नामलिङ्गानुशासन · अध्याय 3.1
विशेष्यनिघ्नवर्गः
क्षेमङ्करो ऽरिष्टतातिश्शिवतातिश्शिवङ्करः
सुकृती पुण्यवान् धन्यो महेच्छस् तु महाशयः
हृदयालुः सुहृदयो महोत्साहो महोद्यमः
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः
वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः
दक्षिणीयो दक्षिणार्हस् तत्र दक्षिण्य इत्यपि
स्युर् वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे
जैवातृकः स्यादायुष्मानन्तर्वाणिस् तु शास्त्रवित्
परीक्षकः कारणिको वरदस् तु समर्द्धकः
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः
दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि
तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः
प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः
गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ
इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता
अधिभूर् नायको नेता प्रभुः परिवृढो ऽधिपः
अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस् तु यः
स्यादभ्यागारिकस् तस्मिन्नुपाधिश् च पुमानयम्
वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः
निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा
अवाचि मूको ऽथ मनोजवसः पितृसंनिभः
सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः
लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः
स्याद् दयालुः कारुणिकः कृपालुः सूरतस्समाः
स्वतन्त्रो ऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः
परतन्त्रः पराधीनः परवान् नाथवानपि
अधीनो निघ्न आयत्तो ऽस्वच्छन्दो गृह्यको ऽप्यसौ
खलपूः स्याद् बहुकरो दीर्घसूत्रश् चिरक्रियः
जाल्मो ऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः
कर्मक्षमो ऽलङ्कर्माणः क्रियावान् कर्मसूद्यतः
स कार्मः कर्मशीलो यः कर्मशूरस् तु कर्मठः
भरण्यभुक् कर्मकरः कर्मकारस् तु तत् क्रियः
अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः
बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः
परान्नः परपिण्डादो भक्षको घस्मरो ऽद्भरः
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते
उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके
सर्वान्नीनस् तु सर्वान्नभोजी गृध्नुस्तु गर्धनः
लुब्धो ऽभिलापुकस् तृष्णक् समौ लोलुपलोलुभौ
सोन्मादस् तून्मदिष्णुः स्यादविनीतः समुद्धतः
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः
कम्रः कामयिताभीकः कमनः कामनो ऽभिकः
विधेयो विनयग्राही वचनेस्थित आश्रवः
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः
धृष्टे धृष्णग् वियातश् च प्रगल्भः प्रतिभान्विते
स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते
अधीरे कातरस् त्रस्ते भीरुभीरुकभीलुकाः
आशंसुराशंसितरि गृहयालुर् ग्रहीतरि
श्रद्धालुः श्रद्धया युक्ते पतयालुस् तु पातुके
लज्जाशीले ऽपत्रपिष्णुर् वन्दारुरभिवादके
शरारुर् घातुको हिंस्रः स्याद् वर्द्धिष्णुस् तु वर्द्धनः
उत्पतिष्णुस् तूत्पतितालङ्करिष्णुस् तु मण्डनः
भूष्णुर् श्वविष्णुर् भविता वर्तिष्णुर् वर्तनः समौ
निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस् तु मेदुरः
ज्ञाता तु विदुरो विन्दुर् विकासी तु विकस्वरः
विसृत्वरो विसृमरः प्रसारी च विसारिणि
सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी
क्रोधनो ऽमर्षणः कोपी चण्डस् त्वत्यन्तकोपनः
जागरूको जागरिता घूर्णितः प्रचलायितः
स्वप्नक् शयालुर् निद्रालुर् निद्राणशयितौ समौ
पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः
देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति
यस्सहाञ्चति सध्र्यङ् स स तिर्यङ् यस्तिरो ऽञ्चति
वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ
वाचोयुक्तिपटुर्वाग्मी वावदूको ऽतिवक्तरि
स्याज् जल्पाकस् तु वाचालो वाचाटो बहुगर्ह्यवाक्
दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे
लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः
समौ कुवादकुचरौ स्यादसौम्यस्वरो ऽस्वरः
रवणः शब्दनो नान्दीवादी नान्दीकरः समौ
जडो ऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते
तूष्णींशीलस् तु तूष्णीको नग्नो ऽवासा दिगम्बरे
निष्कासितो ऽवकृष्टः स्यादपध्वस्तस् तु धिक्कृतः
आत्तगर्वो ऽभिभूतः स्याद् दापितः साधितः समौ
प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः
निकृतः स्याद् विप्रकृतो विप्रलब्धस् तु वञ्चितः
मनोहतः प्रतिहतः प्रतिबद्धो हतश् च सः
अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ
आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः
आक्षारितः क्षारितो ऽभिशस्ते संकसुको ऽस्थिरे
व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ
विक्लवो विह्वलः स्यात् तु विवशो ऽरिष्टदुष्टधीः
कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते
द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ
विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः
शिश्विदानो ऽकृष्णकर्मा चपलश् चिकुरः समौ
दोषैकदृक् पुरोभागी निकृतस् त्वनृजुः शठः
कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः
नृशंसो घातुकः क्रूरः पापो धूर्तस् तु वञ्चकः
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः
कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः
निःस्वस् तु दुर्विधो दीनो दरिद्रो दुर्गतो ऽपि सः
वनीयको याचनको मार्गणो याचकार्थिनौ
अहङ्कारवानहंयुः शुभंयुस् तु शुभान्वितः
दिव्योपपादुका देवा नृगवाद्या जरायुजाः
स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयो ऽण्डजाः ।
इति प्राणिवर्गः अत्र मूलश्लोकाः 50 ॥
उद्भिदस् तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्
कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्
रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम्
तदासेचनकं तृप्तेर् नास्त्यन्तो यस्य दर्शनात्
अभीष्टे ऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः
कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः
मलीमसं तु मलिनं कच्चरं मलदूषितम्
पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्
निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्
असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः
मुख्यवर्यवरेण्याश् च प्रवर्हो ऽनवरार्ध्यवत्
परार्ध्याग्रप्राग्रहरप्राग्रयाग्रयाग्रीयमग्रियम्
श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश् चातिशोभने
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः
अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने
विशंकटं पृथु बृहद् विशालं पृथुलं महत्
वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु
स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः
अत्यल्पे ऽल्पिष्ठमल्पीयः कनीयो ऽणीय इत्यपि
प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु
पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च
परः शताद्यास् ते येषां परा संख्या शतादिकात्
गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्
विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्
समग्रं सकलं पूर्णमखण्डं स्यादनूनके
घनं निरन्तरं सान्द्रं पेलवं विरलं तनु
समीपे निकटासन्नसंनिकृष्टसनीडवत्
सदेशाभ्याशसविधसमर्यादसवेशवत्
उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितो ऽव्ययम्
संसक्ते त्वव्यवहितमपदान्तरमित्यपि
नेदिष्ठमन्तिकतमं स्याद् दूरं विप्रकृष्टकम्
दवीयश् च दविष्ठं च सुदूरं दीर्घमायतम्
वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे ऽथ वामने
न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रे ऽवनतानतम्
अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम्
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि
ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ
शाश्वतस् तु ध्रुवो नित्यसदातनसनातनाः
स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः
कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्
चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम्
चञ्चलं तरलं चैव पारिप्लवपरिप्लवे
अतिरिक्तः समधिको धृढसन्धिस् तु संहतः
खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम्
जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम्
पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः
प्रत्यग्रो ऽभिनवो नव्यो नवीनो नूतनो नवः
नूत्नश् च सुकुमारं तु कोमलं मृदुलम् मृदु
अन्वगन्वक्षमनुगे ऽनुपदं क्लीबमव्ययम्
प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्
एकतानो ऽनन्यवृत्तिरैकाग्रैकायनावपि
अप्येकसर्ग एकाग्र्यो ऽप्येकायनगतो ऽपि सः
पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः
मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्
साधारणं तु सामान्यमेकाकी त्वेक एककः
भिन्नार्थका अन्यतर एकं त्वो ऽन्येतरावपि
उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्
अरुन्तुदस् तु मर्मस्पृगबाधं तु निरर्गलम्
प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च
वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्
सङ्कटम् ना तु संबाधः कलिलं गहनं समे
संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम्
ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्
अन्तर्गतं विस्मृतं स्यात् प्रआप्तप्रणिहिते समे
वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते
नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः
परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते
निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते
द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे
वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम्
रुग्णं भुग्ने ऽथ निशितक्ष्णुतशातानितेजिते
स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते
वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः
प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्
संगूढः स्यात् संकलितो ऽवगीतः ख्यातगर्हणः
विविधः स्याद् बहुविधो नानारूपः पृथग्विधः
अवरीणो धिक्कृतश् चाप्यवध्वस्तो ऽवचूर्णितः
अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे
बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्
निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम्
निर्वाणो मुनिवह्न्यादौ निर्वातस् तु गते ऽनिले
पक्वम् परिणते गूनं हन्ने मीढं तु मूत्रिते
पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते
दान्तस् तु दमिते शान्तः शमिते प्रार्थिते ऽर्दितः
ज्ञप्तस् तु ग्यपिते छन्नश् छादिते पूजिते ऽञ्चितः
पूर्णस् तु पूरिते क्लिष्टः क्लिशिते ऽवसिते सितः
प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते
निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ
ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते
स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्
वरिवसिते वरिवस्यितमुपासितं चोपचरितं च
संतापितसंतप्तौ धूपित धूपायितौ च दूनश् च
हृष्टो मत्तस् तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्
स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च
अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च
त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च
अवगणितमवमतावज्ञाते अवमानितं च परिभूते
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्
बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते
उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्
संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्
ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि
अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः
क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः
बाढव्यायतबहुगुरुवामनवृन्दारकातिशये
% इति विशेष्यनिघ्नवर्गः 1 अत्र मू श्लो 112
संकीर्णवर्गः ।
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0