भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.104

1.104.1

इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणीवर्णनं नाम त्र्युत्तरशततमो ऽध्यायः
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि पुराणं स्कन्दसंज्ञकम् ।
यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः

1.104.2

पुराणे शतकोटो तु यच्छैवं वर्णितं मया ।
लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः

1.104.3

स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः ।
एकाशीतिसहस्रं तु स्कान्दं सर्वोघकृतंनम्

1.104.4

यः शृणोति पठेद्वापि स तु साक्षाच्छिवः स्थितः ।
यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः

1.104.5

कल्पे तत्पुरुषे वृत्ताः सर्वसिद्धिविधायकाः ।
तस्य माहेश्वरश्चाथ खण्डः पापप्रणाशनः

1.104.6

किञ्चिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः ।
सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः

1.104.7

यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा ।
दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्चने फलम्

1.104.8

समुद्रमथनाख्यानं देवेन्द्रचरितं ततः ।
पार्वत्याः समुपाख्यानं विवाहस्तदनन्तरम्

1.104.9

कुमारोत्पत्तिकथनं ततस्तारकसंगरः ।
ततः पाशुपताख्यानं चण्डाख्यानसमन्वितम्

1.104.10

द्यूतप्रवर्तनाख्यानं नारदेन समागमः ।
ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम्

1.104.11

धर्मवर्मनृपाख्यानं नदीसागरकीर्तनम् ।
इन्द्रद्युम्नकथा पश्चान्नाडीजङ्घकथान्वितम्

1.104.12

प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च ।
महीसागरसंयोगः कुमारेशकथा ततः

1.104.13

ततस्तारकयुद्धं च नानाख्यानसमन्वितम् ।
वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम्

1.104.14

द्वीपाख्यानं ततः पुण्यमूर्द्धलोकव्यवस्थितिः ।
ब्रह्माण्डस्थितिमानं च वर्करेशकथानकम्

1.104.15

महाकालसमुद्भूतिः कथा चास्य महाद्भुता ।
वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम्

1.104.16

नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितम् ।
पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम्

1.104.17

तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् ।
अरुणाचलमाहात्म्यं सनकब्रह्मसंकथा

1.104.18

गौरीतपः समाख्यानं तत्तत्तीर्थनिरूपणम् ।
माहिषासुरमाख्यानं वधश्चास्य महाद्भुतः

1.104.19

द्रोणाचले शिवास्थानं नित्यदापरिकीर्तितम् ।
इत्येष कथितः स्कान्दे खण्डो माहेश्वरो ऽद्भुतः

1.104.20

द्वितीयो वैष्णवः खण्डस्तस्याख्यानानि मे शुणु ।
प्रथमं भूमिवाराहसमाख्यानं प्रकीर्तितम्

1.104.21

यत्र वेङ्कटकुध्रस्य माहात्म्यं पापनाशनम् ।
कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः

1.104.22

कुला लाख्यानकं चात्र सुवर्णमुखरी कथा ।
नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता

1.104.23

मतङ्गाञ्जनसंवादः कीर्तितः पापनाशनः ।
पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः

1.104.24

मार्कण्डेयसमाख्यानमंबरीषस्य भूपतेः ।
इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा

1.104.25

जैमिनेः समुपाख्यानं नारदस्यापि वाडव ।
नीलकण्ठसमाख्यानं नरसिंहोपवर्णनम्

1.104.26

अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा ।
रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा

1.104.27

दक्षिणामूर्त्युपाख्यानं गुण्डिवाख्यानकं ततः ।
रथरक्षाविधानं च शयनोत्सवकीर्तनम्

1.104.28

श्वेतोपाख्यानमत्रोक्तं पृथुत्सवनिरूपणम् ।
दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम्

1.104.29

पूजा चाकामिका विष्णोरुद्दालकनियोगतः ।
योगसाधनमत्रोक्तं नानायोगनिरूपणम्

1.104.30

दशावतारकथनं स्रानादिपरिकीर्तनम् ।
ततो बदरिकायाश्च माहात्म्यं पापनाशनम्

1.104.31

अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् ।
कारणं भगवद्वासे तीर्थं कापालमोचनम्

1.104.32

पञ्चधाराभिधं तीर्थं मेरुसंस्थापनं तथा ।
ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम्

1.104.33

धूम्रकेशसमाख्यानं दिनकृत्यानि कर्तिके ।
पञ्चभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम्

1.104.34

ततो मार्गस्य माहात्म्ये विधानं स्नानजं तथा ।
पुण्ड्रादिकीर्तनं चात्र मालाधारणपुण्यकम्

1.104.35

पञ्चामृतस्नानपुण्यं घण्टानादादिजं फलम् ।
नानापुष्पार्चनफलं तुलसीदलजं फलम्

1.104.36

नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम् ।
अखण्डैकादशीपुण्यं तथा जागरणस्य च

1.104.37

यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम् ।
ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम्

1.104.38

मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् ।
वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः

1.104.39

श्रीमद्भागवतस्यात्र माहात्म्यं कीर्तितं परम् ।
वज्रशाण्डिल्यसंवाद अन्तर्लीलाप्रकाशकम्

1.104.40

ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् ।
नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम्

1.104.41

ततो वैष्णवमाहात्म्ये शय्यादानादिजं फलम् ।
जलदा नादिविधयः कामाख्यानमतः परम्

1.104.42

श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् ।
तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम्

1.104.43

ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके ।
सुरापापविमोक्षाख्ये तथाधारसहस्रकम्

1.104.44

स्वर्गद्वारं चन्द्रहरिधर्महर्युपवर्णनम् ।
स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः

1.104.45

सीताकुण्डं गुप्तहरिसरंयुघर्घरान्वयः ।
गोप्रतारं च दुग्धोदं गुरुकुण्डादिपञ्चकम्

1.104.46

सोमार्का दीनि तीर्थानि त्रयोदश ततः परम् ।
गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम्

1.104.47

माण्डव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम् ।
अजितादि मानसादितीर्थानि गदितानि च

1.104.48

इत्येष वैष्णवः खण्डो द्वितीयः परिकीर्तितः ।
अतः परं ब्रह्मखण्डं मरीचे शृणु पुण्यदम्

1.104.49

यत्र वै सेतुमाहात्म्ये फलं स्नाने क्षणोद्भवम् ।
गालवस्य तपश्चर्या राक्षसाख्यानकं ततः

1.104.50

चक्रतीर्थादिमाहात्म्यं देवीपत्तनसंयुते ।
वेतालतीर्थमहिमा पापनाशादिकीर्तनम्

1.104.51

मङ्गलादिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनम् ।
हनुमत्कुण्डमहिमागस्त्यतीर्थभवं फलम्

1.104.52

रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् ।
शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः

1.104.53

धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजं तथा ।
गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम्

1.104.54

रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् ।
यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम्

1.104.55

धर्मारण्यस्य माहात्म्यं ततः परमुदीरितम् ।
स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत्

1.104.56

धर्मारण्यसुसंभूतिस्तत्पुण्यपरिकीर्त्तनम् ।
कर्ंमसिद्धेः समाख्यानं ऋषिवंशनिरूपणम्

1.104.57

अप्सरस्तीर्थमुख्यानां माहात्म्यं यत्र कीर्तितम् ।
वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम्

1.104.58

दिवः स्थानविभागश्च बकुलार्ककथा शुभा ।
छत्रानन्दा तथा शान्ता श्रीमाता च मतङ्गिनी

1.104.59

पुण्यदा च समाख्याता यत्र देव्यः समास्थिताः ।
इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम्

1.104.60

लोहासुरसमाख्यानं गङ्गाकूपनिरूपणम् ।
श्रीरामचरितं चैव सत्यमन्दिरवर्णनम्

1.104.61

जीर्णोद्धा रस्य कथनमासनप्रतिपादनम् ।
जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम्

1.104.62

ततस्तु वैष्णवा धर्मा नानाख्यानैरुदीरिताः ।
चातुर्मास्ये ततः पुण्ये सर्वधमनिरूपणम्

1.104.63

दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः ।
तपश्चैव पूजायाः सच्छिद्रकथनं ततः

1.104.64

तद्वृत्तीनां भिदाख्यानं शालग्रामनिरूपणम् ।
भारकस्य वधोपायो वृक्षाचामहिमा तथा

1.104.65

विष्णोः शापश्च वृक्षत्वं पार्वत्यनुतपस्ततः ।
हरस्य ताण्डवं नृत्यं रामनामनिरूपणम्

1.104.66

हरस्य लिङ्गपतनं कथा बैजवनस्य च ।
पार्वतीजन्मचरितं तारकस्य वधो ऽद्भुतः

1.104.67

प्रणवैश्वर्यकथनं तारकाचरितं पुनः ।
दक्षयज्ञसमाप्तिश्च द्वादशाक्षरभूषणम्

1.104.68

ज्ञानयोगसमाख्यानं महिमा द्वादशाक्षरेः ।
श्रवणादिकपुण्यं च कीर्तितं शर्मदं नृणाम्

1.104.69

ततो ब्राह्मोत्तरे भागे शिवस्य महिमाद्भुतः ।
पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः

1.104.70

शिवरात्रैश्च महिमा प्रदोषव्र तकीर्तनम् ।
सोमवारव्रतं चापि सीमन्तिन्याः कथानकम्

1.104.71

भद्रायुत्पत्तिकथनं सदाचारनिरूपणम् ।
शिववर्मसमुद्देशो भद्रायूद्वाहवर्णनम्

1.104.72

भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्तनम् ।
शबराख्यानकं चैव उमामाहेश्वरं व्रतम्

1.104.73

रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् ।
श्रवणादिकपुण्यं च ब्रह्मखण्डो ऽयमीरितः

1.104.74

अतः परं चतुर्थं तु काशीखण्डमनुत्तमम् ।
विन्ध्यनारदयोर्यत्र संवादः परिकीर्तितः

1.104.75

सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः ।
पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम्

1.104.76

ततश्च सप्तपुर्याख्या संयमिन्या निरूपणम् ।
बुधस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्मणः

1.104.77

अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसंभवः ।
गन्धवत्यलकापुर्योरीश्वर्याश्च समुद्भवः

1.104.78

चन्द्रार्कबुधलोकानां कुजेज्यार्कभुवां क्रमात् ।
मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम्

1.104.79

ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् ।
स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः

1.104.80

प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् ।
वाराणसीप्रशंसा च भैरवाविर्भवस्ततः

1.104.81

दण्डपाणिज्ञानवाप्योरुद्भवः समनन्तरम् ।
ततः कलावत्याख्यानं सदाचारनिरूपणम्

1.104.82

ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च ।
कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम्

1.104.83

गृहस्थयोगिनो धर्माः कालज्ञानं ततः परम् ।
दिवोदासकथा पुण्या काशिकावर्णनं ततः

1.104.84

मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः ।
विष्णुमायाप्रपञ्चो ऽथ दिवोदासविमोक्षणम्

1.104.85

ततः पञ्चनदोत्पर्त्तिर्बिन्दुमाधवसंभवः ।
ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः

1.104.86

जैगीषव्येन संवादो ज्येष्ठेशाख्या महेशितुः ।
क्षेत्राख्यानं कन्दुकेशः व्याघ्रेश्वरसमुद्भवः

1.104.87

शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः ।
देवतानामधिष्टानं दुर्गासुरपराक्रमः

1.104.88

दुर्गाया विजयश्चाथ ओङ्कारेशस्य वर्णनम् ।
पुनराएङ्कार माहात्म्य त्रिलोचोनसमुद्भवः

1.104.89

केदाराख्या च धर्मेश कथा विष्णुभुजोद्भवा ।
वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्तनम्

1.104.90

विश्वकर्मेशमहिमा दक्षयज्ञोद्भवस्तथा ।
सतीशस्यामृतेशादेर्भुजस्तंभः पराशरे

1.104.91

क्षेत्रतीर्थकदंबश्च मुक्तिमडपसंकथा ।
विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः

1.104.92

अतः परं त्ववन्त्याख्यं शृणु खण्ड च पञ्चमम् ॥।
महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः

1.104.93

प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः ।
देवदीक्षा शिवस्तोत्रं नानापातकनाशनम्

1.104.94

कपोलमोचनाख्यानं महाकालवनस्थितिः ।
तीर्थं कनखलेशस्य सर्वपापप्रणाशनम्

1.104.95

कुण्डमप्सरसंज्ञं च सरो रुद्रस्य पुण्यदम् ।
कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम्

1.104.96

स्वर्गद्वारचतुःसिंधुतीर्थं शङ्करवापिका ।
शङ्कराक गन्धवतीतीर्थं पापप्रणाशनम्

1.104.97

दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम् ।
पिशाचकादियात्रा च हनुमत्कवचेश्वरौ

1.104.98

महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम् ।
शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः

1.104.99

अक्रूरसंज्ञकन्त्वेकपादं चन्द्रार्कवैभवम् ।
करभेशाख्यतीर्थं च लटुकेशादितीर्थकम्

1.104.100

मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकम् ।
केदारेश्वररामेशसौभाग्येशनरार्ककम्

1.104.101

केशवार्कं शक्तिभेदं स्वर्णसारमुखानि च ।
ओङ्कारेशादितीर्थानि अन्धकश्रुतिकीर्तनम्

1.104.102

कालारण्ये लिङ्गसंख्या स्वर्णशृङ्गाभिधानकम् ।
कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम्

1.104.103

पद्मावतीवै कुमुद्वत्यमरावतिनामकम् ।
विशालाप्रतिकल्पाभिधानं च ज्वरशान्तिकम्

1.104.104

शिवानामादिकफलं नागोद्गीता शिवस्तुतिः ।
हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुण्डकम्

1.104.105

नीलगङ्गापुष्कराख्यं विन्ध्यवासनतीर्थकम् ।
पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम्

1.104.106

गोमती वामनं कुण्डो विष्णोर्नामसहस्रकम् ।
वीरेश्वरसरः कालभैरवस्य च तीर्थकम्

1.104.107

महिमा नागपञ्चम्या नृसिंहस्य जयन्तिका ।
कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम्

1.104.108

कर्कराजाख्यतीर्थं च विघ्नेशादिसुरोहनम् ॥
रुन्द्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम्

1.104.109

यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते ।
धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन संगमः

1.104.110

प्राग्रीयानुभवाख्यानममृतापरिकीर्त्तनम् ।
कल्पे कल्पे पृथङ् नाम नर्मदायाः प्रकीर्तितम्

1.104.111

स्तवमार्षं नामेदं च कालरात्रिकथा ततः ।
महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता

1.104.112

विशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा ।
गोरीव्रत समाख्यानं त्रिपुरज्वालनं ततः

1.104.113

देहपातविधानं च कावेरीसंगमस्ततः ।
दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम्

1.104.114

अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम् ।
देवतीर्थं नर्मदेशं कपिलाख्यं करञ्जकम्

1.104.115

कुण्डलेशं पिप्पलादं विमलेशं च शूलभित् ।
शचीहरणमाख्या नमभ्रकस्य वधस्ततः

1.104.116

शूलभेदोद्भवो यत्र दानधर्माः पृथग्विधाः ।
आख्यानं दीर्घतपस ऋष्यशृङ्गकथा ततः

1.104.117

चित्रसेनकथापुण्या काशिराज्यस्य लक्षणम् ।
ततो देवशिलाख्यानं शबरीतीर्थकान्वितम्

1.104.118

व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् ।
आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम्

1.104.119

कुमारेशमगस्त्येशमानन्देशं च मातृजम् ।
लोकेशं धनदेशं च मङ्गलेशं च कामजम्

1.104.120

नागेशं चापि गोपारं गौतमं शङ्खचूडकम् ।
नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम्

1.104.121

दधिस्कन्दादितीर्थानि हनूमतेश्वरं ततः ।
रामेश्वरादि तीर्थानि सोमेशं पिङ्गलेश्वरम्

1.104.122

ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम् ।
चण्डार्कं यमतीर्थं च काल्होडीशं वनादिके

1.104.123

नारायणं च कोटीशं व्यासतीर्थं प्रभासकम् ।
नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम्

