भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.101

1.101.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणी निरूपणं नाम शततमो ऽध्यायः
श्रीब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि पुराणं दशमं तव ।
ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम्

1.101.2

सावर्णिर्यत्र भगवान्साक्षाद्देवर्षये स्थितः ।
नारदाय पुराणार्थं प्राह सर्वमलौकिकम्

1.101.3

धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे ।
तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्तमुत्तमम्

1.101.4

रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् ।
शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित्

1.101.5

व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्तसंज्ञिते ।
अष्टादशसहस्रं तत्पुराणं परिकीर्तितम्

1.101.6

ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमन्वितम् ।
तत्र सूतर्षिसंवादे पुराणोपक्रमस्ततः

1.101.7

सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः ।
विवादः सुमहान्यत्र द्वयोरासीत्पराभवः

1.101.8

शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवात्मने ।
शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य तु

1.101.9

गमनं चैव सावर्णेर्ज्ञानार्थं सिद्धसेविते ।
आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी

1.101.10

एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम् ।
ततः सावर्णिसंवादो नारदस्य समीरितः

1.101.11

कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरम् ।
प्रकृतेरंशभूतानां कलानां चापि वर्णितम्

1.101.12

माहात्म्यं पूजनाद्यं च विस्तरेण यथास्थितम् ।
एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम्

1.101.13

गणेशजन्मसंप्रश्नः सपुण्यकमहाव्रतम् ।
पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम्

1.101.14

चरितं कार्तवीर्यस्य जामदग्र्यस्य चाद्भुतम् ।
विवादः सुमहानासीज्जामदग्र्यगणेशयोः

1.101.15

एतद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनम् ।
श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततो ऽद्भुतम्

1.101.16

गोकुले गमनं गश्चात्पूतनादिवदाद्भूताः ।
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः

1.101.17

रासक्रीडा च गोपीभिः शारदी समुदाहृता ।
रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा

1.101.18

सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः ।
कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः

1.101.19

काश्यसांदीपनेः पश्चाद्विद्योपादानमद्भुतम् ।
यवनस्य वधः पश्चाद्द्वारकागमनं हरेः

1.101.20

नरकादिवधस्तत्र कृष्णेन विहितो ऽद्भुतः ।
कृष्णखण्डमिदं विप्र नृणां संसारखण्डनम्

1.101.21

पठितं च श्रुतं ध्यातं पूजितं चाभिवन्दितम् ।
इत्येतद्ब्रह्मवैवर्तपुराणं चात्यलौकिकम्

1.101.22

व्यासोक्तं चादि संभूतं पठञ्छृण्वन्विमुच्यते ।
विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात्

1.101.23

लिखित्वेदं च यो दद्यान्माध्यां धेनुसमन्वितम् ।
ब्रह्मलोकमवाप्नोति स मुक्तो ऽज्ञानबन्धनात्

1.101.24

यश्चानुक्रमणीं चापि पठेद्वा शृणुयादपि ।
सो ऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc