण्डलमध्यगम् ।
सुधाकलशदध्यन्नकरं वामनसंज्ञितम्

1.11.70

सहस्रादित्यसंकाशं व्याकोशकमलेक्षणम् ।
सर्वाभरणंसंयुक्तं पीताम्बरधरं हरिम्

1.11.71

स्तुत्यं मुनिगणैर्युक्तं सर्वलोकैकनायकम् ।
आविर्भूतं हरिं ज्ञात्वा कश्यपो हर्षविह्वलः ।
प्रणम्य प्रञ्जलिर्भूत्व स्तोतुं समुपचक्रमे

1.11.72

कश्यप उवाच
नमोनमस्ते ऽखिलकारणाय नमोनमस्ते ऽखैलपालकाय ।
नमोनमस्ते ऽमरनायकाय नमोनमो दैतेयविनाशनाय

1.11.73

नमोनमो भक्तजनप्रियाय नमोनमः सज्जनरञ्जिताय ।
नमोनमो दुर्जननाशनाय नमो ऽस्तु तस्मै जगदीश्वराय

1.11.74

नमोनमः कारणवामनाय नारायणायामितविक्रमाय ।
सशार्ङ्गचक्रासिगदाधाराय नमो ऽस्तु तस्मै पुरुषोत्तमाय

1.11.75

नमः पयोराशिनिवासनाय नमो ऽस्तु सद्धृत्कमलस्थिताय ।
नमो ऽस्तु सूर्याद्यमितप्रभाय नमोनमः पुण्यकथागताय

1.11.76

नमोनमोर्ऽकेन्दुविलोचनाय नमो ऽस्तु ते यज्ञफलप्रदाय ।
नमो ऽस्तु यज्ञाङ्गविराजिताय नमो ऽस्तु ते सज्जनवल्लभाय

1.11.77

नमो जगत्कारणकारणाय नमो ऽस्तु शब्दादिविवर्जिताय ।
नमो ऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय

1.11.78

नमो ऽस्तु ते ध्वान्तविनाशकाय नमो ऽस्तु शब्दादिविवर्जिताय ।
नमो ऽस्तु ते ध्वान्तविनाशकाय मन्दरधारकाय ।
नमो ऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय

1.11.79

नमो ऽस्तु ते वामनरुपभाजे नमो ऽस्तु ते क्षत्रकुलान्तकाय ।
नमो ऽस्तु ते रावणमर्दनाय नमो ऽस्तु ते नन्दसुताग्रजाय

1.11.80

नमस्ते कमलाकान्त नमस्ते सुखदायिने ।
स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमोनमः

1.11.81

यज्ञेश यज्ञविन्यास यज्ञविन्घविनाशन ।
यज्ञरुप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम्

1.11.82

इति स्तुतः स देवेशो वामनो लोकपावनः ॥
उवाच प्रहसन्हर्षं वर्ध्दयन्कश्यपस्य सः

1.11.83

श्रीभगवानुवाच
तात तुष्टो ऽस्मि भद्रं ते भविष्यति सुरार्चिता ।
अचिरात्साधयिष्यामि निखिलं त्वन्मनोरथम्

1.11.84

अहं जन्मद्वये त्वेवं युवयोः पुत्रघतां गतः ।
अस्मिञ्जन्मन्यपि तथा सादयाम्युत्तमं सुखम्

1.11.85

अत्रान्तरे बलिर्दैत्यो दीर्घसत्रं महामखम् ।
आरेभे गुरुणा युक्तः काव्येन च मुनीश्वरैः

1.11.86

तस्मिन्मखे समाहूतो विष्णुर्लक्ष्मीसमन्वितः ।
हविः स्वीकरणार्थाय ऋषिभिर्ब्रह्मवादिभिः

1.11.87

प्रवृद्धैश्वर्यर्दैत्यस्य वर्त्तमाने महाक्रतौ ।
आमन्त्र्य मातापितरौ स बटुर्वामनो ययौ

1.11.88

स्मितेन मोहयंल्लोकं वामनो भक्तवत्सलः ।
हविर्भोक्तुमिवायातो बलेः प्रत्यक्षतो हरिः

1.11.89

दुर्वृत्तो वा सुवृत्तो वा जडो वायं हितो ऽपि वा ।
यो भक्तियुक्तस्तस्यान्तः सदा संनिहितो हरिः

1.11.90

आयान्तं वामनं दृष्ट्वा ऋषयो ज्ञानचक्षौषः ।
ज्ञात्वा नारायणं देवमुद्ययुः सभ्यसंयुताः

1.11.91

एतज्ज्ञात्वा दैत्यगुरुरेकान्ते बलिमब्रवीत् ।
स्वसारमविचार्यैव खलाः कार्याणि कुर्वते

1.11.92

शुक्र उवाच
भो भो दैत्यपते सौम्य ह्यपहर्ता तव श्रियम् ।
विष्णुर्वामनरुपेण ह्यदितेः पुत्रातां गतः

1.11.93

तवाध्वरं स आयाति त्वया तस्यासुरेश्वर ।
न किञ्चिदपि दातव्यं मन्मतं शृणु पण्डित

1.11.94

आत्मबुद्धिः सुखकरी गुरुबुद्धिर्विशेषतः ।
परबुद्धिर्विनाशाय स्त्रीबुध्दिः प्रलयङ्करी

1.11.95

शत्रूणां हितकृतद्यस्तु स हन्तव्यो विशेषतः

1.11.96

बलिरुवाच
एवं गुरो न वक्तव्यं धर्ममार्गविरोधतः ।
यदादत्ते स्वयं विष्णुः किमस्मादधिकं वरम्

1.11.97

कुर्वन्ति विदुषो यज्ञान्विष्णुप्रीणनकारणात् ।
स चेत्साक्षाद्धविर्भोगी मत्तः को ऽभ्यधिको भुवी

1.11.98

दरिद्रेणापि यत्किञ्चिद्दीयते विष्णवे गुरो ।
तदेव परमं दानं दत्तं भवति चाक्षयम्

1.11.99

स्मृतो ऽपि परया भक्त्या पुनाति पुरुषोत्तमः ।
येन केनाप्यर्चितश्वेद्ददाति परमां गतिम्

1.11.100

हरिर्हरति पापानिदुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः

1.11.101

जिह्वाग्रे वसते यस्य हरि रित्यक्षरद्वयम् ।
स विष्णुलोकमान्पोति पुनरावृत्तिदुर्लभम्

1.11.102

गोविन्देति सदा ध्यायेद्यस्तु रागादिवर्जितः ।
स याति विष्णुभवनमिति प्राहुर्मनीषिणः

1.11.103

अग्नौ वा ब्रह्मणे वापिहूयते यद्वविर्गुरो ।
हरिभक्त्या महाभाग तेन विष्णुः प्रसीदति

1.11.104

अहं तु हरितुष्य्यर्थं करोम्यध्वरमुत्तमम् ।
स्वयमायाति चेद्विष्णुः कृतार्थो ऽस्मि न संशयः

1.11.105

एवं वदति दैत्यन्द्रे विष्णुर्वामनरुपधृक् ।
प्रविवेशाध्वरस्थानं हुतवह्निमनोरमम्

1.11.106

तं दृष्ट्वा कोटिसूर्याभं योग्यावयवसुन्दरम् ।
वामनं सहसोत्थाय प्रत्यगृह्णात्कृताञ्जलिः

1.11.107

दत्त्वासनं च प्रक्षाल्य पादौ वामनरुपिणम् ।
सकुटुंबो वहन्मूर्ध्ना परमां मुदमात्पवान्

1.11.108

विष्णवे ऽस्मै जगद्धान्मे दत्त्वार्घ्यं विधिवदूलिः ।
रोमाञ्चिततनुर्भूत्वा हर्षाश्रुनयनो ऽब्रवीत्

1.11.109

बलिरुवाच
अद्य मे सफलं जन्म अद्य मे सफलो मरवः ।
जीवितं सफलं मे ऽद्य कृतार्थो ऽस्मि न संशयः

1.11.110

अमोघामृतवृष्टिर्मे समायातातिदुर्लभा ।
त्वदागमनमात्रेण ह्यनायासो महोत्सवः

1.11.111

एते च ऋषयः सर्वे कृतार्थां नात्र संशयः ।
यैः पूर्वं हि तपस्तप्तं तदद्य सफलं प्रभो

1.11.112

कृतार्थो ऽस्मि कृतार्थो ऽस्मि कृतार्थो ऽस्मि न संशयः ।
तस्मात्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः

1.11.113

त्वदाज्ञया त्वन्नियोगं साधयामीति मन्मनः ।
अत्युत्साहसमायुक्तं समाज्ञापय मां प्रभो

1.11.114

एवमुर्के दीक्षितेन प्रहसन्वामनो ऽब्रवीत् ।
देहि मे तपसि स्थातुं भूमिं त्रिपदसंमिताम्

1.11.115

एतच्छृआत्वा बलिः प्राह राज्यं याचितवान्नहि ।
ग्रामं वा नगरं चापि धनं वा किं कृतं त्वया

1.11.116

तन्निशम्य बलिं प्राह विष्णुः सर्वशरीरभृत् ।
आसन्नभ्रष्टराज्यस्य वैराग्यं जनमन्निवा

1.11.117

श्रीभगवानुवाच
शृणु दैत्यन्द्र वक्ष्यामि गुह्याद्गुह्यतमं परम् ।
सर्वसंगविहीनानां किमर्थैः साध्यतेवद

1.11.118

अहं तु सर्वभूतानामन्तर्यामीति भावय ।
मयि सर्वमिदं दैत्य किमन्यैः साध्यते वद

1.11.119

रागद्वेषविहीनानां शान्तानां त्यक्तमायिनाम् ।
नित्यानन्दस्वरुपाणां किमन्यैः साध्यते धनैः

1.11.120

आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसाम् ।
अभिन्नमात्मनः सर्वं को दाता दीयते च किम्

1.11.121

पृथ्वीयं क्षत्रियवशा इति शास्त्रेषु निश्चितम् ।
तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम्

1.11.122

दातव्यो मुनिभिश्चापि षष्टांशो भूभुजे बले ।
महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः

1.11.123

भूमिदानस्य माहात्म्यं न भूतं न भविष्यति ।
परं निर्वाणमान्पोति भूमिदो नात्र संशयः

1.11.124

स्वल्पामपि महीं दत्त्वा श्रोत्रियायाहिताग्नये ।
ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम्

1.11.125

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाग्भवेत् ।
अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम्

1.11.126

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते

1.11.127

सत्पात्रे भूमिदाता यः सर्वदानफलं लभेत् ।
भूमिदानसमं नान्यत्रिषु लोकेषु विद्यते

1.11.128

द्विजाय वृत्तिहीनाय यः प्रदद्यान्महीं बले ।
तस्य पुण्यफलं वक्तुं न क्षमो ऽब्दशतैरहम्

1.11.129

सक्ताय देवपूजासु वृत्तिहीनाय दैत्यप ।
स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः

1.11.130

इक्षुगोधूम तुवरीपूगवृक्षादिसंयुता ।
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः

1.11.131

वृत्तिहीनाय विप्राय दरिद्राय कुटुम्बिने ।
स्वल्पामपि महीन्दत्त्वा विष्णुसायुज्यमान्पुयात्

1.11.132

सक्ताय देवपूजासु विप्रायाढकिकां महीम् ।
दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम्

1.11.133

विप्राय वृत्तिहीनाय सदाचाररताय च ।
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु

1.11.134

गङ्गातीर्थाश्वमेधानां शतानि विधिवन्नरः ।
कृत्वा यत्फलमान्पोति तदाप्नोति स पुष्कलम्

1.11.135

ददाति खारिकां भूमिं दरिद्राय द्विजाय यः ।
तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय

1.11.136

अश्वमेधसहस्राणि वाजपेयशतानि च ।
विधाय जाह्नवीतीरे पत्फलं तल्लभेद्धुवम्

1.11.137

भूमिदानं महादानमतिदानं प्रकीर्त्तितम् ।
सर्वपापप्रशमनमपवर्गफलप्रदम्

1.11.138

अत्रोतिहासं वक्ष्यामि शृणु दैत्यकुलेश्वर ।
यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत्

1.11.139

आसीत्पुरा द्विजवरो ब्राह्मकल्पे महामतिः ।
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले

1.11.140

श्रुतानि सर्वशास्त्राणि तेन वेददिवानिशम् ।
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः

1.11.141

अभवंस्तस्य षट्पत्न्यः श्रुतिः सिन्धुर्यशोवती ।
कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः

1.11.142

आसु पन्तीषु तस्यासञ्चत्वरिंशच्छतद्वयम् ।
पुत्राणामसुरश्रेष्ठ सर्वे नित्यं बुभुक्षिताः

1.11.143

अकिञ्चनो भद्रमतिः क्षुधार्त्तानात्मजान्प्रियाः ।
पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः

1.11.144

धिग्जन्म भाग्यरहितं धिग्जन्म धनवर्जितम् ।
धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम्

1.11.145

नरस्य बह्वपत्यस्य धिग्जन्मैश्वर्यवार्जितम् ।
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले

1.11.146

दारिद्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ।
प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा

1.11.147

शिष्याश्च सर्वमनुजास्त्यजन्त्यैश्वर्यवार्जितम् ।
चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते

1.11.148

दरिद्रः पुरुषो लोके शववल्लोकनिन्दितः ।
अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः

1.11.149

गुणहीनो ऽपि गुणवान्मूर्खो वाप्यथ पण्डितः ।
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः

1.11.150

अहो दरिद्रता दुःखं तत्राप्याशातिदुःखदा ।
आशाभिभूताः पुरुषा दुःखमश्नुवते ऽक्षयम्

1.11.151

आशयादासा ये दासास्ते सर्वलोकस्य ।
आशा दासी येषां तेषां दासायते लोकः

1.11.152

मानो हि महतां लोके धनमक्षयमुच्यते ।
तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता

1.11.153

सर्वशास्त्रार्थवेत्तापि दरिद्रो भाति मूर्खवत् ।
नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचचकः

1.11.154

अहो दुःखमहो दुःखमहो दुःखं दरिद्रता ।
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम्

1.11.155

एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ।
अन्यमैश्वर्यदं धर्मं मनसाचिन्तयत्तदा

1.11.156

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ।
दानेन यो ऽनुमन्ताति स एव कृतवान्पुरा

1.11.157

प्रापकं परमं धर्मं सर्वकामफलप्रदम् ।
दानानामुत्तमं दानं भूदानं परिकीर्तितम्

1.11.158

यद्दत्त्वा समवान्पोति यद्यदिष्टतमं नरः ।
इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले

1.11.159

कौशाम्बींनाम नगरीं कलत्रापत्ययुग्ययौ ।
सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्वलितम्

1.11.160

गत्वा याचितवान्भूमिं पञ्चहस्तायतां बले ।
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम्

1.11.161

मनसा प्रीयमाणेन समभ्यर्च्येदमब्रवीत् ।
कृतार्थो ऽहं भद्रमते सफलं मम जन्म च

1.11.162

मत्कुल पावनं जातं त्वदनुग्रहतो द्विज ।
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः

1.11.163

पञ्चहस्तमितां भूमिं ददौ तस्मै महामतिः ।
पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता

1.11.164

पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ।
मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम्

1.11.165

विष्णुबुद्ध्या समभ्यर्च्य तावतीं पृथिवीं ददौ ।
सो ऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम्

1.11.166

दत्तवान्हरिभक्ताय श्रोत्रियाय कुटुम्बिने ।
सुघोषो भूमिदानेन कोटिवंशसमन्वितः

1.11.167

प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ।
बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम्

1.11.168

स्थितवान्विष्णुभवने सकुटुम्बो युगायुतम् ।
तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम्

1.11.169

ऐन्द्रं पदं समासाद्य स्थितवान्कल्पपञ्चकम् ।
ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः

1.11.170

जातिस्मरो महाभागो बुभुजे भोगमुत्तमम् ।
ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः

1.11.171

पृथिवीं वृत्तिहीनेभ्यो ब्रह्मणेभ्यः प्रदत्तवान् ।
तस्य विष्णुः प्रसन्नात्मा तत्त्वैशअवर्यमनुत्तमम्

1.11.172

कोटिवंशसमेतस्य ददौ मोक्षमनुत्तमम् ।
तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण

1.11.173

तपश्चरिष्येमोक्षाय देहि मे त्रिपदां महीम् ।
वैरोचनिस्ततो दृष्टः कलशं जलपूरितम्

1.11.174

आददे पृथिवीं दातुं वर्णिने वामनाय ।
विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम्

1.11.175

काव्यं हस्तस्थदर्भाग्रं तच्छरे संन्यवेशयत् ।
दर्भाग्रे ऽभून्महाशास्त्रं कोटिसूर्यसमप्रभम्

1.11.176

अमोधं ब्रह्ममत्युग्रं काव्याक्षिग्रासलोलुपम् ।
आयाय भार्गवसुरानसुरानेकचक्षुषा

1.11.177

पश्येति वान्दिदेशे च दर्भाग्रं शस्त्रसन्निभम् ।
बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम्

1.11.178

ववृधे सो ऽपि विश्वात्मा आब्रह्मभुवनं तदा ।
अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः

1.11.179

स आब्रह्मकटाहान्तपदान्येतानि सप्रभः ।
पादाङ्कुष्टाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा

1.11.180

तद्दारा बाह्यसलिलं बहुधारं समागतम् ।
धौतविष्णुपदं तोयं निर्मलं लोकपावनम्

1.11.181

अजाण्डबाह्यनिलयं धारारुपमवर्त्तत ।
तज्जलं पावनं श्रेष्ठं ब्रह्मादीन्पावयत्सुरान्

1.11.182

सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि

1.11.183

एतद्दष्ट्वाद्भुतं कर्म ब्रह्माद्या देवतागणाः ।
ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः

1.11.184

देवा ऊचुः
नमः परेशाय परात्मरुपिणे परात्परायापररुपधारिणे ।
ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमो ऽस्तु ते ऽव्याहतकर्मशीलिने

1.11.185

परेश परमानन्द परमात्मन्परात्पर ।
सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः

1.11.186

विश्वतश्वक्षुषे तुभ्यं विश्वतो बाहवे नमः ।
विश्वतः शिरसे चैव विश्वतो गतये नमः

1.11.187

एवंर स्तुतो महाविष्णुर्ब्रह्माद्यैः स्वर्द्दवौकसाम् ।
दत्त्वाभयं च मुमुदे देवदेवः सनातनः

1.11.188

विरोचनात्मजं दैत्यं पदैकार्थं बबन्ध ह ।
ततः प्रपन्नं तु बलिं ज्ञात्वा चास्मै रसातलम् ।
ददौ तद्वारपालश्च भक्तवश्यो बभूव ह

1.11.189

नारद उवाच
रसातले महाविष्णुर्विरोचनसुतस्य वै ।
किं भोज्यं कल्पयामास घोरे सर्पभयाकुले

1.11.190

सनक उवाच
अमन्त्रितं हविर्यत्तु हूयते जातवेदसि ।
अपात्रे दीयते यच्च तद्धोरं भोगसाधनम्

1.11.191

हुतं हविरशुचिना दृत्तं सत्कर्म यत्कृतम् ।
तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम्

1.11.192

एवं रसातलं विष्णुर्बलये सासुराय तु ।
दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ

1.11.193

पूज्यमानो ऽमरगणैः स्तूयमानो महर्षिभिः ।
गन्धर्वैर्गीयमानश्च पुनर्वामनतां गतः

1.11.194

एतद्दृष्ट्वा महत्कर्ममुनो ब्रह्मवादिनः ।
परस्परे स्मितमुखाः प्रणेभुः पुरुषोत्तमम्

1.11.195

सर्वभूतत्मको विष्णुर्वामनत्वमुपागतः ।
मोहयन्निखिलं लोकं प्रपेदे तपसे वनम्

1.11.196

एवं प्रभावा सा देवी गङ्गा विष्णुपदोद्भवा ।
यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः

1.11.197

इदं तु गङ्गामाहात्म्यं यः पठे च्छृणुयादपि ।
देवालये नदीतीरे सो ऽश्वमेधफलं लभेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc