नामलिङ्गानुशासन · अध्याय 2.8
ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः । अथ वैश्यवर्गः
आजीवो जीविका वा{ता}ऋ वृत्तिर् व{त}ऋनजीवने
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः
सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम्
द्वे याचितायाचितयोर् यथासंख्य्ं मृतामृते
सत्यानृतं वणिग्भावः, स्यादृणं प{यु}ऋदञ्चनम्
उद्धारो ऽ{थ}ऋप्रयोगस् तु कुसीदं वृद्धिजीविका
याञ्चयाप्तं याचितकं निमयादापमित्यकम्
उत्तम{णा}ऋ ऽधम{णौ}ऋ द्वौ प्रयोक्तृ ग्राहकौ क्रमात्
कुसीदिको वा{धु}ऋषिको वृद्ध्याजीवश् च वार्धुषिः
क्षेत्राजीवः क{ष}ऋकश्च कृषिकश् च कृषीवलः
क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम्
यव्यं यवक्यं यष्टिक्यं यवादिभवनं हि यत्
तिल्यतैलीनवन् माषोमाणुभङ्गाद्विरूपता
मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम्
शाकक्षेत्रादिके शाकशाकतं शाकशाकिनम्
बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत्
त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन्
द्विगुणाकृते तु स{व}ऋं पू{व}ऋं शम्बाकृतमपीह
द्रोणाढकादि वापादौ द्रौणिकाढकिकादयः
खरीवापस् तु खारीक उत्त्म{णा}ऋदयस् त्रिषु
पुन्नपुंसकयोर् वप्रः केदारः क्षेत्रमस्य तु
कैदारकं स्यात् कैदा{य}ऋं क्षेत्रं कैदारिकं गणे
लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः
प्राजनं तोदनं तोत्रं खनित्रमवदारणे
दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम्
निरीषं कुटकं फालः कृषको लांगलं हलम्
गोदारणं च सीरो ऽथ शम्या स्त्री युगकीलकः
ईष लांगलदंडः स्यात् सीत लाङ्गलपद्धतिः
पुंसि मेधिः खले दारु न्यस्तं यत् पशुबन्धने
आशुर् व्रीहिः पाटलः स्याच्छितशूकयवौ समौ
तोक्मस् तु तत्र हरिते कलायस् तु सतीनकः
हरेणुरेणुकौ चास्मिन् कोरदूषस् तु कोद्रवः
मंगल्यको मसूरो ऽथ मकुष्ठक मयुष्ठकौ
वनमुद्गे स{ष}ऋपे तु द्वौ तंतुभकदम्बकौ
सिद्धार्थस् त्वेष धवलो गोधूमः सुमनः समौ
स्याद् यावकस् तु कुल्माषश् चणको हरिमन्थकः
द्वौ तिले तिलपेजश् च तिलपिञ्जश् च निष्फले
क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी
स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा
मातुलानी तु भङ्गायां व्रीहि भेदस् त्वणुः पुमान्
किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी
धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस् तृणादिनः
नाडी नालं च काण्डो ऽस्य पलालोस्त्री स निष्फलः
कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्
शूको ऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे
ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्
माषादयः शमीधान्ये शूकधान्ये यवादयः
शालयः कलमाद्याश् च षष्टिकाद्याश् च पुंस्यमी
तृणधान्यानि नीवाराः स्त्री गवेधुर् गवेधुका
अयोग्रं मुसलो ऽस्त्री स्यादुदूखलमुलूखलम्
प्रस्फोटनं शू{प}ऋमस्त्री चालनी तित{उ}ः पुमान्
स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ
समानौ रसवत्यां तु पाकस्थानमहानसे
पौरोगवस् तदध्यक्षः सूपकारास् तु बल्लवाः
आरालिका आन्धसिकाः सूदा औदनिका गुणाः
आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु
अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका
अङ्गारधानिक.आंगारशकट्यपि हसन्त्यपि
हसन्यप्यथ न स्त्री स्यादङ्गारो ऽलातमुल्मुकम्
क्लीबे ऽम्बरीपं भ्राष्ट्रो ना कन्दुर् वा स्वेदनी स्त्रियाम्
अलिञ्जरः स्यान्मणिकं क{क}ऋ{य्य}ऋलुर् गलन्तिका
पिठरः स्थाल्युखा कुण्डं कलशस् तु त्रिषु द्वयोः
घटः कुटनिपावस्त्री शरावो व{ध}ऋमानकः
ऋजीषं पिष्टपचनं कंसो ऽस्त्री पानभाजनम्
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्
स{व}ऋमावपनं भाण्डं पात्रामत्रे च भाजनम्
द{वि}ऋः कम्बिः खजाका च स्यात् तद्दूर् दारुहस्तकः
अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका
कलम्बश् च कदम्बश् च वेषवार उपस्करः
तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्
मरीचं कोलकं कृष्णभूषणं ध{म}ऋपत्तनम्
जीरको जरणो ऽजाजि कणाः कृष्णे तु जीरके
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका
आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम्
कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम्
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्
आरनालकसौवीरकुल्माष ऽभिशुतानि च
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके
सहस्रवेधि जतुकं बल्हीकं हिङ्गु रामठम्
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः
निशाख्या काञ्चनी पीता हरिद्रा वरव{णि}ऋनी
सामुद्रं यत् तु लवणमक्षीवं वशिरं च तत्
सैन्धवो ऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे
रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम्
सौवर्चले ऽक्षरुचके तिलकं तत्र मेचके
मत्स्यन्डी फाणितं खण्डविकारे शर्करा सिता
कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता
स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः
शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम्
प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्
स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे
चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते
आपक्कं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः
पृथकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः
पूपो ऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः
भिस्सा स्त्री भक्तमन्धो ऽन्नमोदनो ऽस्त्री स दीदिविः
भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम्
मासराचामनिस्रावा मण्डे भक्तसमुद्भवे
यवागूरुष्णिका श्राणा विलेपी तरला च सा
म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः
गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम्
तत्तु शुष्कं करीषो ऽस्त्री दुग्धं क्षीरं पयस्समम्
पयस्यमाज्यदध्यादि त्रप्स्यं दधि धनेतरत्
घृतमाज्यं हविः सर्पिर् नवनीतं नवोद्घृतम्
तत्तु हैयङ्गवीनं यत् ह्योघोदोहोद्भवं गृतम्
दन्डाहतं कालशेयमरिष्टमपि गोरसः
तक्रं ह्युदश्विन् मथितं पादाम्ब्वर्धाम्बु निर्जलम्
मन्डम् दधिभवं मस्तु पीयूषो ऽभिनवं पयः
अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान्
सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्
उदन्या तु पिपासा तृट् तर्पो जग्धिस्तु भोजनम्
जेमनं लेह आहारो निघासो न्याद इत्यपि
सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्
गोपे गोपाल गोसंख्य गोधुगाभीर वल्लवाः
गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे
गोमान् गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे
त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा
उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः
अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्
गव्या गोत्रा गवां वत्सधेन्वोर् वात्सकधैनुके
उक्षा महान् महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः
उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः
शकृत्करिस्तु वत्सस्याद् दम्यवत्सतरौ समौ
आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः
स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः
स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः
युगादीनां तु वोढारो युग्यप्रासंग्यशाकटाः
खनति तेन तद्वोढास्येदं हालिकसैरिकौ
धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः
उभावेकधुरीणैकधुरावेकधुरावहे
स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः
माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी
अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी
वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः
द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी
चतुरब्दा चतुर्हाण्येवं त्र्यब्दा त्रिहायणी
वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी
आक्रान्ता वृषभेणाथ वेहद् गर्भोपघातिनी
काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी
स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका
चिरप्रसूता बष्कयणी धेनुः स्यात्नवसूतिका
सुव्रता सुखसन्दोह्या पीनोध्नी पीवरस्तनी
द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता
समांसमीना सा यैव प्रतिवर्षप्रसूतये
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ
न पुम्सि दाम सन्दानं पशुरज्जुस्तु दामनी
वैशाखमन्थमन्थान मन्थानो मन्थदन्डके
कुठरो दन्डविष्कम्भो मन्थनी गर्गरी समे
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः
करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः
अजा च्छागी शुभच्छागबस्तच्छगलका अजे
मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके
उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्
चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्
पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः
विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ
वाणिज्यं तु वणिज्या स्यान् मूल्यं वस्नो ऽप्यवक्रयः
नीवी परिपणो मूलधनं लाभो ऽधिकं फलम्
परिदानं परीवर्तो नैमेयनियमावपि
पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम्
क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके
विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु
क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्
विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु
विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः
संख्यार्थे द्विबहुत्वे स्तस् तासु चानवतेः स्त्रियः
पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम्
यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम्
मानं तुलाङ्गुलिप्रस्थैर् गुञ्जाः पञ्जाद्यमाषकः
ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम्
सुवर्णबिस्तौ हेम्नो ऽक्षे कुरुबिस्तस्तु तत्पले
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः
आचितो दश भाराः स्युः शाकटो भार आचितः
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः
कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्
पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु
हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते
ताभ्यां यदन्यत् तत्कुप्यं रूप्यं तद् द्वयमाहतम्
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः
शोणरत्नं लोहितकः पद्मरागो ऽथ मौक्तिकम्
मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्
रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिके ऽपि च
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्
तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम्
चामीकरं जातरूपं महारजतकाञ्चने
रुक्मं कार्तस्वरं जाम्बूनदमष्टापदो ऽस्त्रियाम्
अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्
शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च
लोहो ऽस्त्री शस्त्रकं तीक्ष्णं पिन्डं कालायसायसी
अश्मसारो ऽथ मण्डूरं सिंहाणमपि तन्मले
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी
क्षारः काचो ऽथ चपलो रसः सूतश्च पारदे
गवलं माहिषं शृङ्गमभ्रकं गिरिजामले
स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके
कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम्
रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः
सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका
रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम्
पिञ्जरं पीतनं तालमालं च हरितालके
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु
वोलगन्धरसप्राणपिण्डगोपरसाः समाः
डिण्डीरो ऽब्धिकफः फेनः सिन्दूरं नागसंभवम्
नागसीसकयोगेष्टवप्राणि त्रिषु पिञ्चटम्
रङ्गवङ्गे अथ पिचुस् तूलो ऽथ कमलोत्तरम्
स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि
मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि
मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका
नैपाली कुनटी गोला यवक्षारो यवाग्रजः
पाक्यो ऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः
सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना
शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम्
ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि
गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्
त्रिकटु त्र्यूपणं व्योपं त्रिफला तु फलत्रिकम्
। इति वैश्यवर्गः 9, अत्र मूलश्लोकाः 111
शूद्रवर्गः।
शूद्राश् चावरवर्णाश् च वृषलाश् च जघन्यजाः । अथ शूद्रवर्गः
आचण्डालात् तु संकीर्णा अम्बष्ठकरणादयः
शूद्राविशोस् तु करणो ऽम्बष्ठो वैश्याद्विजन्मनोः
शूद्राक्षत्रिययोरुग्रो मागधःक्षत्रियाविशोः
माहिषो ऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः
ब्राह्मण्यां क्षत्रियात् सूतस् तस्यां वैदेहको विशः
रथकारस् तु माहिष्यात् करण्यां यस्य संभवः
स्याच् चण्डालस् तु जनितो ब्राह्मण्यां वृषलेन यः
कारुः शिल्पी संहतैस् तैर् द्वयोः श्रेणिः सजातिभिः
कुलकः स्यात् कुलश्रेष्ठी मालाकारस् तु मालिकः
कुम्भकारः कुलालः स्यात् पलगण्डस् तु लेपकः
तन्तुवायः कुविन्दः स्यात् तुन्नवायस् तु सौचिकः
रङ्गाजीवश् चित्रकरः शस्त्रमार्जो ऽसि धावकः
पादकृच् चर्मकारः स्याद् व्योकारो लोहकारकः
नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः
स्याच्छाङ्खिकः काम्बविकः शौल्बिकस् ताम्रकुट्टकः
तक्षा तु वर्धकिस् त्वष्टा रथकारश् च काष्ठतट्
ग्रामाधीनो ग्रामतक्षः कौटतक्षो ऽनधीनकः
क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः
निर्णेजकः स्याद् रजकः शौण्डिको मण्डहारकः
जाबालः स्यादजाजीवो देवाजीवस् तु देवलः
स्यान् माया शाम्बरी मायाकारस् तु प्रतिहारकः
शैलालिनस् तु शैलूषा जायाजीवाः कृशाश्विनः
भरता इत्यपि नटाश् चारणास् तु कुशीलवाः
मार्दङ्गिका मौरजिकाः पाणिवादास् तु पाणिघाः
वेणुध्माः स्युर् वैणविका वीणावादास् तु वैणिकाः
जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ
वैतंसिकः कौटिकश् च मांसिकश् च समं त्रयम्
भृतको भृतिभुक् कर्मकरो वैतनिको ऽपि सः
वार्तावहो वैवधिको भारवाहस् तु भारिकः
विवर्णः पामरो नीचः प्राकृतश् च पृथग्जनः
निहीनो ऽपसदो जाल्मः क्षुल्लकश् चेतरश् च सः
भृत्ये दासेरदासेयदासगोप्यकचेटकाः
नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः
पराचितपरिस्कन्दपरजातपरैधिताः
मान्दस् तुन्दपरिमृज आलस्यः शीतको ऽलसो ऽनुष्णः
दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश् च
चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः
निपादश्वपचावन्तेवासिचाण्डालपुक्कसाः
भेदाः । किरातशबरपुलिन्दा म्लेच्छजातयः
व्याधो मृगवधाजीवो मृगयुर् लुब्धको ऽपि सः
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः
शुनको भपकः श्वा स्यादलर्कस् तु स योगितः
श्वा विश्वकद्रुर् मृगयाकुशलः सरमा शुनी
विट्चरः सूकरो ग्राम्यो वर्करस् तरुणः पशुः
आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम्
दक्षिणारुर् लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः
चौरैकागारिकस्तेनदस्युतस्करमोपकाः
प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः
चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने
वीतंसस् तूपकरणं बन्धने मृगपक्षिणाम्
उन्माथः कूटयन्त्रं स्याद् वागुरा मृगबन्धनी
शुल्बं वराटकं स्त्री तु रज्जुस् त्रिषु वटी गुणः
उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः
पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः
वाणिर् व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि
पाञ्चालिका पुत्त्रिका स्याद् वस्त्रदन्तादिभिः कृता
जतुत्रपुविकारे तु जातुपं त्रापुषं त्रिषु
पिटकः पेटकः पेटामञ्जूषाथ विहङ्गिका
भारयष्टिस् तदालम्बि शिक्यं काचो ऽथ पादुका
पादूरुपानत् स्त्री सैवानुपदीना पदायता
नद्ध्नी वर्ध्नी वरत्रा स्यादश्वादेस् ताडनी कशा
चाण्डालिका तु कण्डोल वीणा चण्डालवल्लकी
नाराची स्यादेषणिका शाणस् तु निकषः कषः
व्रश्चनःपत्रपरशुरीपिका तूलिका समे
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका
आस्फोटनी वेधनिका कृपाणी कर्तरी समे
वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः
क्रकचो ऽस्त्री करपत्रमारा चर्मप्रभेधिका
सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्
प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्
वाच्यलिङ्गाः समस् तुल्यः सदृक्षः सदृशः सदृक्
साधारणः समानश् च स्युरुत्तरपदे त्वमी
निभसंकाशनीकाशप्रतीकाशोपमादयः
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि
सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजा
गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता
मदिरा कश्यमद्ये चाप्यवदंशस् तु भक्षणम्
शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः
मध्वासवो माधवको मधु माध्वीकमद्वयोः
मैरेयमासवः सीधुर् मन्दको जगलः समौ
सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः
कारोत्तरः सुरामण्ड आपानं पानघोष्ठिका
चपको ऽस्त्री पानपात्रं सरको ऽप्यनुतर्षणम्
धूर्तो ऽक्षदेवी कितवो ऽक्षधूर्तो द्यूतकृत् समाः
स्युर् लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः
द्यूतो ऽस्त्रियामक्षवती कैतवं पण इत्यपि
पणो ऽक्षेषु ग्लहो ऽक्षास् तु देवनाः पाशकाश् च ते
परिणायस् तु शारीणां समन्तात् नयने ऽस्त्रियाम्
अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः
उक्ता भूरिप्रयोगत्वादेकस्मिन् ये ऽत्र यौगिकाः
ताद्धर्म्यादन्यतो वृत्तावूत्द्या लिङ्गान्तरे ऽपि ते
। इति शूद्रवर्गः 10 अत्र मूलश्लोकाः 46 ॥ क्षे ॥
इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयः काण्डो
भूम्यादिःसाङ्ग एव समर्थितः । अत्र मूलश्लोकाः 735
सर्वे च मिलित्वा 750 प्र का मू श्लो 281 । क्षे श्लो 18 सर्वे मि 299 ।
एवं मू श्लो 1017 क्षे श्लो 32 सर्वे मि 1049
अमरकोश एवं नामलिङ्गानुशासनं काण्ड 3
तृतीयं सामान्यकाण्डम् ।
अथ विशेष्यनिघ्नवर्गः ।
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0