नामलिङ्गानुशासन · अध्याय 3.4
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः
स्राग् झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुते
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे
पृथग् विनान्तरेणर्ते हिरुङ् नाना च वर्जने
यत् तद् यतस् ततो हेतावसाकल्ये तु चिच् चन
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह
आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा
आहो उताहो किमुत विकल्पे किं किमूत च
तु हि च स्म ह वै पादपूरणे पूजने स्वति
दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति
तिर्यगर्थे साचि तिरो ऽप्यथ संबोधनार्थकाः
स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरुक्
अतर्किते तु सहसा स्यात् पुरः पुरतो ऽग्रतः
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा
किञ्चिदीषन् मनागल्पे प्रेत्यामुत्र भवान्तरे
व वा यथा तथेवैवं साम्ये ऽहो हीति विस्मये
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे
दिष्ट्या समुपजोषं चेत्यानन्दे ऽथान्तरे ऽन्तरा
अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्
युक्ते द्वे सांप्रतं स्थाने ऽभीक्ष्णं शश्वदनारते
अभावे नह्य नो नापि मा स्म मालं च वारणे
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते
समन्ततस्तु परितः सर्वतो विष्वगित्यपि
अकामानुमतौ काममसूयोपगमेस्तु च
ननु च स्याद्विरोधोक्तौ कश्चित् कामप्रवेदने
निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्
मृषा मिथ्या च वितथे यथार्थं तु यथातथम्
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्
संवद् वर्षे ऽवरे त्वर्वागामेवं स्वयमात्मना
अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः
सना नित्ये बहिर्बाह्ये स्मातीते ऽस्तमदर्शने
अस्ति सत्वे रुषोक्तावु ऊं प्रश्ने ऽनुनये त्वयि
हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ
पुनरर्थे ऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने
सायं साये प्रगे प्रातः प्रभाते निकषान्तिके
अमानुगुण्ये स्मरणे हुं फड् विघ्ननिराकृतौ
अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे
परुत् परार्थैषमो ऽब्दे पूर्वे पूर्वतरे यति
अद्य ऽत्राह्न्यथ पूर्वे ऽह्नीत्यादौ पूर्वोत्तरापरात्
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः
उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि
ह्यो गते ऽनागते ऽह्नि श्वः परश्वस्तु परे ऽहनि
तदा तदानीं युगपदेकदा सर्वदा सदा
एतर्हि संप्रती ऽदानीमधुना साम्प्रतं तथा
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः
% इत्यव्ययवर्गः 4, अत्र मूलश्लोकाः 23
लिङ्गादिसंग्रहवर्गः।
। अथ लिङ्गादिसंग्रहवर्गः 5
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0