भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.102

1.102.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणीनिरूपणं नामैकोत्तरशततमो ऽध्यायाः ॥ 101 ॥
ब्रह्मोवाच
शृणु पुत्र प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् ।
पठतां शृण्वतां चैव भुक्तिमुक्तिप्रदायकम्

1.102.2

यच्च लिङ्गाभिधं तिष्ठन्वह्निलिङ्गे हरो ऽभ्यधात् ।
मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम्

1.102.3

तदेव व्यासदेवेन भागद्वयसमन्वितम् ।
पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम्

1.102.4

तदेकादशसाहस्रं हरमाहात्म्यसूचकम् ।
परं सर्वपुराणानां सारभूतं जगत्त्रये

1.102.5

पुराणोपक्रमे प्रश्नः सृष्टिः संक्षेपतः पुरा ।
योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम्

1.102.6

लिङ्गोद्भवस्तदंबा च कीर्तिता हि ततः परम् ।
सनत्कुमारशैलादिसंवादश्चाथ पावनः

1.102.7

ततो दाधीचचरितं युगधर्मनिरूपणम् ।
ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः

1.102.8

ततश्च विस्तरात्सर्गस्त्रिपुराख्यानकं तथा ।
लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम्

1.102.9

शिवव्रतानि च तथा सदाचारनिरूपणम् ।
प्रायश्चितान्यरिष्टानि काशीश्रीशैलवर्णनम्

1.102.10

अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः ।
नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः

1.102.11

शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् ।
कामस्य दहनं पश्चाद्गिरिजायाः करग्रहः

1.102.12

ततो विनायकाख्यानं नृपाख्यानं शिवस्य च ।
उपमन्युकथा चापि पूर्वभाग इतीरितः

1.102.13

विष्णुमाहात्म्यकथनमंबरीषकथा ततः ।
सनत्कुमारनन्दीशसंवादश्च पुनर्मुने

1.102.14

शिवमाहा त्म्यसेयुक्तः स्त्रानयागादिकं ततः ।
सूर्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा

1.102.15

दानानि बहुधाक्तानि श्राद्धप्रकरणं ततः ।
प्रतिष्ठातं त्रमुदितं ततो ऽघोरस्य कीर्तनम्

1.102.16

वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः ।
त्र्यंबकस्य च माहात्म्यं पुराणश्रवणस्य च

1.102.17

एवं चोपरिभागस्ते लैङ्गस्य कथितो मया ।
व्यासेन हि निबद्धस्य रुद्रामाहात्म्यसूचितः

1.102.18

लिखित्वैतत्पुराणं तु तिलधेनुसमन्वितम् ।
फआल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये

1.102.19

स लभेच्छिवसायुज्यं जरामरणवर्जितम् ।
यः पटेच्छृणुयाद्वापि लैङ्गं पापापहं नरः

1.102.20

स भुक्तभोगो लोके ऽस्मिन्नन्ते शिवपुरं व्रजेत् ।
लिङ्गानुक्रमणीमेतां पठेद्यः शृणुयात्तथा

1.102.21

तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ ।
जायतां गिरिजाभर्तुः प्रसादान्नात्र संशयः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc