नारद पुराण · अध्याय 1.9
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमो ऽध्यायः
नारद उवाच
शत्पः कथं वसिष्टेन सौन्दासो नृपसत्तमः ।
गङ्गाबिन्दूभिषेकेण पुनः शुद्धो ऽबयत्कथम्
सर्वमेतदशेषेण भ्रातर्मे वक्तुमह्रसि ।
शृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम्
सनक उवाच
सौदासः सर्वधर्मज्ञः सर्वज्ञो गुणवाञ्छुचिः ।
बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः
सगेरण यथा पूर्वं महीयं सत्पसागरा ।
रक्षिता तद्वदमुना सर्वधर्माविरोधिना
पुत्रपौत्रसमायुक्तः सर्वैश्वर्यसमन्वितः ।
त्रिंशदष्टसहस्राणि बुभुजे पृथिवीं युवा
सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् ।
विवेश्व सबलः सम्यक् शोधितं ह्यासमन्त्रिभिः
निषादैः सदितस्तत्र विनिघ्रन्मूगलञ्चयम् ।
आससाद नदीं रेवां धर्मज्ञः स पिपासितः
सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने ।
भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत्
ततः प्रातः समुथाय कृत्वा पौर्वाह्निकीं क्रियाम् ।
बभ्राम मन्त्रिसहितो नर्मदातीरजे वने
वनाद्वनान्तरं गच्छन्नेक एव महीपत्तिः ।
आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात्
दूरसैन्यो ऽश्वमारूढः स राजानुव्रजन्मृगम् ।
व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम्
मृगपृष्टं परित्यज्य व्याघ्रयोः संमुखं ययौ ।
धनुःसंहितबाणेन तेनासौ शरशास्त्रवित्
तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा ।
पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता
तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् ।
पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः
प्रतिक्रियां करिष्यामीत्युक्तवा चान्तर्दधे तदा ।
राजा तु भयसंविग्नो वनेसैन्यं समेत्य च
तद्रृत्तं कथयन्सर्वान्स्वां पुरीं स न्यवर्त्तत ।
शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः
परितत्याज मृगयां ततः प्रभृति नारद ।
गते बहुतिथे काले हयमेधमखं नृपः
समारेभे प्रसन्नात्मा वशिष्टाद्यमुनीश्वरैः ।
तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि
समाप्य यज्ञनिष्क्रान्तो वशिष्टः स्त्रातको ऽपि च ।
अत्रान्तरे राक्षसो ऽसौ नृपहिसितभार्यकः ।
कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः
स राक्षसस्तस्य गुरौ प्रयाते वशिष्टवेषं तु तदैव धृत्वा ।
राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच
भूयः समास्थाय स सूदवषं पक्त्वामिषं मानुपमस्य वादात् ।
स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन्
तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः ।
समागताय गुरुवे ददौ तस्मौ ससादरम्
तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः
अपश्यन्मानुषं मासं परमेण समाधिना ।
अहो ऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम
इति विरमयमापन्नः प्रमन्युरभवन्मुनिः ।
अभो ऽज्यं मद्विघाताय दत्त हि पृथिवीपते
तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् ।
नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया
तद्याहि राक्षसत्वं त्वं तदाहारोचितं नृपा ।
इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः
आज्ञत्पो भवतैवेति सकंपो ऽस्म व्यजिज्ञपत् ।
भूराशृ चिन्तयामास वशिष्टस्तेन नोदितः
रक्षसा वञ्चितं भूपं ज्ञातवान् दिव्यचक्षुषा ।
राजापि जलमादाय वशिष्टं शप्तुमुद्यतः
समुद्यतं गुरुं शप्तं दृष्ट्वा भूयो रुषान्वितम् ।
मदयन्ती प्रियातस्य प्रत्युवाचाथ सुव्रता
मदयन्त्युवाच
भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि ।
त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः
गुरु तुकृत्य हुङ्कृत्य यो वदेन्मृढधीर्नरः ।
अरण्ये निर्जले देश स भवेद्धह्यराक्षसः
जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः ।
प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः
तयोक्तो भूपतिः कोपं त्यक्त्वा भार्यां ननन्द च ।
जलं कुत्र क्षिपामीति चिन्तयामास चात्मना
तज्जलं यत्र संसिक्तं तद्भवेद्भस्म निश्चितम् ।
इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम्
तज्जलस्पशिमात्रेण पादौ कल्माषतां गतौ ।
कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः
कल्माषपादो मतिमान् प्रिययाश्चासितस्तदा ।
मनसा सो ऽतिभीतस्तु ववन्दे चरणं गुरोः
उवाच च प्रपन्नस्तं प्राञ्जलिर्नयकोविदः ।
क्षमस्व भगवन्सर्वं नापराधः कृतो मया
तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः ।
आत्मानं गर्हयामास ह्यविवेकपरायणम्
अविवेरो हि सर्वेषामापदां परमं पदम् ।
विवेकरहितो लोके पशुरेव न संशयः
राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् ।
विवेकरहितो ऽज्ञो ऽहं यतः पापं समाचरेत्
विवेकनियतो याति यो वा को वापि निर्वृत्तिम् ।
विवेकहीनमान्पोति को वा यो वाप्यनिर्वृतिम्
इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् ।
नात्यन्तिङ्कं भवेदेतद्दादशाब्दं भविष्यति
गङ्गाबिन्दूभिषिक्तस्तु त्यक्त्त्वा वै राक्षसीं तनुम् ।
पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम्
तद्विन्दुसेकसंभूतज्ञानेन गतकल्मषः ॥
हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि
शुभावहम्
इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ ।
राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः
क्षुत्पपासाविशेषार्तो नित्यं क्रोधपरायणः ।
कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने
मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् ।
विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत्
अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः ।
रक्तान्तप्रेतकेशैशअच चित्रासीद्भूर्भयङ्करी
ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् ।
कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत्
तत्रापि कृतवान्नित्यं नरमांसाशनं सदा ।
जगाम नर्मदातीरं मुनिसिद्धनिषेवितम्
विचरन्नर्मदातीरे सर्वलोकभयङ्करः ।
अपश्यत्कञ्चन मुनिं रमन्तं प्रियया सह
क्षुधानलेन संतत्पस्तं मुनिं समुपाद्रवत् ।
जाग्राह चातिवेगेन व्याधो मृगशिशं यथा
ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् ।
शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वाला
ब्राह्मण्युवाच
भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् ।
प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम्
नान्मा मित्रसहस्त्वं हि सूर्यवंशसमुद्भवः ।
न राक्षसस्ततो ऽनाथां पाहि मां विजने वने
या नारी भर्त्तृरहिता जीवत्यपि मृतोपमा ।
तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन
न मातापितरौ जाने नापि बन्धुं च कञ्चन ।
पतिरेव परो बन्धुः परमं जीवनं मम
भवान्येत्त्यखिलान्धर्मान्योषितां वर्त्तनं यथा ।
त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर
कथं जीवामि पत्यास्मिन्हीना हि विजने वने ।
दुहिताहं भगवतस्त्राहि मां पतिदानतः
प्रणदानात्परं दानं न भूतं न भविष्यति ।
वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे
इत्युक्तावा सा पपातास्य राक्षसस्य पदाग्रतः ।
एवं संप्रार्थ्यमानो ऽपि ब्राह्मण्या राक्षसो द्विजम्
अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात्
ततो विलप्य बहुधा तस्य पत्नी पतिव्रता ।
पूर्वशापहतं भूपमशपत्क्रोधिता पुनः
पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् ।
तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम्
शत्वैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ ।
राक्षसत्वं ध्रुवं ते ऽस्तु मत्पतिर्भक्षितो यतः
सो ऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः ।
प्रमन्युः प्राहि विसृजन्कोपादङ्गारसंचयम्
दुष्टे कस्मात्प्रदत्तं मेवृथा शापद्वयं त्वया ।
एकस्यैवापराधस्य शापस्त्वेको ममोचितः
यस्मात्क्षिपसि दुष्टाग्येमयि शापन्तरं ततः ।
पिशाचयोनिमद्यैव याहि पुत्रसमन्विता
तेनैवं ब्रह्मणी शत्पा पिशाचत्वं तदा गता ।
क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता
राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने ।
जग्मतुर्नर्मदातीरे वनं राक्षससेवितम्
औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमा श्रितः ।
तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत्
राक्षसं च पिशाचीं च दृष्ट्वा रववटमागतौ ।
उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः
किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् ।
ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम्
सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् ।
सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह
सौदास उवाच
कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा ।
सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि
करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः ।
स हि पापपालं भुङ्क्ते यातनास्तु युगायुतम्
जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् ।
तस्मान्मित्रेषु मतिमान्न कुर्याद्वंयनं कदा
कल्माषपादेनेत्युक्तो वटस्थो ब्रह्मराक्षसः ।
उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद
ब्रह्मराक्षस उवाच
अहमासं पुरा विप्रो मागधो वेदपारगः ।
सोमदत्त इति ख्यातो नान्मा धर्मपरायणः
प्रमत्तो ऽहं महाभाग विद्यया वयसा धनैः ।
औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम्
नलभे ऽहं सुखं किं चिज्जिताहारो ऽतिदुःखितः ।
मया तु भक्षिता विप्राः शतशो ऽथ सहस्रशः
क्षुत्पिपासापरो नित्यमन्तस्तापेन पीडितः ।
जगत्रासकरो नित्यं मांसाशनपरायणः
गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी ।
मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत्
कल्माषपाद उवाच
गुरुस्तु कीदृशः प्रोक्तः कस्त्वयाश्लाघितः पुरा ।
तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे
ब्रह्मराक्षस उवाच
गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् ।
यातानहं कथयिष्यामि शृणुष्वैकमनाः सरवे
अध्यापकश्च वेदानां वेदार्थयुतिबैधकः ।
शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः
मन्त्रोपदेशव्याख्याख्याकृद्वेदसदंहृत्तथा ।
व्रतोपदेशकश्चैव भयत्रातान्नदो हि च
श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा ।
उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम
एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम्
कल्माषपाद उवाच
गुरवो बहवः प्रोक्ता एतेषां कतमो वरः ।
तुल्याः सर्वे ऽप्युत सरवे तद्यथावद्धि ब्रूहि मे
ब्रह्मराक्षस उवाच
साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते ।
गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम्
सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि सांप्रतम् ।
एते समानपूजार्हाः सर्वदा नात्र संशयः
तथापि श्रुणु वक्ष्यामि शास्त्राणां सारनिश्चयम् ।
अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा
पिता च धर्मवक्ता च विशेषगुरवः स्मृताः एतेषामपि भूपाल शृणुष्व प्रवरं गुरुम् ॥
सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते ।
यः पुराणानि वदति धर्मयुक्तानि पणडितः
संसारपाशविच्छेदकरणानि स उत्तमः ।
देवपूजार्हकर्माणि देवतापूजने फलम्
जायते च पुराणेभ्यस्तस्मात्तानीह देवताः ।
सर्ववेदार्थसाराणि पुराणानीति भूपते
वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः ।
यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः
श्रुणुयात्स पुराणानि इति शास्त्रविभागकृत् ।
प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते
तर्कस्तु वादहेतुः स्यान्नीतिस्त्वैहिकसाधनम् ।
पुराणानि महाबुद्धे इहामुत्र सुखाय हि
यः शृणोति पुराणानि सततं भक्तिसंयुतः ।
तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः
पुराणश्रवणाद्भक्तिर्जायते श्रीपतौ शुभा ।
विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते
धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते ।
धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः
श्रुणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः ।
अहं तु गौतममुनेः सर्वज्ञाद्रूह्यवादिनः
श्रुतवान्सर्वधर्मार्थ गङ्गातीरे मनोरमे ।
कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः
उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् ।
स तु शान्तो महाबुद्धिर्गौन्तमस्तेजसां निधिः
मन्त्रोदितानि कर्मणि करोतीतिमुदं य यौ ।
यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः
गुर्ववज्ञा कृतायेन राक्षसंत्वे नियुक्तवान् ।
ज्ञानतो ऽज्ञानतो वापि यो ऽवज्ञां कुरुते गुरोः
तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः ।
शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः
तस्य संपद्भवेद्भूप इति प्राहुर्विपश्चितः ।
तेन शापेन दग्धो ऽहमन्तश्चैव क्षधाग्निना
मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम ।
एवं वदति विप्रेन्द्र वटस्थे ऽस्मिन्निशाचरे
धर्मशास्त्रप्रसंगेन तयोः पापं क्षयं गतम् ।
एतस्मिन्नन्तरे प्रात्पः कश्चिद्विप्रो ऽतिधार्मिकः
कलिङ्गदेशसंभूतो नान्म्रा गर्ग इति स्मृतः ।
वहन्गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम्
गायन्नामानि तस्यैव मुदा हृष्टतन् रुहः ।
तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ
प्रात्पा नः पारणेत्युक्त्वा प्राद्ववन्नूर्ध्वबाहवः ।
तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः ।
अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः
अहो विप्र महाभाग नमस्तुभ्य महात्मने ।
नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम्
अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रः ।
नामप्रावरणं विप्र रक्षति त्वां महाभययात्
नामश्रवणमात्रेण राक्षसा अपि भो वयम् ।
परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै
सर्वथा त्वं महाभाग रागादिरुहितोह्यसि ।
गङ्गाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात्
हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् ।
स तारयेनगत्सर्वमिति शंसन्ति सूरयः
अवहाय हरेर्नाम घोरसंसारभेषजम् ।
केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा
लोहोडुपेन प्रतरन्निमजत्युदके यथा ।
तयैवाकृतपुण्यास्तु तारयन्ति कथं परान्
अहो चरित्रं महतां सर्वलोकसुखा वहम् ।
यथा हि सर्वलोकानामानन्दाय कलानिधिः
पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम् ।
तानि सर्वाणि गङ्गायाः कणस्यापि समानिन
तुलसीदलप्रदलसंमिश्रमपि सर्षपमात्रकम् ।
गङ्गाजलं पुनात्येव कुलानामेकविंशतिम्
तस्माद्विप्र महाभाग सर्वशास्त्रार्थकोविद ।
गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः
इत्याख्यातं राक्षसैस्तैर्गङ्गामाहात्म्यमुत्तमम् ।
निशम्य विस्मया विष्टो बभूव द्विजसतमः
एषामपीद्दशी भक्तिर्गङ्गायां लोकमातरि ।
किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम्
अथासौ मनसा धर्मं विनिश्चित्य द्रिजोत्तमः ।
सर्वपूतहितो भक्तः प्राप्रोतीति परं पदम्
ततो विप्रः कृपाविष्टो गङ्गाजलप्रनुत्तममम् ।
तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत्
राक्षसास्तेन सिक्तास्तु सर्षपोपमबिन्दुना ।
विमृज्य राक्षसं भावमभवन्देवतोपमाः
ब्राह्मणं सम्यक्ते जग्मुर्हस्तथैव च ।
कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्षभाः
शङ्खचक्रगदाचिह्ना हरिसारुप्यमागताः ।
स्तुवन्तो ब्राह्मणं सम्यक्ते जग्मुर्ह रिमान्दिरम्
राजा कल्माषपादस्तु निजरुपं समास्थितः ।
जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान्
तस्मिन् राज्ञि सुदुःखार्ते गूढरुपा सरस्वती ।
धर्ममूलं महावाक्यं बभाषे ऽगाधया गिरा
भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि ।
राजस्तवापि भागान्ते महच्छ्रेयो भविष्यति
सत्कर्मधूतपापा ये हरिभक्तिपरायणाः ।
प्रयान्ति नात्र संदेहस्तद्विष्णोः परमं पदम्
सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः ।
प्रयान्ति परमं स्थानं गुरुपूजापरायणाः
इतीरितं समाकर्ण्य भारत्या नृपसतमः ।
मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः
स्तुवन्गुरुं च तं विग्नं हरिं चैवातिहर्षितः ।
पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत्
ततो नृपस्तु कालिङ्गं प्रणम्य विधिर्वमुने ।
नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ
षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदानिवम् ।
ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहो ऽभवत्
ततस्तु स्वपुरीं प्रात्पो वसिष्टेन महात्मना ।
अभिषिक्तो मुनुश्रेष्ठ स्वकं राज्यमपालयत्
पालयित्वा महीं कृत्स्त्रां भुक्त्वा भोगान्स्त्रियं विना ।
वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः
नैतच्चित्रं द्विजश्रेष्ठ विष्णोर्वाराणसीगुणान् ।
गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः
तस्मान्माहिम्ने विप्रेन्द्र गङ्गायाः शक्यते नहि ।
पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि
यन्नामस्मरणादेव महापातककोटिभिः ।
विमुक्तो ब्रह्मसदनं नरो याति न संशयः
गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा ।
तदैव पापनिमुक्तो ब्रह्मलोके महीयते
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0