नामलिङ्गानुशासन · अध्याय 2.7
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । अथ क्षत्रियवर्गः
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः
राजा तु प्रणताशषसामन्तः स्यादधीश्वरः
चक्रवर्ती सार्वभौमो नृपो ऽन्यो मण्डलेश्वरः
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः
शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम्
राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्
मन्त्री धीसचिवो ऽमात्यो ऽन्ये कर्मसचिवास्ततः
महामात्रा प्रधानानि पुरोधास्तु पुरोहितः
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ
प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः
रक्षिवर्गस्त्वनीकस्थो ऽथाध्यक्षाधिकृतौ समौ
स्थायुको ऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु
भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः
अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते
शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः
विषयानन्तरो राजा शत्रुर्मित्रमतः परम्
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः
द्विड् विपक्षाहितामित्रदस्युशात्रवशत्रवः
अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः
वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्
सख्यं साप्तपदीनं स्यादनुरोधो ऽनुवर्तनम्
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः
चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि
स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि
तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ
लिपिकारो ऽक्षरचरणो ऽक्षरचुञ्चुश्च लेखके
लिखिताक्षरविन्यासे (संस्थाने) लिपिर्लिब्(भ्)इरुभे स्त्रियौ
स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी
अध्वनीनो ऽध्वगो ऽध्वन्यः पान्थः पथिक इत्यपि
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च
राज्याङ्गानि प्रकृतयः पौराणां श्रेनयो ऽपि च
सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः
षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्
भेदो दण्डः साम दानमित्युपायचतुष्टयम्
साहसं तु समो (दमो) दण्डः साम सान्त्वमथो समौ
भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्
पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः
विविक्तविजनच्छन्ननिःशलाकास्तथा रहः
रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु
समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्
अभ्रेषान्यायकल्पास्तु देशरूपं समञ्जसम्
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्
न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम्
अववादस्तु निर्देशो निदेशः शासनं च सः
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः
सुधरणा सुधारा स्त्री सुस्थितिः सुदशोन्नतिः
आगो ऽपराधो मन्तुश्च समे तूद्दानबन्धने
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः
घट्टादिदेयं शुल्को ऽस्त्री प्राभृतं तु प्रदेशनम्
उपायनमुपग्राह्यमुपहारस्तथोपदा
यौतकादि तु यद्देयं सुदायो हरणं च तत्
तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः
सान्दृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम्
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्
महीभुजामहिभयं स्वपक्षप्रभवं भयम्
प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्
नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्
हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्
भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका
निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम्
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्
दन्ती दन्तावलो हस्ती द्विरदो ऽनेकपो द्विपः
मतङ्गजो गजो नागः कुञ्जरो वारणः करी
इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः
मदोत्कटो मदकलः कलभः करिशावकः
प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ
हास्तिकं गजता वृन्दे करिणी धेनुका वशा
गण्डः कटो मदो दानं वमथुः करशीकरः
कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्
अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम्
अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका
अधः कुम्भस्य वाहित्थं प्रतिमानमधो ऽस्य यत्
आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्
पार्श्वभागः पक्षभागो दन्तभागस्तु यो ऽग्रतः
द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात्
तोत्रं वेणुकमालानं बन्धस्तम्भे ऽथ शृङ्खले
अन्दुको निगडो ऽस्त्री स्यादङ्कुशो ऽस्त्री सृणिः स्त्रियाम्
दूष्या (चूषा) कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी
घोटके वीति (पीति)तुरगतुरङ्गाश्वतुरङ्गमाः
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः
आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः
वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः
ययुरश्वो ऽश्वमेधीयो जवनस्तु जवाधिकः
पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते
कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः
निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमाश्ववत्
आस्कन्दितं धौरितकं रेचितम् वल्गितं प्लुतम्
गतयो ऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्
कविका तु खलीनो ऽस्त्री शफं क्लीबे खुरः पुमान्
पुच्छो ऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः
त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः
असौ पुष्परथश्चक्रयानं न समराय यत्
कर्णीरथः प्रवहणं डयनं च समं त्रयम्
क्लीबे ऽनः शकटो ऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम्
शिबिका याप्ययानं स्याद्दोला प्रेङ्खाअदिकाः स्त्रियाम्
उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली
रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते
त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे
धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः
चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्
पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः
रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः
अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः
सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्
परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः
नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः
सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः
रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः
भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः
सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते
बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः
परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः
कञ्चुको वारबाणो ऽस्त्री यत्तु मध्ये सकञ्चुकाः
बध्नन्ति तत्सारसनमधिकाङ्गो ऽथ शीर्षकम्
शीर्षण्यं च शिरस्त्रे ऽथ तनुत्रं वर्म दंशनम्
उरश्छदः कङ्कटको जागरः कवचो ऽस्त्रियाम्
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्
संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः
त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे
पदातिपत्तिपदगपादातिकपदातयः
पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः
शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः
कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत्
अपराद्धपृषत्को ऽसौ लक्ष्याद्यश्च्युतसायकः
धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः
स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः
याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ
नैस्त्रिंशिको ऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः
अनुप्लवः सहायश्चानुचरो ऽनुचरो ऽभिचरः समाः
पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः
पुरोगमः पुरोगामी मन्दगामी तु मन्थरः
जङ्घालो ऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ
तरस्वी त्वरितो वेगी प्रजस्वी जवनो जवः
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके
जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति
सो ऽभ्यमित्रो ऽभ्यमित्रीयो ऽप्यभ्यमित्रीण इत्यपि
ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जो ऽतिशयान्वितः
स्वादुरस्वानुरसिलो रथिको रथिरो रथी
कामगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम्
शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः
सांयुगीनो रणे साधुः शस्त्रजीवादयस्त्रिषु
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः
वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्
व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि
प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम्
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः
अनीकिनी दशानीकिन्यक्षौहिण्यथ संपदि
संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ
आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्
इष्वासो ऽप्यथ कर्णस्य कालपृष्ठं शरासनम्
कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ
कोटिरस्याटनी गोधातले ज्याघातवारणे
लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः
स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम्
लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम्
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः
प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे
निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः
तूण्यां खद्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः
कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्
त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्
फलको ऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः
द्रुघणो मुद्गरघनौ स्यादीली करवालिका
भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः
स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका
वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरो ऽस्त्रियाम्
प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः
लोहाभिसारो ऽस्त्रभृतां राज्ञानां नीराजनाविधिः
यत्सेनयाभिगमनमरौ तदभिषेणनम्
यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः
स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्
अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः
वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः
स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः
संशप्तकास्तु समयात् संग्रामादनिवर्तिनः
रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः
चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले
पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्
सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा
अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम्
आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि
अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः
द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च
शक्तिः पराक्रम्ः प्राणो विक्रमस्त्वतिशक्तिता
वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे
युद्धमायोधनं जन्यं प्रघनं प्रविदारणम्
मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्
अस्त्रियां समरानीकरणाः कलहविग्रहौ
संप्रहाराभिसंपात कलिसंस्फोट संयुगाः
अभ्यामर्द समाघआत संग्रामाभ्यागमाहवाः
समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः
नियुद्धं बाहुयुद्धे ऽथ तुमुलं रणसंकुले
क्ष्वेदा तु सिंहनादः स्यात् करिणां घटना घटा
क्रन्दनं योधसंरावो बृंहितं करिग{जि}ऋतम्
विस्फारो धनुषः स्वानः पताहादम्बरओ समौ
प्रसभं तु बलात्कारो हठो ऽथ स्खलितं छलम्
अजन्यं क्लीबमुत्पात उपस{ग}ऋः समं त्रयम्
मू{छा}ऋ तु कश्मलं मोहो.आप्यवम{द}ऋस् तु पीदनम्
अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः
वैरशुद्धिः प्रतीकारो वैरनि{य}ऋआतनं च सा
प्रद्रावोद्द्रावसन्द्राव सन्दावा विद्रवो द्रवः
अपक्रमो ऽपयानं च रणे भंगः पराजयः
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ
प्रमापणं निब{ह}ऋणं निकारणं विशारणम्
प्रवासनं परासनं निषूदनं निहिंसनम्
नि{वा}ऋसनं संज्ञपनं नि{ग}ऋन्थनमपासनम्
निस्त{ह}ऋणं निहननं क्षणनं परिव{ज}ऋनम्
नि{वा}ऋपणं विशसनं मारणं प्रतिघातनम्
उद्वासन प्रमथन क्रथनोज्जासनानि च
आलम्भपिञ्जविशरघातोन्माथवधा अपि
स्यात् पञ्चता कालधर्मो दिष्टान्तः प्रलयो ऽत्ययः
अन्तो नाशो द्वयोर् मृत्युर् मरणं निधनो ऽस्त्रियाम्
परासुप्राप्तपंचत्वपरेतप्रेतसंस्थिताः
मृतप्रमीतौ त्रिष्वेते, चिता चित्या चितिः स्त्रियाम्
कबन्धो ऽस्त्री क्रिया युक्तमपमूर्धकलेवरम्
श्मशानं स्यात् पितृवनं कुणपः शवमस्त्रियाम्
प्रग्रहोपग्रहौ बन्द्यां, कारा स्यात् बन्धनालये
पूंसि भूग्न्यसवः प्राणाश् चैवं, जीवो ऽसुधारणम्
आयुर् जीवितकालो, ना जीवतुर् जीवनौषधम् । इति क्षत्रियवर्गः
वैश्यवर्गः।
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0