1.104.124

ऐरण्डीसंगमं पुण्यं सुवर्णशिलतीर्थकम् ।
करञ्जं कामहं तीर्थं भाण्डीरो रोहिणीभवम्

1.104.125

चक्रतीर्थं दौतपापं स्कन्दमाङ्गिरसाह्वयम् ।
कोटितीर्थमयोन्यख्यमङ्गाराख्यं त्रिलोचनम्

1.104.126

इन्द्रेशं कंबुकेशं च सोमेशं कोहनं शकम् ।
नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम्

1.104.127

ब्राह्मं दैवं च मार्गेशमादिवाराहकेश्वरम् ।
रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम्

1.104.128

शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम् ।
योजनेशं वराहेशं द्वादशीशिवतीर्थकम्

1.104.129

सिद्धेशं मङ्गलेशं च लिङ्गवाराहतीर्थकम् ।
कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम्

1.104.130

शुक्लादीनि च तीर्थानि हुङ्कारस्वामितीर्थकम् ।
संगमेशं नहुषेशं मोक्षणं पञ्चगोपकम् ।
नागशावं च सिद्धेशं मार्कण्डाङ्क्रूरतीर्थके

1.104.131

कामोदशूलारोपाख्ये माण्डव्यं गोपकेश्वरम् ।
कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे

1.104.132

आस्वमेधं भृगुकच्छं केदारेशं च पापनुत् ।
कलकलेशं जालेशं शालग्रामं वराहकम्

1.104.133

चन्द्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम् ।
मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम्

1.104.134

शिखीशं काण्टितीर्थं च दशकन्यं सुवणकम् ।
ऋणमोक्षं भारभूति पुङ्खां मुडिं च डिण्डिमम्

1.104.135

आमलेशं कपालेशं शृङ्गैरण्डीभवं ततः ।
कोटितीर्थं लोटणेषं फलस्तुतिरतः परम्

1.104.136

दृमिजङ्गलमाहात्म्ये रोहिताश्वकथा ततः ।
धुन्धुमारसमाख्यानं वधोपायस्ततो ऽस्य वै

1.104.137

वधौ धुन्धोस्ततः पश्चात्ततश्चित्रवहोद्भवः ।
महिमास्य ततश्चडीशप्रभावो रतीश्वरः

1.104.138

केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् ।
मुखारं च्यवनान्धास्यं ब्रह्मणश्च सरस्ततः

1.104.139

चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयम् ।
रुद्रावर्तं च मर्कण्डं तीर्थं पापप्रणाशनम्

1.104.140

श्रवणेशं शुद्धपटं देवान्धुप्रेततीर्थकम् ।
जिह्वोदतीर्थंसंभूतिः शिवोद्भन्दं फलस्तुतिः

1.104.141

एष खण्डो ह्यवन्त्याख्यः शृण्वतां पापनाशनः ।
अतः परं नागराख्यः खण्डः षष्ठो ऽभिधीयते

1.104.142

लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा ।
विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा

1.104.143

हाटके श्वरमाहात्म्ये वृत्रासुरवधस्तथा ।
नागबिलं शङ्खतीर्थमचलेश्वरवर्णनम्

1.104.144

चमत्कारपुराख्यानं चमत्कारकरं परम् ।
गयशीर्षं बालशाख्यं वालमण्डं मृगाह्वयम्

1.104.145

विष्णुपादं च गोकर्णं युगरूपं समाश्रयः ।
सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम्

1.104.146

भ्रूणगर्तं नलेशं च भैष्मं वैडुरमर्ककम् ।
शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम्

1.104.147

जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम् ।
रामह्रदं नागपुरं षआड्लिङ्गं चैव यज्ञभूः

1.104.148

मुण्डीरादित्रिकार्कं च सतीपरिणयाह्वयम् ।
रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम्

1.104.149

लक्ष्मीशापः सप्तविंशसोमप्रासादमेव च ।
अंबाबद्धं पाण्डुकाख्यमाग्नेयं ब्रह्मकुण्डकम्

1.104.150

गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा ।
शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः

1.104.151

कुशेशाख्यं लवेशाख्यं लिङ्गं सर्वोत्तमोत्तमम् ।
अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम्

1.104.152

ततो वै रेवती चात्र भक्तिकातीर्थसंभवः ।
क्षेमङ्करी च केदारं शुक्लतीर्थमुखारकम्

1.104.153

सत्यसंधेश्वराख्यानं तथा कर्णोत्पलाकथा ।
अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च

1.104.154

ततो वास्तुपदाख्यानमजागृहकथानकम् ।
सौभाग्यान्धुश्च शुलेशं धर्मराजकथानकम्

1.104.155

मिष्टान्नेदश्वराख्यानं गाणापत्यत्रयं ततः ।
जाबालिचरितं चैव मकरेशकथा ततः

1.104.156

कालेश्वर्यन्धकाख्यानं कुण्डमाप्यरसं तथा ।
पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम्

1.104.157

भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् ।
सारस्वतं पैप्पलादं कंसारीशं च पैण्डकम्

1.104.158

ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् ।
रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम्

1.104.159

कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् ।
पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम्

1.104.160

वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् ।
बृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम्

1.104.161

कल्पः शालस्तथा नन्दिग्रामत्रयमनुत्तमम् ।
असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम्

1.104.162

र्श्यर्बुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् ।
नदीनां त्रितयं गङ्गा नर्मदा च सरस्वती

1.104.163

सार्द्धकोटित्रयफलमेकैकं चैषु कीर्त्तितम् ।
कूषिका शङ्खतीर्थं चामरकं बालमण्डनम्

1.104.164

हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् ।
सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम्

1.104.165

जलशायि चतुर्मासमशून्यशयनव्रतम् ।
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम्

1.104.166

पृथ्वीदानं वानकेशं कपालमोचनेश्वरम् ।
पापपिण्डं मासलैङ्गं युगमानादिकीर्तनम्

1.104.167

निंवेशशाकंभर्याख्या रुद्रैकादशकीर्तनम् ।
दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम्

1.104.168

इत्येषनागरः खण्डः प्रभासाख्यो ऽधुनोच्यते ।
सोमेशो यत्र विश्वेशोर्ऽकस्थलं पुण्यदं महत्

1.104.169

सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् ।
अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम्

1.104.170

भीमभैरवचण्डीशभास्करेन्दुकुजेश्वराः ।
बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः

1.104.171

सिद्धेश्वराद्याः पञ्चान्ये रुद्रास्तत्र व्यवस्तत्र व्यवस्थिताः ।
वरारोहा ह्यजा पाला मङ्गला ललितेश्वरी

1.104.172

लक्ष्मीशो वाडवेशश्चोर्वीशः कामेस्वरस्तथा ।
गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम्

1.104.173

कुमारेशं चण्डकल्पं शकुलीश्वरसंज्ञकम् ।
ततः प्रोक्तो ऽथ कोटीशबालब्रह्मादिसत्कथा

1.104.174

नरकेशसंवर्त्तेशनिधीश्वरकथा ततः ।
बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च

1.104.175

जांबवत्याख्यसरितः पाण्डुकूपस्य सत्कथा ।
शतमेधलक्षमेधकोटिमेधकथा तथा

1.104.176

दुर्वासार्कघटस्थानहिरण्यासंगमोत्कथा ।
नगरार्कस्य कृष्णस्य संकर्षणसमुद्रयोः

1.104.177

कुमार्याः क्षेत्रपास्य ब्रह्मेशस्य कथा पृथक् ।
पिङ्गलासंगमेशस्य शङ्करार्कघटेशयोः

1.104.178

ऋषितीर्थस्य नन्दार्कत्रितकूपस्य कीर्तनम् ।
ससोपानस्य पर्णार्कन्यङ्कुमत्योः कथाद्भुता

1.104.179

वाराहस्वामिवृत्तान्तं छायालिङ्गाख्यगुल्फयोः ।
कथा कनकनन्दायाः कुतीगङ्गेशयोस्तथा

1.104.180

चमसोद्बेदविदुरत्रिलोकेशकथा ततः ।
मङ्कणेशत्रैपुरेशषण्डतीर्थकथास्तथा

1.104.181

सूर्यप्राची त्रीक्षणयोरुमानातकथा तथा ।
भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा

1.104.182

अजापालेशबालार्ककुबेरस्थलजा कथा ।
ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम्

1.104.183

नारदादित्यकथनं नारायणनिरूपणम् ।
तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम्

1.104.184

चतुर्वक्त्रगणाध्यक्षकलंबेश्वरयोः कथा ।
गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा

1.104.185

क्षेमार्केन्नतविघ्नेशजलस्वामिकथा ततः ।
कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः

1.104.186

शङ्खावर्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् ।
जालेश्वरस्य हुङ्कारेश्वरचण्डीशयोः कथा

1.104.187

आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता ।
कपिलेशस्य च कथा जरद्गवशिवस्य च

1.104.188

नलकर्केटेश्वरयोर्हाटकेश्वरजा कथा ।
नारदेशयन्त्रभूषादुर्गकूटगणेशजा

1.104.189

सुपर्णैलाख्यभैरव्योर्भल्लतीर्थभवा कथा ।
कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च

1.104.190

बहुस्वर्णेशशृङ्गेशकोटीश्वरकथा ततः ।
मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा

1.104.191

स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा ।
मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम्

1.104.192

दुर्गाभिल्लेशगङ्गेशरैवतानां कथाद्भुता ।
ततोर्ऽबुदेश्वर कथा अचलेश्वरकीर्तनम्

1.104.193

नागतीर्थस्य च कथा वसिष्टाश्रमवर्णनम् ।
भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम्

1.104.194

केदारस्य च माहात्म्यं तीर्थाङ्गमनकीर्तनम् ।
कोटीश्वररूपतीर्थहृषीकेशकथारस्ततः

1.104.195

सिद्धेशशुक्रेश्वरयोर्मणिकर्णीशकीर्तनम् ।
पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम्

1.104.196

चन्द्रप्रभासर्पिडोदश्रीमाताशुक्लतीर्थजम् ।
कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य च

1.104.197

ततः कनखलस्याथ चक्रमानुषतीर्थयोः ।
कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा

1.104.198

गणेशपार्थेश्वरयोर्यान्त्रायामुज्ज्वलस्य च ।
चण्डीस्थाननागोद्भवशिवकुण्डमहेशजा

1.104.199

कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः ।
उद्दालकेशसिद्धेशगततीथकथा पृथक्

1.104.200

श्रीदेवरवातोत्पत्तिश्च व्यासगौतमतीर्थयोः ।
कुलसंतारमाहात्म्यं रामकोट्याह्वतीर्थयोः

1.104.201

चन्द्रोद्भेदेशानशृङ्गब्रह्मस्थानोद्भवो ऽद्भुतम् ।
त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा

1.104.202

अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च ।
महौजसः प्रभावश्च जंबूतीर्थस्य वर्णनम्

1.104.203

गङ्गाधरमिश्रकयोः कथा वाथफलस्तुतिः ।
द्वारकायाश्च माहात्म्ये चन्द्रशर्मकथानकम्

1.104.204

जागराद्यर्चनाद्याख्या व्रतमेकादशीभवम् ।
महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः

1.104.205

दुर्वासस उपाख्यानं यात्रोपक्रमकीर्तनम् ।
गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम्

1.104.206

चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसंगमः ।
सनकादिह्रदाख्यानं नृगतीर्थकथा ततः

1.104.207

गोप्रचारकथा पुण्या गोपीनां द्वारकागमः ।
गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम्

1.104.208

पञ्चनद्यागमाख्यानं नानाख्यानसमन्वितम् ।
शिवलिङ्गगदातीर्थकृष्णपूजादिकीर्तनम्

1.104.209

त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसंकथा ।
कुशदैत्यवधोञ्चारविशेषार्चनजं फलम्

1.104.210

गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् ।
कृष्णमन्दिरसंप्रेक्षा द्रारवत्यभिषेचनम्

1.104.211

तत्रतीर्थावासकथा द्वारकापुण्यकीर्तनम् ।
इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विजाः

1.104.212

स्कान्देसर्वोत्तरकथे शिबमाहात्म्यवर्णने ।
लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम्

1.104.213

माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc