भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.100

1.100.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमो ऽध्यायः
श्रीब्रह्मोवाच
अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् ।
भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम्

1.100.2

यत्राहं सर्वदेवानामादिकर्ता समुद्गतः ।
सृष्ट्यर्थं तत्र संजातो मनुः स्वार्यभुवः पुरा

1.100.3

स मां प्रणम्य पप्रच्छ धर्मं सर्वाथसाधकम् ।
अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहिताम्

1.100.4

पुराणानां यदा व्यासो व्यासं चक्त्रे महामतिः ।
तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः

1.100.5

अधोरकल्पवृत्तान्तं नानाश्चर्यकथन्वितम् ।
तत्रादिमं स्मृतं पर्वं ब्राह्मं यत्रास्त्युपक्रमः

1.100.6

सूतशौनकसंवादे पुराणप्रश्नसंक्रमः ।
आदित्यचरितप्रायः सर्वाख्यानसमन्वितः

1.100.7

सृष्ट्यादिलक्षणोपेतः शास्त्रसर्वस्वरूपकः ।
पुस्तलेखकलेखानां लक्षणं च ततः परम्

1.100.8

संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम् ।
पक्षस्यादितिथीनां च कल्पाः सप्त च कीर्तिताः

1.100.9

अष्टम्याद्याः शेषकल्पा वैष्णवे पर्वणि स्मृताः ।
शैवे च कायतो भिन्नाः सौरे चान्त्यकथान्वयः

1.100.10

प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमन्वितम् ।
पुराणस्योपसंहारसहितं पर्व पञ्चमम्

1.100.11

एषु पञ्चसु पूर्वस्मिन् ब्रह्मणो महिमाधिकाः ।
धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च

1.100.12

द्वितीयं च तृतीये च सौरे वर्गचतुष्टये ।
प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्वकथान्वितम्

1.100.13

सभविष्यं विनिर्द्दिष्टं पर्व व्यासेन धीमता ।
चतुर्द्दशसहस्रं तु पुराणं परिकीर्तितम्

1.100.14

भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तितम् ।
गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः

1.100.15

तं लिखित्वा तु यो दद्यात्पौष्यां विद्वान्विमत्सरः ।
गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः

1.100.16

वाचकं पुस्तकं चापि पूजयित्वा विधानतः ।
गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम्

1.100.17

यो वै जितेन्द्रियो भूत्वा सोपवासः समाहितः ।
अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि

1.100.18

स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् ।
यो ऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम्

1.100.19

पठेद्वा शृणुयाच्चैतां भुक्तिं मुक्तिं च विन्दति

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc