नामलिङ्गानुशासन · अध्याय 3.2
प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत्
। अथ संकीर्णवर्गः
कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः
साकल्यासंगवचने पारायणपरायणे
यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम्
शमथस् तु शमः शान्तिर् दान्तिस् तु दमथो दमः
अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्
वशक्रिया संवननं मूलकर्म तु कार्मणम्
विधूननं विधुवनं तर्पणं प्रीणनावनम्
पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि
सेवनं सीवनं स्यूतिर् विदरः स्फुटनं भिदा
आक्रोशनमभीषङ्गः संवेदो वेदना न ना
संमूर्च्छनमभिव्याप्तिर् याञ्चा भिक्षार्थनार्दना
वर्धनं छेदने ऽथ द्वे आनन्दनसभाजने
आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस् त्राणे रणः कणे
व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ
ओषः प्लोषे नयो नाये ज्यानिर् जीर्णौ भ्रमो भ्रमौ
स्फातिर् वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे
एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा
प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे
उत्कर्षो ऽतिशये सन्धिः श्लेषे विषय आश्रये
क्षिपायां क्षेपणं गीर्णिर् गिरौ गुरणमुद्यमे
उन्नाय उन्नये श्रायः श्रयणे जयने जयः
निगादो निगदे मादो मद उद्वेग उद्भ्रमे
विमर्दनं परिमलो ऽभ्युपपत्तिरनुग्रहः
निग्रहस् तद्विरुद्धः स्यादभियोगस् त्वभिग्रहः
मुष्टिबन्धस् तु संग्राहो डिम्बे डमरविप्लवौ
बन्धनं प्रसितिश् चारः स्पर्शः स्प्रष्टोपतप्तरि
निकारो विप्रकारः स्यादाकारस् त्विङ्ग इङ्गितम्
परिणामो विकारे द्वे समे विकृतिविक्रिये
अपहारस् त्वपचयः समाहारः समुच्चयः
प्रत्याहार उपादानं विहारस् तु परिक्रमः
अभिहारो ऽभिग्रहणं निहारो ऽभ्यवकर्षणम्
अनुहारो ऽनुकारः स्यादर्थस्यापगमे व्ययः
प्रवाहस् तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः
वियामो वियमो यामो यमः संयामसंयमौ
हिम्साकर्माभिचारः स्याज् जागर्या जांगरा द्वयोः
विघ्नो ऽन्तरायः प्रत्यूहः स्यादुपघ्नो ऽन्तिकाश्रये
निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया
विधुरं तु प्रविश्लेषे ऽभिप्रायश् छन्द आशयः
संक्षेपणं समसनं पर्यवस्था विरोधनम्
परिसर्या परीसारः स्यादास्या त्वासना स्थितिः
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः
संवाहनं मर्दनं स्याद् विनाशः स्याददर्शनम्
संस्तवः स्यात् परिचयः प्रसरस् तु विसर्पणम्
नीवाकस् तु प्रयामः स्यात् संनिधिः संनिकर्षणम्
लवो ऽभिलाषो लवने निष्पावः पवने पवः
प्रस्तावः स्यादपसरस् त्रसरः सूत्रवेष्टनम्
प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ
धीशक्तिर् निष्क्रमो ऽस्त्री तु संक्रमो दुर्गसंचरः
प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः
स्यादभ्यादानमुद्धात आरम्भः संभ्रमस् त्वरा
प्रतिबन्धः प्रविष्टम्भो ऽवनायस् तु निपातनम्
उपलम्भस् त्वनुभवः समालम्भो विलेपनम्
विप्रलम्भो विप्रयोगो विलम्भस् त्वतिसर्जनम्
विश्रावस् तु प्रतिख्यातिरवेक्षा प्रतिजागरः
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने
आदीनवास्रवौ क्लेशे मेलके संगसंगमौ
संवीक्षनं विचयनं मार्गणं मृगणा मृगः
परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः
उपशायो विशायश् च पर्यायशयनार्थकौ
अर्तनं च ऋतीया च हृणीया च घृणार्थकाः
स्याद् व्यत्यासो विपर्यासो व्यत्ययश् च विपर्यये
पर्ययो ऽतिक्रमस् तस्मिन्नतिपात उपात्ययः
प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम्
स संस्तावः क्रतुषु या स्तुतिभूमिर् द्विजन्मनाम्
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः
स्तम्बघ्नस् तु स्तम्बघनः स्तम्बो येन निहन्यते
आविधो विध्यते येन तत्र विष्वक्समे निघः
उत्कारश् च निकारश् च द्वौ धान्योत्क्षेपणार्थकौ
निगारोद्गारविक्षावोद्ग्राहास् तु गरणादिषु
आरत्यवरतिविरतय उपरामे ऽथास्त्रियां तु निष्ठेवः
निष्ठयूतिर् निष्ठेवननिष्ठीवनमित्यभिन्नानि
जवने जूतिः सातिस् त्ववसाने स्यादथ ज्वरे जूर्तिः
उदजस् तु पशु प्रेरणमकरणिरित्यादयः शापे
गोत्रान्तेभ्यस् तस्य वृन्दमित्यौपगवकादिकम्
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम्
माणवानां तु माणव्यं सहायानां सहायता
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम्
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात्
खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम्
ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्
अपि साहस्रकारीषवार्मणाथर्वणादिकम् ।
इति संकीर्णवर्गः 2 अत्र मूलश्लोकाः 42
नानार्थवर्गः
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0