भाषा

ENहिગુ
ग्रंथ पाठ

नामलिङ्गानुशासन · अध्याय 2.6

2.6.808

संततिर्गोत्रजननकुलान्यभिजनान्वयौ । अथ ब्रह्मवर्गः

2.6.809

वंशो ऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः

2.6.810

विप्रक्षत्रियविट् शूद्राश्चातुर्वर्ण्यमिति स्मृतम्

2.6.811

राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः

2.6.812

महाकुलकुलीनार्यसभ्यसज्जनसाधवः

2.6.813

ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये

2.6.814

आश्रमो ऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः

2.6.815

विप्रश्च ब्राह्मणो ऽसौ षट्कर्मा यागादिभिर्वृतः

2.6.816

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः

2.6.817

धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः

2.6.818

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः

2.6.819

दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ

2.6.820

मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि

2.6.821

वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि

2.6.822

नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः

2.6.823

चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ

2.6.824

उपाध्यायो ऽध्यापको ऽथ स्यान्निषेकादिकृद्गुरुः

2.6.825

मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती

2.6.826

यष्टा च यजमानश्च स सोमवति दीक्षितः

2.6.827

इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्

2.6.828

स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः

2.6.829

सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः

2.6.830

अनूचानः प्रवचने साङ्गे ऽधीती गुरोस्तु यः

2.6.831

लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते

2.6.832

छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः

2.6.833

एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः

2.6.834

सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्

2.6.835

पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्

2.6.836

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः

2.6.837

यज्ञः सवो ऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः

2.6.838

पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः

2.6.839

एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः

2.6.840

समज्या परिषद्गोष्ठी सभासमितिसंसदः

2.6.841

आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः

2.6.842

प्राग्वंशः प्राग् हविर्गेहात्सदस्या विधिदर्शिनः

2.6.843

सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते

2.6.844

अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्

2.6.845

आग्नीग्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते

2.6.846

वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे

2.6.847

चषालो यूपकटकः कुम्बा सुगहना वृतिः

2.6.848

यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः

2.6.849

दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयो ऽग्नयः

2.6.850

अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतो ऽनलः

2.6.851

समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः

2.6.852

यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते

2.6.853

तस्मिन्नानाय्यो ऽथाग्नायी स्वाहा च हुतभुक्प्रिया

2.6.854

ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने

2.6.855

गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान्

2.6.856

आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः

2.6.857

धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा

2.6.858

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्

2.6.859

हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्

2.6.860

ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः

2.6.861

उपाकृतः पशुरसौ यो ऽभिमन्त्र्य क्रतौ हतः

2.6.862

परम्पराकम् शमनं प्रोक्षणं च वधार्थकम्

2.6.863

वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते

2.6.864

सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट् कृतम्

2.6.865

दीक्षान्तो ऽवभृतो यज्ञे तत्कर्मार्हं तु यज्ञियम्

2.6.866

त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्

2.6.867

अमृतं विघसो यज्ञशेषभोजनशेषयोः

2.6.868

त्यागो विहापितं दानमुत्सर्जनविसर्जने

2.6.869

विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्

2.6.870

प्रादेशनं निर्वपणमपवर्जनमंहतिः

2.6.871

म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम्

2.6.872

पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शस्त्रतः

2.6.873

अन्वाहार्यं मासिकें ऽशो ऽष्टमो ऽह्नः कुतपो ऽस्त्रियाम्

2.6.874

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा

2.6.875

सनिस्त्वध्येषणा याञ्चाभिशस्तिर्याचनार्थना

2.6.876

षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि

2.6.877

क्रमादातिथ्यातिथेये अतिथ्यर्थे ऽत्र साधुनि

2.6.878

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते

2.6.879

प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्

2.6.880

पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः

2.6.881

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना

2.6.882

व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः

2.6.883

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्

2.6.884

प्राचेतसश्चाअदिकविः स्यान्मैत्रावरुणिश्च सः

2.6.885

वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः

2.6.886

व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः

2.6.887

आनुपूर्वी स्त्रियां वावृत्परिपाठी अनुक्रमः

2.6.888

पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः

2.6.889

नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्

2.6.890

औपवस्तं तूपवासः विवेकः पृथगात्मता

2.6.891

स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः

2.6.892

पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः

2.6.893

ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ

2.6.894

मुख्यः स्यात्प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः

2.6.895

संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः

2.6.896

समे तु पादग्रहणमभिवादनमित्युभे

2.6.897

भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी

2.6.898

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः

2.6.899

तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः

2.6.900

ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती

2.6.901

ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते

2.6.902

यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ

2.6.903

स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः

2.6.904

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः

2.6.905

पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः

2.6.906

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं बृषी

2.6.907

अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्

2.6.908

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा

2.6.909

सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्

2.6.910

दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक्

2.6.911

शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः

2.6.912

नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम्

2.6.913

क्षौरम् तु भद्राकरणं मुण्डनं वपनं त्रिषु

2.6.914

कक्षापटी च कौपीनं शाटी च स्त्रीति लक्ष्यतः

2.6.915

उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे

2.6.916

प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम्

2.6.917

अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम्

2.6.918

मध्ये ऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्

2.6.919

स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि

2.6.920

देवभूयादिकं तद्वत्क्.च्छं सान्तपनादिकम्

2.6.921

संन्यासवत्यनशने पुमान्प्रायो ऽथ वीरहा

2.6.922

नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना

2.6.923

व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः

2.6.924

धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः

2.6.925

सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च

2.6.926

अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम्

2.6.927

परिवेत्तानुजो ऽनूढे ज्येष्ठे दारपरिग्रहात्

2.6.928

परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ

2.6.929

तथा परिणयोद्वाहोपयामाः पाणिपीडनम्

2.6.930

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्

2.6.931

त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समोक्षकैः

2.6.932

सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये । इति ब्रह्मवर्गः

मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc