भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.103

1.103.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे लिङ्गपुराणानुक्रमणीनिरूपणं नाम द्व्युत्तरशततमो ऽध्यायः
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि वाराहं वै पुराणकम् ।
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम्

1.103.2

मानवस्य तु कल्पस्य प्रसंगं मत्कृतं पुरा ।
निबबन्ध पुराणे ऽस्मिंश्चतुर्विंशसहस्रके

1.103.3

व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि ।
तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः

1.103.4

अथादिकृतवृत्तान्ते रंभस्य चरितं ततः ।
दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः

1.103.5

महातपस आख्यानं गौर्युत्पत्तिस्ततः परा ।
विनायकस्य नागानां सेनान्यादित्ययोरपि

1.103.6

गणानां च तथा देव्या धनदस्य वृषस्य च ।
आख्यानं सत्यतपसो व्रताख्यानसमन्वितम्

1.103.7

अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्तिता ।
महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम्

1.103.8

पर्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् ।
इत्यादि कृतवृत्तान्तं प्रथमे दर्शितं मया

1.103.9

भगवद्धर्मके पश्चाद्वततीर्थकथानकम् ।
द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम्

1.103.10

तीर्थानां चापि सर्वेषां माहात्म्यं पृथगीरितम् ।
मथुराया विशेषेण श्राद्धादीनां विधिस्ततः

1.103.11

वर्णनं यमलोकस्य ऋषिपुत्रप्रसंगतः ।
विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम्

1.103.12

गोकर्णस्य च माहात्म्यं कीर्तितं पापनाशनम् ।
इत्येवं पूर्वभागो ऽयं पुराणस्य निरूपितः

1.103.13

उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः ।
संवादे सर्वतीर्थानां माहात्म्यं विस्तरात्पृथक्

1.103.14

अशेषधर्माश्चाख्याताः पौष्करं पुण्यपर्व च ।
इत्येवं तव वाराहं प्रोक्तं पापविनाशनम्

1.103.15

पठतां शृण्वतां चैव भगवद्भक्तिवर्धनम् ।
काञ्चनं गरुड कृत्वा तिलधेनुसमन्वितम्

1.103.16

लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः ।
स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः

1.103.17

यो वानुक्रमणीमेन्तां शृणोत्यपि पठत्यपि ।
सो ऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc