भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.106

1.106.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमो ऽध्यायः
ब्रह्मोवाच
शृणु वत्स मरीचे त्वं पुराणं कूर्मसंज्ञकम् ।
लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः

1.106.2

धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् ।
इन्द्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः

1.106.3

तत्सप्तदशसाहस्रं सुचतुः संहितं शुभम् ।
यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने

1.106.4

नाननाकथाप्रसंगेन नृणां सद्गतिदायकाः ।
तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा

1.106.5

लक्ष्मीन्द्रद्युम्नसंवादः कूर्ंमर्षिगणसंकथा ।
वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम्

1.106.6

कालसंख्या समासेन लयान्ते स्तवनं विभोः ॥
ततः संक्षेपतः सर्गः शाङ्करं चरितं तथा

1.106.7

सहस्रनाम पार्वत्या योगस्य च निरूपणम् ।
भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च

1.106.8

देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः ।
दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम्

1.106.9

आत्रेयवंशकथनं कृष्णस्यं चरितं शुभम् ।
मार्तण्डकृष्णसंवादो व्यासपाण्डवसंकथा

1.106.10

युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् ।
वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम्

1.106.11

त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् ।
उत्तरे ऽस्या विभागे तु पुरा गीतैश्वरी ततः

1.106.12

व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी ।
नानाविधानां तीर्थानां माहात्म्यं च पृथक् ततः

1.106.13

प्रतिसर्गप्रकथनं ब्राह्मीयं संहिता स्मृता ।
अतः परं भागवतीसंहितार्थ निरूपणम्

1.106.14

कथिता यत्र वर्णानां पृथक्वृत्तिरुदाहृता ।
पादऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः

1.106.15

सदा चागत्मिका वत्स भोगसौख्यविवर्द्धनी ।
द्वितीये क्षत्त्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता

1.106.16

यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् ।
तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा

1.106.17

यया चरितया सम्यग्लभे गतिमुत्तमाम् ।
चतुर्थे ऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता

1.106.18

यया संतुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः ।
पञ्चमे ऽस्यास्ततः पादे वृत्तिः संकरजोदिता

1.106.19

यया चरितयाप्नोति भाविनीं गतिमुत्तमाम् ।
इत्येषा पञ्चपद्युक्ता द्वितीया संहिता मुने

1.106.20

तृतीयात्रोदिता सौरी नॄणां कार्यविधायिनी ।
षोढा षट्कर्मसिर्द्धि बोधयन्ती च कामिनाम्

1.106.21

चतुर्थीवैष्णवो नाम मोक्षदा परिकीर्तिता ।
चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूरिणी

1.106.22

ताः क्रमात्षट्चतुर्द्वीषुसाहस्राः परिकीर्तिताः

1.106.23

एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् ।
पठतां शृण्वतां नॄणां सर्वोत्कृष्टगतिप्रदम्

1.106.24

लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वितम् ।
ब्राह्मणाया यने दद्यात्स याति परमां गतिम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc