नारद पुराण · अध्याय 1.12
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तिर्गङ्गामाहात्म्यं नामैकादशो ऽध्यायः
नातद उवाच
श्रुतं तु गङ्गामाहात्म्यं वाञ्छितं पापनाशनम् ।
अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः
सनक उवाच
सर्वेषामेव वर्णानां ब्रह्मणः परमो गुरुः ।
तस्मै तानानि देयानि दत्तस्यानन्त्यमिच्छता
ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः ।
न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम्
चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च ।
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम्
परदाररतस्यापि परद्रव्याभिलिषिणः ।
नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम्
असूयाविष्टमनसः कृतन्घस्य च मायिनः ।
अयाज्ययाजकस्यापि दत्तं भवति निष्फलम्
नित्यं याच्ञापरस्यापि हिंसकस्य खलस्य च ।
रसविक्रयिणश्वैव दत्तं भवति निष्फलम्
नामैका द
वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा ।
धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम्
गानेन जीविका यस्य यस्य भार्या च पुश्चली ।
परोपतापिनश्चापि दत्तं भवति निष्फलम्
असिजीवी मषीजीवी देवलो ग्रामयाजकः ।
धावको वा भवेत्तेषां दत्तं भवति निष्फलम्
पाककर्तुः परस्यार्थे कवये गदहारिणे ।
अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम्
शूद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः ।
पैंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम्
नामविक्रयिणो विष्णोः संध्याकर्ंमोर्ज्झितस्य च ।
दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम्
दिवाशयनशीलस्य तथा मैथुनकारिणः ।
सध्याभोजिन एवापिदत्तं भवति निष्फलम्
महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः ।
कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम्
परिवत्तेः शठस्यापि परिवत्तुः प्रमादिनः ।
स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम्
मद्यमांसाशिनश्चापि स्त्रीविटस्यातिलोभिनः ।
चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम्
ये केचित्पापनिरता निन्दिताः सुजनैः सदा ।
न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्दिजोत्तम ।
सत्कर्मनिरतायापि देयं यत्नेन नारद
यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् ।
याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम्
परलोकं समुद्दश्य ह्यैहिकं वापि नारद ।
यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम्
दग्भेन चापि हिंसार्थं परस्याविधिनापि च ।
क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम्
अधमं बलितोषायमध्यमं स्वार्थसिद्धये ।
उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः
दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा
यो ददाति च नोभुक्ते तद्धनं नाशकारणम् ।
धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत्
तरवः किं न जीवन्ति ते ऽपि लोके परार्थकाः ।
यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते
मनुष्या यदि विप्राग्थ्र न परार्थास्तदा मृताः ।
परकार्यं न ये मर्त्याः कायेनापि धनेन वा
मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः ।
अत्रेतिहासं वक्ष्यामि शृणु नारद तत्त्वतः
यत्र दानादिकानां तु लक्षणं परिकीर्तितम् ।
गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम्
भगीरथस्य धर्मस्य संवादं पुण्यकारणम् ।
आसीद्भगीरथो राजा सगरान्वयसंभवः
शशास पृथिवीं मेतां सत्पद्वीपां ससागराम् ।
सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान्
कन्दर्पसद्दशो रुपे यायजृको विचक्षणः ।
प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः
सर्वलक्षणसंपन्नः सर्वशास्त्रार्थपारगः ।
सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने
आतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः ।
पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः
एतादृशं तं राजानं ज्ञात्वा दृष्टो भगीरथम् ।
धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः
समागतं धर्मराजमर्हयामास भूपतिः ।
शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम्
धर्मराज उवाच
राजन्धर्मविदां श्रेष्ठप्रसिद्धो ऽसि जगत्त्रये ।
धर्मराजो ऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः
सन्मार्गनिरतं सत्यं सर्वभूतहिते रतम् ।
द्रष्टुमिच्छन्ति विबुधारतवो त्कुष्टगुणप्रियाः
कीर्तिर्नीतिश्च संपत्तिर्वर्तते यत्र भूपते ।
वसन्ति तत्र नियतं गुणाःसन्तश्च देवताः
अहो राजन्महाभाग शोभनीचरितं तव ।
सर्वभूतहितत्वादि मादृशामपि दुर्लभम्
इत्युक्तवन्तं तं धर्मं प्रणिपत्य भगीरथः ।
प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गितं
भगीरथ उवाच
भगवन्सर्वधर्मज्ञ समदर्शित् सुरेश्वर ।
कृपया परयाविष्टो यत्पृच्छामि वदस्व तत्
धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् ।
कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः
त्वया संमाननीया ये शासनीयाश्च ये यथा ।
तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि
धर्मराज उवाच
साधु साधु महावुद्धे मतिस्ते विमलोर्जिता ।
धर्माधर्मान्प्रवक्ष्यामितत्त्वतः शृणु भक्तितः
धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः ।
तथैव यातनाः प्रोक्ता असंख्या घोरदर्शताः
विस्तराद्गदितुं नालमपि वर्षशतायुतैः ।
तस्मातंसमासतो वक्ष्ये धर्माधर्ममिदर्शनम्
तथैव यातनां वै महापुण्यं प्रकीर्ततम् ।
तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम्
कुटुम्बिनं या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् ।
यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं शृणु
मातृताः पितृतश्चैव द्विजः कोटिकुलन्वितः ।
निर्विश्य विष्णुभवनं कल्पं तत्रैव मादते
गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिविन्दवः ।
न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै
समस्तदेवतारुपो ब्राह्मणः परिकीर्तितः ।
जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः
यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् ।
स स्त्रातः सर्वतीर्थेषु तत्पं तेनाखिलं तपः
यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् ।
सो ऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः
तडागं कारयेद्यस्तु स्वयमेवापरेण वा ।
वक्तुं तत्पुण्यसंख्यानं नालं वर्षशतायुषा
एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् ।
कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः
एकाहमषि यत्कुर्याद्भूमिस्थमुदकं नरः ।
स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि
कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् ।
सो ऽपि तत्फलनाप्नोति तुष्टः प्रेरक एव च
मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेत् ।
तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः
देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम ।
तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः
इति हासं प्रवक्ष्यामि तवात्र नृपसत्तम ।
यं शृत्वा सर्वपायेभ्यो मुच्यते नात्र संशयः
गौडदेशे ऽतिविख्यातो राजासीद्वीरभद्रकः ।
महाप्रतीपी विद्यावान्सदा विप्रप्रपूजकः
वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः ।
तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी
तस्य राज्ञो महामात्याः कृत्माकृस्यविचारणाः ।
धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम्
प्रायश्चित्तं चिकित्त्सां च ज्योतिषे धर्मनिर्णयम् ।
विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्मघातकम्
इति निश्चित्य मनसा मन्वादीरितधर्म्कान् ।
आचार्येभ्यः सदा भूपः शृणोति विधिपूर्वकम्
न को ऽप्यन्यायवर्ती तस्य राज्ये ऽवरो ऽपि च ।
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः
जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् ।
स चैकदा तु नृपतिर्मृगयायां महावने
मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करम् ।
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै
नृपरीतस्य संजातं सरसो दर्शनं नृप ।
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत्
किमयं सरसीशृङ्गेभुवः केन विनिर्मिता ।
कथं जलं भवेदत्र येन जीवेदयं नृपः
ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम ।
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवात्पवान्
तेन तोयेन पीतेन राज्ञस्तृत्पिरजायत ।
मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः
स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः ।
राजन्नियं पुष्करिणी वर्षाजलवती पुरा
अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम ।
तद्भवान्मोदतां देव दत्तादाज्ञां च मे ऽनघ
इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः ।
मुमुदे ऽतितरां भूपः स्वयं कर्तुं समुद्यतः
तमेव मन्त्रिणां तत्र युयोज शुभकर्मणि ।
ततो राजाज्ञया सो ऽपि बुद्धिसागरको मुदा
सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः ।
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम्
सरसीं बद्धसु शिलां चकारागाधशम्बराम् ।
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत्
तस्यां ततः प्रभृति वै सर्वे ऽपि वनचारिणः ।
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम्
कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः ।
प्रमृतो गतवांल्लोकं लोकशास्तुर्मम प्रभो
तदर्थं तु मया पृष्टो धर्मो धर्मलिपिङ्करः ।
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत्
उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः ।
तस्माद्धर्मविमानं तु समारोढुमिहार्हति
इत्युक्ते चित्रगुत्पेन समाज्ञत्पो मया नृप ।
विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः
अथ कालान्तरे राजन्सराजा वीरभद्रकः ।
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः
मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप ।
कथितं चित्रगुत्पेन धर्मं सरसिसंभवम्
तदा सम्यङ्मया राजा बोधितो ऽभूद्यथाशृणु ।
अधित्यकायां भूपाल सैकतस्य गिरेः परा
लावकेनामुनाचञ्च्वा खातं द्व्यंङ्गुप्रम्बुनि ।
ततः कालान्तरे तेन वाराहेण नृपोत्तम
खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः ।
ततो ऽन्यदामुया काल्याहस्त युग्ममितः कृतः
खातो जले महाराज तोयं मासद्वयं स्थितम् ।
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः
ततो वर्षत्रायान्ते तु गजतानेन सुव्रत ।
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम्
मासत्रये स्थितं तच्च पयो जीवैर्वनेचरैः ।
भवांस्तत्र समायातो जलशोषाद नन्तरम्
मासे तत्र तु संप्रात्पं हस्तं खात्वा जलं नृप ।
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया
पञ्चाशद्धनुरुत्खातं जातं ततत्र महाजलम् ।
पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः ।
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः
तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते ।
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह
इति वाक्यं समाकर्ण्य मम राजा स भूमिप ।
आरुरोह विमानं तत्षष्ठो राजा समांशभाक्
इति ते सर्वमाख्यातं तडागजनितं फलम् ।
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात्
यो नरः श्रद्धयो युक्तो व्याख्यातं श्रुणुयात्पठेत् ।
सो ऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0