नारद पुराण · अध्याय 1.105
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे स्कन्दपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमो ऽध्यायः
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् ।
त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम्
कूर्मकल्पसमाख्यानं वर्गत्रयकथानम् ।
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्
पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः ।
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम्
हरस्य कालरूपाख्या कामस्य दहनं ततः ।
प्रह्लादनारायणयोर्युद्धं देवासुराहवः
सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् ।
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः
तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् ।
सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम्
तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः ।
ततः कौशिक्युपाख्यानं कुमारचरितं ततः
ततो ऽन्धकवधाख्यानंसाध्योपाख्यानकन्ततः ।
जाबालिचरितं पश्चादरजायाः कथाद्भुता
अन्धकेशरयोर्युद्धं गणत्वं चान्धकस्य च ।
मरुतां जन्मकथनं बलेश्च चरितं ततः
ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् ।
प्रह्लादतीर्थयात्रायां प्रोच्यन्ते ऽथ कथाः शुभाः
ततश्च धुन्धु चरितं प्रेतोपाख्यानकं ततः ।
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः
त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तः स्तवोत्तमः ।
प्रह्लादबलिसंवादे सुतले हरिशंसनम्
इत्येष पूर्वभागो ऽस्य पुराणस्य तवोदितः ।
शृण्णतो ऽस्योत्तरं भागं बहद्वामनसंज्ञकम्
माहेश्वरी भागवती सौरी गाणेश्वरी तथा ।
चतस्रः संहिताश्चात्र पृथक् साहस्रसंख्यया
माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् ।
भागवत्यां जगन्मातुखतारकथाद्भुता
सौर्यां सूर्यस्य महिमा गदितः पापनाशनः ।
गाणेश्वर्यां गणेशस्य चरितं च महेशितुः
इत्येतद्वामनं नाम पुराणं सुविचित्रकम् ।
पुलस्त्येन समाख्यातं नारदाय महात्मने
ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ।
व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः
स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च ।
एवं परंपराप्राप्तं पुराणं वामनं शुभम्
ये पठन्ति च शृण्वन्ति ते ऽपि यान्ति परां गतिम् ।
लिखित्वैतत्पुराणं तु यः शरद्विषुवेर्ऽपयेत्
विप्राय वेदविदुषे घृतधेनुसमन्वितम् ।
स समुद्धृत्य नरकान्नयेत्स्वर्गं पितॄन्स्वकान्
देहान्ते भुक्तभोगो ऽसौ याति विष्णोः परं पदम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0