भाषा

ENहिગુ
ग्रंथ पाठ

नामलिङ्गानुशासन · अध्याय 3.3

3.3.314

नानार्थाः के ऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः
। अथ नानार्थवर्गः

3.3.315

भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते

3.3.316

आकाशे त्रिदिवे नाको लोकस् तु भुवने जने

3.3.317

पद्ये यशसि च श्लोकः शरे खड्गे च सायकः

3.3.318

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ

3.3.319

आलोकौ दर्शनद्योतौ भेरीपटकमानकौ

3.3.320

उत्सङ्गचिह्नयोरङ्कः कलङ्को ऽङ्कापवादयोः

3.3.321

तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः

3.3.322

मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरो ऽम्बुनोः

3.3.323

स्यात् पुलाकस् तुच्छधान्ये संक्षेपे भक्तसिक्थके

3.3.324

उलूके करिणः पुच्छमूलोपान्ते च पेचकः

3.3.325

कमण्डलौ च करकः सुगते च विनायकः

3.3.326

किष्कुर् हस्ते वितस्तौ च शूककीटे च वृश्चिकः

3.3.327

प्रतिकूले प्रतीकस् त्रिष्वेकदेशे तु पुंस्ययम्

3.3.328

स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणे ऽपि च

3.3.329

ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले

3.3.330

सिते च खदिरे सोमवल्कः स्यादथ सिह्वके

3.3.331

तिलकल्के च पिण्याको बाह्लीकं रामठे ऽपि च

3.3.332

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः

3.3.333

रुक्तापशङ्कास्वातङ्कः स्वल्पे ऽपि क्षुल्लकस् त्रिषु

3.3.334

जैवातृकः शशाङ्के ऽपि खुरे ऽप्यश्वस्य वर्तकः

3.3.335

व्याघ्रे ऽपि पुण्डरीको ना यवान्यामपि दीपकः

3.3.336

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णे ऽपि गैरिकम्

3.3.337

पीडार्थे ऽपि व्यलीकं स्यादलीकं त्वप्रिये ऽनृते

3.3.338

शीलान्वयावनूके द्वे शल्के शकलवल्कले

3.3.339

साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले

3.3.340

दीनारे ऽपि च निष्को ऽस्त्री कल्को ऽस्त्री शमलैनसोः

3.3.341

दम्भे ऽप्यथ पिनाको ऽस्त्री शूलशङ्करधन्वनोः

3.3.342

धेनुका तु करेण्वां च मेघजाले च कालिका

3.3.343

कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे

3.3.344

करिहस्ते ऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे

3.3.345

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः

3.3.346

स्याद् दाम्भिकः कौक्कुटिको यश् चादूरेरितेक्षणः

3.3.347

ललाटिकः प्रभोर् भालदर्शी कार्याक्षमश्

3.3.348

च यः

3.3.349

भूभृन्नितम्बवलयचक्रेषु कटको ऽस्त्रियाम्

3.3.350

सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः

3.3.351

पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः

3.3.352

पर्यङ्कः स्यात् परिकरे स्याद् व्याग्रे ऽपि च लुब्धकः

3.3.353

पेटकस् त्रिषु वृन्दे ऽपि गुरौ देश्ये च देशिकः

3.3.354

खेटकौ ग्रामफलकौ धीवरे ऽपिच जालिकः

3.3.355

पुष्परेणौ च किञ्जल्कः शुल्को ऽस्त्री स्त्रीधने ऽपि च

3.3.356

स्यात् कल्लोले ऽप्युत्कलिका वार्धकं भाववृन्दयोः

3.3.357

करिण्यां चापि गणिका दारकौ बालभेदकौ

3.3.358

अन्धे ऽप्यनेडमूकः स्यात् टङ्कौ दर्पाश्मदारणौ

3.3.359

मृद्भाण्डे ऽप्युष्ट्रिका मन्थे खजकं रसदर्वके

3.3.360

इति कान्ताः

3.3.361

मयूखस् त्विट्करज्वालास्वलिबाणौ शिलीमुखौ

3.3.362

शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रिये ऽपि खम्

3.3.363

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ

3.3.364

इति खान्ताः

3.3.365

आशुगौ वायुविशिखौ शरार्कविहगाः खगाः

3.3.366

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः

3.3.367

पशवो ऽपि मृगा वेगः प्रवाहजवयोरपि

3.3.368

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि

3.3.369

गजे ऽपि नागमातङ्गावपाङ्गस् तिलके ऽपि च

3.3.370

सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु

3.3.371

योगः संनहनोपायध्यानसंगतियुक्तिषु

3.3.372

भोगः सुखे स्त्र्यादिभृतावहेश् च फणकाययोः

3.3.373

चातके हरिणे पुंसि सारङ्गः शवले त्रिषु

3.3.374

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे

3.3.375

यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु

3.3.376

स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले

3.3.377

लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर् लिङ्गं चिह्न शेफसोः

3.3.378

शृङ्गं प्राधान्यसान्वोश् च वराङ्गं मूर्धगुह्ययोः

3.3.379

भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु

3.3.380

इति गान्ताः

3.3.381

परिघः परिघाते ऽस्त्रे ऽप्योघो वृन्दे ऽम्भसां रये

3.3.382

मूल्ये पूजाविधावर्घो ऽहोदुःखव्यसनेष्वघम्

3.3.383

त्रिष्विष्टे ऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः

3.3.384

इति घान्ताः

3.3.385

विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः

3.3.386

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु

3.3.387

अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्

3.3.388

इति चान्ताः

3.3.389

प्रसन्ने भल्लुके ऽप्यच्छो गुच्छः स्तबक हारयोः

3.3.390

परिधानाञ्चले कच्छो जलप्रान्ते त्रि लिङ्गकः

3.3.391

इति क्षेपकच्छान्ताः

3.3.392

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः

3.3.393

अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः

3.3.394

धर्मराजौ जिनयमौ कुञ्जो दन्ते ऽपि न स्त्रियाम्

3.3.395

वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना

3.3.396

समे क्ष्मांशे रणे ऽप्याजिः प्रजा स्यात् संततौ जने

3.3.397

अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु

3.3.398

इति जान्ताः

3.3.399

पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः

3.3.400

संज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थसूचना

3.3.401

दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान् सोमजो ऽपि च

3.3.402

इति ञान्ताः

3.3.403

काकेभगण्डौ करटौ गजगण्डकटी कटौ

3.3.404

शिपिविष्टस् तु खलतौ दुश्चर्मणि महेश्वरे

3.3.405

देवशिल्पिन्यपि त्वष्टा दिष्टं दैवे ऽपि न द्वयोः

3.3.406

रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः

3.3.407

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे

3.3.408

मायानिश्चलयन्त्रेषु कैतवानृतराशिषु

3.3.409

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्

3.3.410

सूक्ष्मैलायां त्रुटिः स्त्री स्यात् काले ऽल्पे संशये ऽपि सा

3.3.411

अत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा

3.3.412

व्युष्टिः फले समृद्धौ च दृष्टिर् ज्ञाने ऽक्ष्णि दर्शने

3.3.413

इष्टिर् योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु (ऽबहूनिऽ?)

3.3.414

कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु

3.3.415

पटुर् द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवे ऽपि च

3.3.416

पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ

3.3.417

घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले

3.3.418

इति टान्ताः

3.3.419

पुंसि कोष्ठो ऽन्तर्जठरं कुसूलो ऽन्तर्गृहं तथा

3.3.420

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि

3.3.421

त्रिषु ज्येष्ठो ऽतिशस्ते ऽपि कनिष्ठो ऽतियुवाल्पयोः

3.3.422

इति ठान्ताः

3.3.423

दण्डो ऽस्त्री लगुडे ऽपि स्याद् गुडो गोलेक्षुपाकयोः

3.3.424

सर्प मांसात्पशू व्याडौ गोभूवाचस् त्विडा इलाः

3.3.425

क्ष्वेडवंशशलाकापि नाडी काले ऽपि षट्क्षणे

3.3.426

काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु

3.3.427

स्याद् भाण्डमश्वाभरणे ऽमत्रे मूलवणिग्धने

3.3.428

इति डान्ताः

3.3.429

भृशप्रतिज्ञयोर् बाढं प्रगाढं भृशकृच्छ्रयोः

3.3.430

संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे

3.3.431

गण्डौ कपोलविस्फोटौ मुण्डकस् त्रिषु मुण्डिते

3.3.432

इक्षुभेदे ऽपि खण्डो ऽस्त्री शिखण्डो बर्हचूडयोः

3.3.433

शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ

3.3.434

इति ढान्ताः

3.3.435

भ्रूणो ऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे

3.3.436

कणो ऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः

3.3.437

पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च

3.3.438

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः

3.3.439

निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः

3.3.440

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे

3.3.441

अरुणो भास्करे ऽपि स्याद् वर्णभेदे ऽपि च त्रिषु

3.3.442

स्थाणुः शर्वो ऽप्यथ द्रोणः काके ऽप्याजौ रवे रणः

3.3.443

ग्रामणीर् नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु

3.3.444

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः

3.3.445

हरिणी स्यान् मृगी हेमप्रतिमा हरिता च या

3.3.446

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भे ऽपि वेश्मनः

3.3.447

त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे

3.3.448

वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी

3.3.449

करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्

3.3.450

शरणं गृहरक्षित्रोः श्रीपर्णं कमले ऽपि च

3.3.451

विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु

3.3.452

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु

3.3.453

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि

3.3.454

प्राण्युत्पादे संसरणमसंबाधचमूगतौ

3.3.455

घण्टापथे ऽथ वान्तान्ने समुद्गिरणमुन्नये

3.3.456

अतस् त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः

3.3.457

प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे

3.3.458

संकीर्णौ निचिताशुद्धा विरिणं शून्यमूषरम्

3.3.459

सेतौ च चरणो वेणी नदीभेदे कचोच्चये

3.3.460

इति णान्ताः

3.3.461

देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ

3.3.462

पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ

3.3.463

अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ

3.3.464

हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ

3.3.465

यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि

3.3.466

यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते

3.3.467

ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः

3.3.468

स्थपतिः कारुभेदे ऽपि भूभृद् भूमिधरे नृपे

3.3.469

मूर्धाभिषिक्तो भूपे ऽपि ऋतुः स्त्री कुसुमे ऽपि च

3.3.470

विष्णावप्यजिताव्यक्तौ सूतस् त्वष्टरि सारथौ

3.3.471

व्यक्तः प्राज्ञे ऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने

3.3.472

क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे

3.3.473

वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः

3.3.474

आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः

3.3.475

कृतान्तो यम सिद्धान्त दैवाकुशलकर्मसु

3.3.476

श्लेष्मादि रस रक्तादि महा भूतानि तद् गुणाः

3.3.477

इन्द्रियाण्यश्म विकृतिः शब्दयोनिश् च धातवः

3.3.478

कक्षान्तरे ऽपि शुद्धान्तो भूपस्यासर्व गोचरे

3.3.479

कासू सामर्थ्ययोः शक्तिर् मूर्तिः काठिन्यकाययोः ॥

3.3.480

विस्तार वल्लयोर् व्रततिर् वसती रात्रिवेश्मनोः

3.3.481

क्षयार्चयोरपचितिः सातिर् दानावसानयोः ॥

3.3.482

आर्तिः पीडा धनुष्कोट्योर् जातिः सामान्यजन्मनोः

3.3.483

प्रचार स्यन्दयो रीतिरीतिर् डिम्ब प्रवासयोः

3.3.484

उदये ऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे

3.3.485

वीणाभेदे ऽपि महती भूतिर् भस्मनि सम्पदि

3.3.486

नदी नगर्योर् नागानां भोगवत्यथ संगरे

3.3.487

संगे सभायां समितिः क्षयवासावपि क्षिती

3.3.488

रवेरर्चिश् च शस्त्रं च वह्निज्वाला च हेतयः

3.3.489

जगती जगति छन्दोविशेषो ऽपि क्षितावपि

3.3.490

पङ्क्तिश् छन्दो ऽपि दशमं स्यात् प्रभावे ऽपि चायतिः

3.3.491

पत्तिर् गतौ च मूले तु पक्षतिः पक्षभेदयोः

3.3.492

प्रकृतिर् योनिलिङ्गे च कैशिक्याद्याश् च वृत्तयः

3.3.493

सिकताः स्युर् वालुकापि वेदे श्रवसि च श्रुतिः

3.3.494

वनिता जनितात्यर्थानुरागायां च योषिति

3.3.495

गुप्तिः क्षितिव्युदासे ऽपि धृतिर् धारणधैर्ययोः

3.3.496

बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि

3.3.497

वासिता स्त्री करिण्योश् च वार्ता वृत्तौ जनश्रुतौ

3.3.498

वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते

3.3.499

कलधौतं रूप्यहेम्नोर् निमित्तम् हेतुलक्ष्मणोः

3.3.500

श्रुतं शास्त्रावधृतयोर् युगपर्याप्तयोः कृतम्

3.3.501

अत्याहितं महाभीतिः कर्म जीवानपेक्षि च

3.3.502

युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु

3.3.503

वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले

3.3.504

महद् राज्यं चावगीतं जन्ये स्याद् गर्हिते त्रिषु

3.3.505

श्वेतं रूप्ये ऽपि रजतं हेम्नि रूप्ये सिते त्रिषु

3.3.506

त्रिष्वितो जगदिङ्गे ऽपि रक्तं नील्यादि रागि च

3.3.507

अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ

3.3.508

युक्ते ऽति संस्कृते ऽमर्षिण्यभिनीतो ऽथ संस्कृतम्

3.3.509

कृत्रिमे लक्षणोपेते ऽप्यनन्तो ऽनवधावपि

3.3.510

ख्याते हृष्टे प्रतीतो ऽभिजातस् तु कुलजे बुधे

3.3.511

विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ

3.3.512

द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ

3.3.513

सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत्

3.3.514

पुरस्कृतः पूजिते ऽरात्यभियुक्ते ऽग्रतः कृते

3.3.515

निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्

3.3.516

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास् त्वमी

3.3.517

वृद्धिमत् प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ

3.3.518

समूहोत्पन्नयोर् जातमहिजिच् छ्रीपतीन्द्रयोः

3.3.519

सौप्तिके ऽपि प्रपातो ऽथावपातावतटावटौ

3.3.520

समित् सङ्गे रणे ऽपि स्त्री व्यवस्थायामपि स्थितिः

3.3.521

अर्थो ऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु

3.3.522

निपानागमयोस् तीर्थमृषि जुष्टे जले गुरौ

3.3.523

समर्थस् त्रिषु शक्तिस्थे संबद्धार्थे हिते ऽपि च

3.3.524

दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि

3.3.525

आस्थानी यत्नयोरास्था प्रस्थो ऽस्त्री सानु मानयोः

3.3.526

शास्त्र द्रविणयोर् ग्रन्थः संस्थाधारे स्थितौ मृतौ

3.3.527

इति थान्ताः

3.3.528

अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ

3.3.529

अपवादौ तु निन्दाज्ञे दायादौ सुत बान्धवौ

3.3.530

पादा रश्म्यङ्घ्रि तुर्यांशाश् चन्द्राग्न्यर्कास् तमोनुदः

3.3.531

निर्वादो जनवादे ऽपि शादो जम्बाल शष्पयोः

3.3.532

आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे

3.3.533

स्यात् प्रसादो ऽनुरगे ऽपि सूदः स्याद् व्यञ्जने ऽपि च

3.3.534

गोष्ठाध्यक्षे ऽपि गोविन्दो हर्षे ऽप्यामोदवन् मदः

3.3.535

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदो ऽस्त्रियाम्

3.3.536

स्त्री संविज्ज्ञान संभाषा क्रियाकाराजि नामसु

3.3.537

धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत्

3.3.538

पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु

3.3.539

गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम्

3.3.540

त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ

3.3.541

मूढाल्पापटु निर्भाग्या मन्दाः स्युर् द्वौ तु शारदौ

3.3.542

प्रत्यग्राप्रतिभौ विद्वत् सुप्रगल्भौ विशारदौ

3.3.543

इति दान्ताः

3.3.544

व्यामो वटश् च न्यग्रोधावुत्सेधः काय उन्नतिः

3.3.545

पर्याहारश् च मार्गश्,ह् च विवधौ वीवधौ च तौ

3.3.546

परिधिर् यज्ञिय तरोः शाखायामुपसूर्यके

3.3.547

बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः

3.3.548

स्युः समर्थन नीवाक नियमाश् च समाधयः

3.3.549

दोषोत्पादे ऽनुबन्धः स्यात् प्रकृतस्यादि विनश्वरे

3.3.550

मुख्यानुयायिनि शिशौ प्रकृत्यानुवर्तने

3.3.551

विधुर् विष्णौ चन्द्रमसि परिच्छेदे बिले ऽवधिः

3.3.552

विधिर् विधाने दैवे ऽपि प्रणिधिः प्रार्थने चरे

3.3.553

बुध वृद्धौ पण्डिते ऽपि स्कन्धः समुदये ऽपि च

3.3.554

देशे नद विशेषे ऽब्धौ सिन्धुर् ना सरिति स्त्रियाम्

3.3.555

विधा विधौ प्रकारे च साधू रम्ये ऽपि च त्रिषु

3.3.556

वधूर् जाया स्नुषा स्त्री च सुधा लेपो ऽमृतं स्नुही

3.3.557

सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा

3.3.558

मधु मद्ये पुष्परसे क्षौद्रे ऽप्यन्धं तमस्यपि

3.3.559

अतस् त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ

3.3.560

ब्रह्मबन्धुरधिक्षेपे निर्देशे ऽथावलम्बितः

3.3.561

अविदूरो ऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ

3.3.562

लेशे ऽपि गन्धः संबाधो गुह्यसंकुलयोरपि

3.3.563

बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः
। इति धान्ताः

3.3.564

सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ

3.3.565

भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ

3.3.566

ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ

3.3.567

तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ

3.3.568

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ

3.3.569

द्वौ सारथि हयारोहौ वाजिनो ऽश्वेषु पक्षिणः

3.3.570

कुले ऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः

3.3.571

वर्षार्चिर् व्रीहिभेदाश् च चन्द्राग्न्यर्का विरोचनाः

3.3.572

केशे ऽपि वृजिनो विश्वकर्मार्क सुरशिल्पिनोः

3.3.573

आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म वर्ष्म च

3.3.574

शक्रो घातुक मत्तेभो वर्षुकाब्दो घनाघनः

3.3.575

अभिमानो ऽर्थादि दर्पे ज्ञाने प्रणय हिंसयोः

3.3.576

घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे

3.3.577

इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे

3.3.578

वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी

3.3.579

ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी

3.3.580

त्वग् देहयोरपि तनुः सूनाधो जिह्विकापि च

3.3.581

क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके

3.3.582

मन्दे ऽथ केतनं कृत्ये केतावुपनिमन्त्रणे

3.3.583

वेदस् तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः

3.3.584

उत्साहने च हिंसायां सूचने चापि गन्धनम्

3.3.585

आतञ्चनं प्रतीवाप जवनाप्यायनार्थकम्

3.3.586

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि

3.3.587

स्यात् कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्

3.3.588

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने

3.3.589

अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्

3.3.590

व्युत्थानं प्रतिरोधे च विरोधाचरणे ऽपि च

3.3.591

उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमे ऽपि च

3.3.592

मारणे मृतसंस्कारे गतौ द्रव्ये ऽर्थ दापने

3.3.593

निर्वर्तनोपकरणानुव्रज्यासु च साधनम्

3.3.594

निर्यातनं वैर शुद्धौ दाने न्यासार्पणे ऽपि च

3.3.595

व्यसनं विपदि भ्रंशे दोषे कामजकोपजे

3.3.596

पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शे ऽप्यणीयसि

3.3.597

तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदे ऽध्वनि

3.3.598

अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते

3.3.599

प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः

3.3.600

प्रसूनं पुष्पफलयोर् निधनं कुलनाशयोः

3.3.601

क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः

3.3.602

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे

3.3.603

संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः

3.3.604

आच्छादने संविधानमपवारणमित्युभे

3.3.605

आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च

3.3.606

अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि

3.3.607

रत्नं स्वजातिश्रेष्ठे ऽपि वने सलिलकानने

3.3.608

तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे

3.3.609

समानाः सत्समैके स्युः पिशुनौ खलसूचकौ

3.3.610

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ

3.3.611

अभिपन्नो ऽपराद्धो ऽभिग्रस्तव्यापद्गतावपि
। इति नान्ताः

3.3.612

कलापो भूषणे बर्हे तूणीरे संहतावपि

3.3.613

परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ

3.3.614

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी

3.3.615

बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्

3.3.616

तल्पं शय्याट्टदारेषु स्तम्बे ऽपि विटपो ऽस्त्रियाम्

3.3.617

प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः

3.3.618

भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी

3.3.619

कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमें ऽशके
। इति पान्ताः

3.3.620

शिफा शिखायां सरिति मांसिकायां च मातरि

3.3.621

शफं मूले तरूणां स्याद्गवादीनां खुरे ऽपि च

3.3.622

गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः

3.3.623

रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः
। इति फान्ताः

3.3.624

अन्तराभवसत्वे ऽश्वे गन्धर्वो दिव्यगायने

3.3.625

कम्बुर् ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ

3.3.626

पूर्वो ऽन्यलिङ्गः प्रागाह पुमूबहुत्वे ऽपि पूर्वजान्

3.3.627

चित्रपुङ्खे ऽपि कादम्बो नितम्बो ऽद्रितटे कटौ

3.3.628

दर्वी फणापि बिम्बो ऽस्त्री मण्डले ऽपि च
। इति बान्ताः

3.3.629

कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ

3.3.630

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ

3.3.631

कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणये ऽपि च

3.3.632

स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्

3.3.633

स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्

3.3.634

क्षत्रिये ऽपि च नाभिर् ना सुरभिर् गवि च स्त्रियाम्

3.3.635

सभा संसदि सभ्ये च त्रिष्वध्यक्षे ऽपि वल्लभः
। इति भान्ताः

3.3.636

किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ

3.3.637

इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ

3.3.638

धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः

3.3.639

उपायपूर्व आरम्भ उपधा चाप्युपक्रमः

3.3.640

वणिक्पथः पुरं वेदो निगमा नागरो वणिक्

3.3.641

नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु

3.3.642

शब्दादिपूर्वो वृन्दे ऽपि ग्रामः क्रान्तौ च विक्रमः

3.3.643

स्तोमः स्तोत्रे ऽध्वरे वृन्दे जिह्वास्तु कुतिले ऽलसे

3.3.644

उष्णे ऽपि घर्मश् चेष्टालङ्कारे भ्रान्तौ च विभ्रमः

3.3.645

गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः

3.3.646

क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु

3.3.647

त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा

3.3.648

ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु

3.3.649

सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु

3.3.650

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ

3.3.651

जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्
। इति गान्ताः

3.3.652

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ

3.3.653

श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ

3.3.654

पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः

3.3.655

तिष्यः पुष्ये कलियुगे पर्यायो ऽवसरे क्रमे

3.3.656

प्रत्ययो ऽधीन शपथज्ञानविश्वासहेतुषु

3.3.657

रन्ध्रे शब्दे ऽथानुशयो दीर्घद्वेषानुतापयोः

3.3.658

स्थूलोच्चयस् त्वसाकल्ये नागानां मध्यमे गते

3.3.659

समयाः शपथाचारकालसिद्धान्तसंविदः

3.3.660

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः

3.3.661

अत्ययो ऽतिक्रमे कृच्छ्रे दोषे दण्डे ऽप्यथापदि

3.3.662

युद्धायत्योः संपरायः पूज्यस्तु श्वशुरे ऽपि च

3.3.663

पस्चादवस्थायि बलं समवायश्च सन्नयौ

3.3.664

संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी

3.3.665

विस्रम्भयाञ्चाप्रेमाणो विरोधे ऽपि समुच्छ्रयः

3.3.666

विषयो यस्य यो ज्ञातस् तत्र शब्दादिकेष्वपि

3.3.667

निर्यासे ऽपि कषायो स्त्री सभायां च प्रतिश्रयः

3.3.668

प्रायो भूम्न्यन्तगमने मन्युर् दैन्ये क्रतौ क्रुधि

3.3.669

रहस्योपस्थयोर् गुह्यं सत्यं शपथतथ्ययोः

3.3.670

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये

3.3.671

धिष्ण्यं स्थाने गृहे भे ऽग्नौ भाग्यं कर्म शुभाशुभम्

3.3.672

कशेरु हेम्नोर् गाङ्गेयं विशल्या दन्तिकापि च

3.3.673

वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः

3.3.674

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्

3.3.675

उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः

3.3.676

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः

3.3.677

कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने

3.3.678

कृत्या क्रियादेवतयोस् त्रिषु भेद्ये धनादिभिः

3.3.679

जन्यः स्याज्जनवादे ऽपि जघन्यो ऽन्त्ये ऽधमे ऽपि च

3.3.680

गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ

3.3.681

आत्मवाननपेतो ऽर्थादर्थ्यौ पुण्यं तु चार्वपि

3.3.682

रूप्यं प्रशस्तरूपे ऽपि वदान्यो वल्गुवागपि

3.3.683

न्याय्ये ऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते
। इति यान्ताः

3.3.684

निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ

3.3.685

गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ

3.3.686

प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती

3.3.687

किंशारू धान्यशूकेषु मरू धन्वधराधरौ

3.3.688

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ

3.3.689

ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः

3.3.690

प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि

3.3.691

अजातशृङ्गो गौः काले ऽप्यश्मश्रुर्ना च तूबरौ

3.3.692

स्वर्णे ऽपि राः परिकरः पर्यङ्कपरिवारयोः

3.3.693

मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु

3.3.694

कर्बुरे ऽथ प्रतिज्ञाजिसंविदापत्सु संगरः

3.3.695

वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि

3.3.696

मखेषु यूपखण्डे ऽपि स्वरुर्गुह्ये ऽप्यवस्करः

3.3.697

आडम्बरस् तूर्यरवे गजेन्द्राणां च गर्जिते

3.3.698

अभिहारो ऽभियोगे च चौर्ये संनहने ऽपि च

3.3.699

स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे

3.3.700

विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्

3.3.701

द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे

3.3.702

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु

3.3.703

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु

3.3.704

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्

3.3.705

महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्

3.3.706

मत्सरो ऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु

3.3.707

देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये

3.3.708

वंशाङ्कुरे करीरो ऽस्त्री तरुभेदे घटे च ना

3.3.709

ना चमूजघने हस्तसूत्रे प्रतिसरो ऽस्त्रियाम्

3.3.710

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु

3.3.711

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु

3.3.712

शर्करा कर्परांशे ऽपि यात्रा स्याद्यापने गतौ

3.3.713

इरा भूवाक्सुराप्सुस्यात् तन्द्री निद्राप्रमीलयोः

3.3.714

धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि

3.3.715

क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका

3.3.716

त्रिषु क्रूरे ऽधमे ऽल्पे ऽपि क्षुद्रं मात्रा परिच्छदे

3.3.717

अल्पे च परिमाणे सा मात्रं कार्त्स्न्ये ऽवधारणे

3.3.718

आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः

3.3.719

योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः

3.3.720

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः

3.3.721

स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः

3.3.722

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च

3.3.723

सत्रमाच्छादने यज्ञे सदादाने वने ऽपि च

3.3.724

अजिरं विषये काये ऽप्यंबरं व्योम्नि वाससि

3.3.725

चक्रं राष्ट्रे ऽप्यक्षरं तु मोक्षे ऽपि क्षीरमप्सु च

3.3.726

स्वर्णे ऽपि भूरिचन्द्रौ द्वौ द्वारमात्रे ऽपि गोपुरम्

3.3.727

गुहादम्भौ गह्वरे द्वे रहो ऽन्तिकमुपह्वरे

3.3.728

पुरो ऽधिकमुपर्यग्राण्यगारे नगरे पुरम्

3.3.729

मन्दिरं चाथ राष्ट्रो ऽस्त्री विषये स्यादुपद्रवे

3.3.730

दरो ऽस्त्रियां भये श्वभ्रे वज्रो ऽस्त्री हीरके पवौ

3.3.731

तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे

3.3.732

औशीरश्चामरे दण्डे ऽप्यौशीरं शयनासने

3.3.733

पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले

3.3.734

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः

3.3.735

अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये

3.3.736

छिद्रात्मीयविनाबहिरवसरमध्ये ऽन्तरात्मनि च

3.3.737

मुस्ते ऽपि पिठरं राजकशेरुण्यपि नागरम्

3.3.738

शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्

3.3.739

गौरो ऽरुणे सिते पीते व्रणकार्यप्यरुष्करः

3.3.740

जठरः कठिने ऽपि स्यादधस्तादपि चाधरः

3.3.741

अनाकुले ऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले

3.3.742

उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः

3.3.743

एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः

3.3.744

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ

3.3.745

उदारौ दातृमहतोरितरस्त्वन्यनीचयोः

3.3.746

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः

3.3.747

आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा

3.3.748

धाराम्बुपाते चोत्कर्षे ऽस्त्रौ कटाहे तु कर्परः

3.3.749

बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः

3.3.750

चरुः स्थाल्यां हविः पक्तावधीरः कातरे चले
। इति रान्ताः

3.3.751

चूडा किरीटम् केशाश्च संयता मौलयस्त्रयः

3.3.752

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः

3.3.753

कृतान्तानेहसोः कालश्चतुर्थे ऽपि युगे कलिः

3.3.754

स्यात्कुरङ्गे ऽपि कमलः प्रावारे ऽपि च कम्बलः

3.3.755

करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्

3.3.756

स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः

3.3.757

वातूलः पुंसि वात्यायामपि वातासहे त्रिषु

3.3.758

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः

3.3.759

मलो ऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्

3.3.760

शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु

3.3.761

कला शिल्पे कालभेदे चाली सख्यावली अपि

3.3.762

अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि

3.3.763

बहुलाः कृत्तिका गावो बहुलो ऽग्नौ शितौ त्रिषु

3.3.764

लीला विलासक्रिययोरुपला शर्करापि च

3.3.765

शोणिते ऽम्भसि कीलालं मूलमाद्ये शिफाभयोः

3.3.766

जालं समूह आनायगवाक्षक्षारकेष्वपि

3.3.767

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्

3.3.768

छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना

3.3.769

अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्

3.3.770

और्वानले ऽपि पातालं चैलं वस्त्रे ऽधमे त्रिषु

3.3.771

कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले

3.3.772

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः

3.3.773

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु

3.3.774

प्रवालमङ्कुरे ऽप्यस्त्री त्रिषु स्थूलं जडे ऽपि च

3.3.775

करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः

3.3.776

मूर्खे ऽर्भके ऽपि बालः स्याल्लोलश्चलसतृष्णयोः

3.3.777

कुलं गृहे ऽपि तालाङ्के कुबेरे चैककुण्डलः

3.3.778

स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः

3.3.779

हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्

3.3.780

तूलिश्चित्रोपकरणशलाकातूलशय्ययोः

3.3.781

तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि
। इति लान्ताः

3.3.782

दवदावौ वनारण्यवह्नी जन्महरौ भवौ

3.3.783

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः

3.3.784

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः

3.3.785

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु

3.3.786

स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने

3.3.787

अविश्वासे ऽपह्नवे ऽपि निकृतावपि निह्नवः

3.3.788

उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः

3.3.789

अनुभावः प्रभावे च सतां च मतिनिश्चये

3.3.790

स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये

3.3.791

शूद्रायां विप्रतनये शस्त्रे पारशवो मतः

3.3.792

ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु

3.3.793

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वो ऽस्त्रियां धने

3.3.794

स्त्रीकटीवस्त्रबन्धे ऽपि नीवी परिपणे ऽपि च

3.3.795

शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः

3.3.796

द्रव्यासु व्यवसाये ऽपि सत्त्वमस्त्री तु जन्तुषु

3.3.797

क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे
। इति वान्ताः

3.3.798

द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ

3.3.799

द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ

3.3.800

रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः

3.3.801

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु

3.3.802

पदे लक्ष्ये निमित्ते ऽपदेशः स्यात्कुशमप्सु च

3.3.803

दशावस्थानेकविधाप्याशा तृष्णापि चायता

3.3.804

वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु

3.3.805

स्यात्कर्कशः साहसिकः कठोरामसृणावपि

3.3.806

प्रकाशो ऽतिप्रसिद्धे ऽपि शिशावज्ञे च बालिशः

3.3.807

नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे

3.3.808

नृशंसखड्गौ निस्त्रिंशावंशुः सूर्ये ऽंशवः कराः

3.3.809

आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः
। इति शान्ताः

3.3.810

सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ

3.3.811

काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ

3.3.812

अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने

3.3.813

पक्षः सहाये ऽप्युष्णीषः शिरोवेष्टकिरीटयोः

3.3.814

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः

3.3.815

कोषो ऽस्त्री कुड्मले खड्गपिधाने ऽर्थौघदिव्ययोः

3.3.816

द्यूते ऽक्षे शारिफलके ऽप्याकर्षो ऽथाक्षमिन्द्रिये

3.3.817

ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे

3.3.818

कर्षूर्वार्त्ता करीषाग्निः कर्षः कुल्याभिधायिनी

3.3.819

पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च

3.3.820

उपादाने ऽप्यामिषं स्यादपराधे ऽपि किल्बिषम्

3.3.821

स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्

3.3.822

प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः

3.3.823

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः

3.3.824

प्रत्यक्षे ऽधिकृते ऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे

3.3.825

व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ

3.3.826

कपिशीर्षं भित्तिशृङ्गे ऽनुतर्षश् चषकः सुरा

3.3.827

दोषो वातादिके दोषा रात्रौ दक्षो ऽपि कुक्कुटे

3.3.828

शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे
। इति षान्ताः

3.3.829

रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू

3.3.830

वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः

3.3.831

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः

3.3.832

पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे ऽपि शेखरे

3.3.833

देवभेदे ऽनले रश्मौ वसू रत्ने धने वसु

3.3.834

विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः

3.3.835

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च

3.3.836

प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते

3.3.837

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु

3.3.838

पापापराधयोरागः खगबाल्यादिनोर्वयः

3.3.839

तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः

3.3.840

रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः

3.3.841

छन्दः पद्ये ऽभिलाषे च तपः कृच्छ्रादिकर्म च

3.3.842

सहो बलं सहा मार्गो नभः खं श्रावणो नभाः

3.3.843

ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयो ऽंबु च

3.3.844

ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये

3.3.845

तेजः प्रभावे दीप्तौ च बले शुक्रे ऽप्यतस्त्रिषु

3.3.846

विद्वान् विदंश्च बीभत्सो हिंस्रो ऽप्यतिशयेत्वमी

3.3.847

वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाल्पयोः

3.3.848

वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः
। इति सान्ताः

3.3.849

दले ऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः

3.3.850

द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके

3.3.851

तुलासूत्रे ऽश्वादिरश्मौ प्रग्राहः प्रग्रहो ऽपि च

3.3.852

पत्नीपरिजनादानमूलशापाः परिग्रहाः

3.3.853

दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः

3.3.854

व्यूहो वृन्दे ऽप्यहिर्वृत्रे ऽप्यग्नीन्द्वर्कास्तमोपहाः

3.3.855

परिच्छदे नृपार्हे ऽर्थे परिबर्हो ऽव्ययाः परे
। इति हान्ताः

3.3.856

आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे

3.3.857

आप्रगृह्यस्स्मृतौ वाक्ये ऽप्यास्तु स्यात्कोपपीडयोः

3.3.858

पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः

3.3.859

चान्वाचयसमाहारेतरेतरसमुच्चये

3.3.860

स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घने ऽप्यति

3.3.861

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदे ऽवधारणे

3.3.862

सकृत् सहैकवारे चाप्याराद्दूरसमीपयोः

3.3.863

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः

3.3.864

पुनस्सहार्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः

3.3.865

खेदानुकम्पासंतोषविस्मयामन्त्रणे बत

3.3.866

हन्त हर्षेनुकम्पायां वाक्यारम्भविषादयोः

3.3.867

प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः

3.3.868

इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु

3.3.869

प्राच्यां पुरस्तात्प्रथमे पुरार्थे ऽग्रत इत्यपि

3.3.870

यावत्तावच्च साकल्ये ऽवधौ माने ऽवधारणे

3.3.871

मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ

3.3.872

वृथा निरर्थकाविध्योर् नानानेकोभयार्थयोः

3.3.873

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु

3.3.874

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु

3.3.875

गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि

3.3.876

उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते

3.3.877

अमा सह समीपे च कं वारिणि च मूर्धनि

3.3.878

इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश्चये

3.3.879

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने

3.3.880

नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने

3.3.881

अलं भूषणपर्याप्तिशक्तिवारणवाचकम्

3.3.882

हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः

3.3.883

पुनरप्रथमे भेदे निर् निश्चयनिषेधयोः

3.3.884

स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा

3.3.885

ऊरर्यूरी चोररी च विस्तारे ऽङ्गीकृतौ त्रयम्

3.3.886

स्वर्गे परे च लोके स्वर् वार्तासंभाव्ययोः किल

3.3.887

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु

3.3.888

समीपोभयतश्शीघ्रसाकल्याभिमुखे ऽभितः

3.3.889

नामप्राकाश्ययोः प्रदुर् मिथो ऽन्योन्यं रहस्यपि

3.3.890

तिरो ऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु

3.3.891

अहहेत्यद्भुते खेदे हि हेताववधारणे
। इति नानार्थवर्गः 3, अत्र मूलश्लोकाः 256॥
क्षे.श्लो. 24 ॥
अव्ययवर्गः।

मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc