भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.10

1.10.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमो ऽध्यायः
नारद उवाच
विष्णुपादाग्रसंभूता या गङ्गेत्यभिधीयते ।
तदुत्पत्तिं वद भ्रातरनुग्राह्यो ऽस्मि ते यदि

1.10.2

सनक उवाच
शृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ ।
वदृतां शृण्वतां चैंव पुण्यदां पापनाशिनीम्

1.10.3

आसीदिन्द्रादिदेवानां जनकः कश्यपो मुनिः ।
दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च

1.10.4

अगदितिर्देवमातास्ति दैत्यानां जननी दितिः ।
ते तयोरात्मजा विप्र परस्परजयैषिणः

1.10.5

सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः ।
आदिर् दैत्यो दितेः पुत्रो हिरण्यकशिपुर्बली

1.10.6

प्रह्लादस्तस्य पुत्रो ऽभूत्सुमहान्दैत्यसत्तमः ।
विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान्

1.10.7

तस्य पुत्रो ऽतितेजस्वी बलिरासीत्प्रतापवान् ।
स एव वाहिनीपालो दैत्यानामभवन्मुनेः

1.10.8

बलेन महता युक्तो बुभुजे मेदिनीमिमाम् ।
विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे

1.10.9

गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्चरथा मुनीन्द्र ।
गजेगजे पञ्चशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा

1.10.10

अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामाप्यथ कूपकर्णः ।
पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजो ऽभूत्

1.10.11

बलिः सुराञ्जेतुमनाः प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे ।
ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन्

1.10.12

अवाप्य वृत्रारिपुरं सुरारी रुरोघ दैत्यैर्मृगराजगाढैः ।
सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च

1.10.13

ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो ।
कल्पान्तमेघानिर्धोषं डिण्डिंमध्वनिसंभ्रमम्

1.10.14

मुमुचुः शरजालानि दःत्याः सुमनसां बले ।
देवाश्च दैत्यसेनासु संग्रामे ऽत्यन्तदारुणे

1.10.15

जहि दारय भिन्धीते छिन्धि मारय ताडय ।
इत्येवं सुमहान्घोषो वदतां सेनयोरभूत्

1.10.16

शरदुन्दुभिनिध्वानैः सिंहनादैः सिंहनादैः सुरद्विषाम् ।
भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः

1.10.17

अश्वानां हेषितैश्चैव गजानां बृंहितैस्तथा ।
टङ्गारैर्धनुषां चैव लोकः शब्दत्मयो ऽभवत्

1.10.18

सुरासुरविनिर्मुक्तबाणनिष्पेषजानले ।
अकालप्रलयं मेने निरीक्ष्य सकलं जगत्

1.10.19

बभौ देवद्विषां सेना स्फुरच्छस्त्रौघधारिणी ।
चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव

1.10.20

तस्मिन्युद्धे महाधोरैर्गिरीन् क्षित्पान् सुरारिभिः ।
नाराचैश्चूर्णयामासुर्वेवास्ते लघुविक्रमाः

1.10.21

केचित्सताडयामासुर्नागैर्नागान्रथान्रथैः ।
अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन्

1.10.22

परिधैस्ताडिताः केचित्पेतुः शोणितकर्द्दमे ।
समुक्त्रान्तासवः केचिद्विमानानि समाश्रिताः

1.10.23

ये दैत्या निहता देवैः प्रसह्य सङ्गरे तदा ।
ते देवभावमापन्ना दैतेयान्समुपाद्रवन्

1.10.24

अथ दैत्यगणाः क्रुद्वास्तड्यमानाः सुर्वैर्भृशम् ।
शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः

1.10.25

दृषद्भिर्भिदिपालैश्च खड्गैः परशुतोमरैः ।
परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः

1.10.26

मुसलैरङ्कुशेश्वैव लाङ्गलैः पट्टिशैस्तथा ।
शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः

1.10.27

शूलैर्नालीकनाराचैः क्षेपणीयैःसमुद्ररैः ।
रथाश्वनागपदगैः सङ्कुलो ववृधे रणः

1.10.28

देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् ।
एवमष्टसहस्राणि युद्धमासीत्सुदारुणम्

1.10.29

अथ दैत्यबले वृद्धे पराभूता दिवौकसः ।
सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः

1.10.30

नररुपपरिच्छन्ना विचेरु रवनीतले ।
वैरोचनिस्त्रिभुवनं नारायणपरायणः

1.10.31

बुभुजे ऽव्याहतैश्चर्यप्रवृद्धश्रीर्महाबलः ।
इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः

1.10.32

इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च ।
देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः

1.10.33

तेषु यज्ञेषु सर्वेषु हविर्भुङ्क्ते स दैत्यराट् ।
अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता

1.10.24

वृथात्र निवसामीति मत्वागाद्धिमवद्गिरम् ।
शक्रस्यैश्वर्यमिच्छन्ती दैत्यानां च पराजयम्

1.10.35

हरिध्यानपरा भूत्वा तपस्तेपे ऽतिदुष्करम् ।
किञ्चित्कालं समासीना तिष्टन्ती च ततः परम्

1.10.36

पादेनैकेन सुचिरं ततः पादाग्रमात्रतः ।
कञ्चित्कालं फलाहारा ततः शीर्णदलाशना

1.10.37

ततो जलाशमा वायुभोजनाहारवर्जिता ।
सञ्चिदानन्दसन्दोहं ध्यायत्यात्मानमत्मना

1.10.38

दिव्याब्दानां सहस्रं सा तपो ऽतप्यत नारद ।
दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनो ऽदितिम्

1.10.39

देवतारुपमास्थाय संप्रोचुर्बलिनोदिताः ।
किमर्थं तप्यते मातः शरीरपरिशोषणम्

1.10.40

यदि जनन्ति दैतेया महहुखं ततो भवेत् ।
त्यजेदं दुःखबहुलं कायशोषणकारणम्

1.10.41

प्रयाससाध्यं सुकृतं न प्रशंसन्ति पण्डिताः ।
शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः

1.10.42

ये शरीरमुपेक्षन्ते ते स्युरात्मविघातिनः ।
सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय

1.10.43

मात्रा हीना जना मातर्मृतप्राया न संशयः ।
गावो वा पशवो वापियत्र गावो महीरुहाः

1.10.44

न लभन्ते सुखं किञ्चिन्मात्रा हीना मृतोपमाः ।
दरिद्रो वापि रोगी वा देशान्तरगतो ऽपि वा

1.10.45

मातुर्दर्शनमात्रेण लभते परमां मुदम् ।
अन्ने वा सलिले वापि धनादौ वा प्रियासु च

1.10.46

कदाचिद्विमुखो याति जनो मातरि को ऽपि न ।
यस्य माता गृहे नास्ति यत्र धर्मपरायणा ।
साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम्

1.10.47

धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितं हि ।
गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः

1.10.48

तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तवा ।
इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः

1.10.49

एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् ।
निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम्

1.10.50

कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः ।
दंष्ट्रग्रैरसृजन्वह्निं सो ऽदहत्काननं क्षणात्

1.10.51

शतयोजनविस्तीर्णं नानाजीवसमाकुलम् ।
तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः

1.10.52

सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचिता ।
संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc