भाषा

ENहिગુ
ग्रंथ पाठ

नामलिङ्गानुशासन · अध्याय 2.5

2.5.529

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । अथ मनुष्यवर्गः

2.5.530

स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः

2.5.531

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः

2.5.532

प्रतीपदर्शिनी वामा वनिता महिला तथा

2.5.533

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना

2.5.534

प्रमदा मानिनी कान्ता ललना च नितम्बिनी

2.5.535

सुन्दरी रमणी रामा कोपना सैव भामिनी

2.5.536

वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी

2.5.537

कृताभिषेका महिषी भोगिन्यो ऽन्या नृपस्त्रियः

2.5.538

पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी

2.5.539

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी

2.5.540

पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता

2.5.541

कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा

2.5.542

पतिंवरा च वर्याथ कुलस्त्री कुलपालिका

2.5.543

कन्या कुमारी गौरी तु नग्निकानागतार्तवा

2.5.544

स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे

2.5.545

समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी

2.5.546

इच्छावती कामुका स्याद् वृषस्यन्ती तु कामुकी

2.5.547

कान्तार्थिनी तु या याति संकेतं साभिसारिका

2.5.548

पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी

2.5.549

स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना

2.5.550

अवीरा निष्पतिसुता विश्वस्ताविधवे समे

2.5.551

आलिः सखी वयस्याथ पतिवत्नी सभर्तृका

2.5.552

वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती

2.5.553

शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च

2.5.554

आभीरी तु महाशूद्री जातिपुंयोगयोः समा

2.5.555

अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि

2.5.556

उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः

2.5.557

आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा

2.5.558

उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा

2.5.559

वीरपत्नी वीरभार्या वीरमाता तु वीरसूः

2.5.560

जातापत्या प्रजाता च प्रसूता च प्रसूतिका

2.5.561

स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे

2.5.562

कात्यायन्यर्धवृद्धा या काषायवसनाधवा

2.5.563

सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका

2.5.564

असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी

2.5.565

वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः

2.5.566

सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे

2.5.567

विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला

2.5.568

स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि

2.5.569

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्

2.5.570

श्रद्धालुर्दोहदवती निष्कला विगतार्तवा

2.5.571

आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी

2.5.572

गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे

2.5.573

पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः

2.5.574

स तु द्विजो ऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी

2.5.575

कानीनः कन्यकाजातः सुतो ऽथ सुभगासुतः

2.5.576

सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः

2.5.577

पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः

2.5.578

सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः

2.5.579

अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः

2.5.580

कौलटेरः कौलतेयो भिक्षुकी तु सती यदि

2.5.581

तदा कौलटिनेयो ऽस्याः कौलतेयो ऽपि चात्मजः

2.5.582

आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी

2.5.583

आहुर्दुहितरं सर्वे ऽपत्यं तोकं तयोः समे

2.5.584

स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता

2.5.585

जनयित्री प्रसूर्माता जननी भगिनी स्वसा

2.5.586

ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा

2.5.587

भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्

2.5.588

प्रजावती भ्रातृजाया मातुलानी तु मातुली

2.5.589

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः

2.5.590

पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः

2.5.591

श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ

2.5.592

स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः

2.5.593

पितामहः पितृपिता तत्पिता प्रपितामहः

2.5.594

मातुर्मातामहाद्येवं सपिण्दास्तु सनाभयः

2.5.595

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः

2.5.596

सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः

2.5.597

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः

2.5.598

धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ

2.5.599

अमृते जारजः कुण्डो मृते भर्तरि गोलकः

2.5.600

भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ

2.5.601

मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ

2.5.602

श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च

2.5.603

दंपती जंपती जायापती भार्यापती च तौ

2.5.604

गर्भाशयो जरायुः स्यादुल्बं च कललो ऽस्त्रियाम्

2.5.605

सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ

2.5.606

तृतीयाप्रकृतिः शण्ढः क्लीबः पण्दो नपुंसके

2.5.607

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे

2.5.608

स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघे ऽपि वार्धकम्

2.5.609

पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा

2.5.610

स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी

2.5.611

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा

2.5.612

प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि

2.5.613

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियो ऽग्रजः

2.5.614

जघन्यजे स्युः कनिष्ठयवीयो ऽवरजानुजाः

2.5.615

अमांसो दुर्बलश् छातो बलवान्मांसलों ऽसलः

2.5.616

तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः

2.5.617

अवटीटो ऽवनाटश्चावभ्रटो नतनासिके

2.5.618

केशवः केशिकः केशी वलिनो वलिभः समौ

2.5.619

विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः

2.5.620

खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः

2.5.621

खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः

2.5.622

ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः

2.5.623

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः

2.5.624

पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते

2.5.625

वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः

2.5.626

जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः

2.5.627

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया

2.5.628

भेषजौषधभैषज्यान्यगदो जायुरित्यपि

2.5.629

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः

2.5.630

क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः

2.5.631

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्

2.5.632

शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका

2.5.633

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका

2.5.634

कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्

2.5.635

व्रणो ऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्

2.5.636

कोठो मण्डलकं कुश्ठश्वित्रे दुर्नामकार्शसी

2.5.637

आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका

2.5.638

प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः

2.5.639

व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः

2.5.640

श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः

2.5.641

अश्मरी मूत्रकृच्छ्रम् स्यात्पूर्वे शुक्रावधेस्त्रिषु

2.5.642

रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके

2.5.643

वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्

2.5.644

ग्लानग्लास्नू आमयावी विकृतो व्याधितो ऽपटुः

2.5.645

आतुरो ऽभ्यमितो ऽभ्यान्तः समौ पामनकच्छुरौ

2.5.646

दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतो ऽर्शसः

2.5.647

वातकी वातरोगी स्यात्सातिसारो ऽतिसारकी

2.5.648

स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्ने ऽक्ष्णि चाप्यमी

2.5.649

उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी

2.5.650

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ

2.5.651

विलासी सिध्मलो ऽन्धो ऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ

2.5.652

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च

2.5.653

मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा

2.5.654

पिशितं तरसं मांसं पललं क्र्व्यमामिषम्

2.5.655

उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्

2.5.656

रुधिरे ऽसृग्लोहितास्ररक्तक्षतजशोणितम्

2.5.657

बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा

2.5.658

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा

2.5.659

तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलो ऽस्त्रियाम्

2.5.660

अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा

2.5.661

स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे

2.5.662

सृणिका स्यन्दनी लाला दूषिका नेत्रयोर्मलम्

2.5.663

नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम्

2.5.664

मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्

2.5.665

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ

2.5.666

स्यात्कर्परः कपालो ऽस्त्री कीकसं कुल्यमस्थि च

2.5.667

स्याच्छरीरास्थ्नि कंकालः पृष्ठास्थ्नि तु कशेरुका

2.5.668

शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका

2.5.669

अङ्गं प्रतीको ऽवयवो ऽपघनो ऽथ कलेवरम्

2.5.670

गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः

2.5.671

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः

2.5.672

पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणो ऽस्त्रियाम्

2.5.673

तद् ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः

2.5.674

जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्

2.5.675

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः

2.5.676

गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः

2.5.677

कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती

2.5.678

पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः

2.5.679

कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे

2.5.680

स्त्रियाम् स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः

2.5.681

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी

2.5.682

मुष्को ऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्

2.5.683

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ

2.5.684

चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्

2.5.685

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः

2.5.686

स्कन्धो भुजशिरोंसो ऽस्त्री सन्धी तस्यैव जत्रुणी

2.5.687

बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः

2.5.688

मध्यमं चावलग्नं च मध्यो ऽस्त्री द्वौ परौ द्वयोः

2.5.689

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः

2.5.690

अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः

2.5.691

मणीबन्धादाकनिष्ठं करस्य करभो बहिः

2.5.692

पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी

2.5.693

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी

2.5.694

मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्

2.5.695

पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियाम्

2.5.696

प्रादेशतालगोकर्णास्तर्जन्यादियुते तते

2.5.697

अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः

2.5.698

पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ

2.5.699

द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ

2.5.700

पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्

2.5.701

प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया

2.5.702

स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना

2.5.703

व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम्

2.5.704

ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु

2.5.705

कण्ठो गलो ऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि

2.5.706

कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका

2.5.707

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्

2.5.708

क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका

2.5.709

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी

2.5.710

अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः

2.5.711

रदना दशना दन्ता रदास्तालु तु काकुदम्

2.5.712

रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी

2.5.713

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ

2.5.714

कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका

2.5.715

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी

2.5.716

दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च

2.5.717

अपाङ्गौ नेत्रयोरन्तौ कटाक्षो ऽपाङ्गदर्शने

2.5.718

कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः

2.5.719

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तको ऽस्त्रियाम्

2.5.720

चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः

2.5.721

तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः

2.5.722

ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः

2.5.723

कबरी केशवेशो ऽथ धम्मिल्लः संयताः कचाः

2.5.724

शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा

2.5.725

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे

2.5.726

पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे

2.5.727

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे

2.5.728

आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्

2.5.729

दशैते त्रिष्वलंकर्तालंकरिष्णुश्च मण्डितः

2.5.730

प्रसाधितो ऽलंकृतश्च भूषितश्च परिष्कृतः

2.5.731

विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया

2.5.732

अलंकारस्त्वाभरणं परिष्कारो विभूषणम्

2.5.733

मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम्

2.5.734

चूदामणिः शिरोरत्नं तरलो हारमध्यगः

2.5.735

वालपाश्या पारितथ्या पत्रपाश्या ललाटिका

2.5.736

कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम्

2.5.737

ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका

2.5.738

स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता

2.5.739

हारो मुक्तावली देवच्छन्दो ऽसौ शतयष्टिका

2.5.740

हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः

2.5.741

अर्धहारो माणवक एकावल्येकयष्टिका

2.5.742

सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः

2.5.743

आवापकः पारिहार्यः कटको वलयो ऽस्त्रियाम्

2.5.744

केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका

2.5.745

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्

2.5.746

स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा

2.5.747

क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु

2.5.748

पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरो ऽस्त्रियाम्

2.5.749

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका

2.5.750

त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु

2.5.751

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्

2.5.752

कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्

2.5.753

अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे

2.5.754

तस्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्

2.5.755

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्

2.5.756

क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु

2.5.757

स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः

2.5.758

दैर्घ्यमायाम आरोहः परिणाहो विशालता

2.5.759

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ

2.5.760

वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्

2.5.761

सुचेलकः पटो ऽस्त्री स्याद्वराशिः स्थूलशाटकः

2.5.762

निचोलः प्रच्छदपटः समौ रल्लककम्बलौ

2.5.763

अन्तरीयोपसंव्यानपरिधानान्यधोंशुके

2.5.764

द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा

2.5.765

संव्यानमुत्तरीयं च चोलः कूर्पासको ऽस्त्रियाम्

2.5.766

नीशारः स्यात्प्रावरणे हिमानिलनिवारणे

2.5.767

अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम्

2.5.768

स्यात् त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत्

2.5.769

अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि

2.5.770

प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा

2.5.771

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा

2.5.772

उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः

2.5.773

स्नानं चर्चा तु चार्चिक्यं स्थासको ऽथ प्रबोधनम्

2.5.774

अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे

2.5.775

तमालपत्रतिलकचित्रकाणि विशेषकम्

2.5.776

द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्

2.5.777

काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने

2.5.778

रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्

2.5.779

लाक्षा राक्षा जतु क्लीबे यावो ऽलक्तो द्रुमामयः

2.5.780

लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्

2.5.781

कालीयकं च कालानुसार्यं चाथ समार्थकम्

2.5.782

वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्

2.5.783

कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्

2.5.784

यक्षधूपः सर्जरसो रालसर्वरसावपि

2.5.785

बहुरूपो ऽप्यथ वृकधूपकृत्रिमधूपकौ

2.5.786

तुरुष्कः पिण्डकः सिह्लो यावनो ऽप्यथ पायसः

2.5.787

श्रीवासो वृकधूपो ऽपि श्रीवेष्टसरलद्रवौ

2.5.788

मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्

2.5.789

कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम्

2.5.790

तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्

2.5.791

तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्

2.5.792

कुचन्दनं चाथ जातीकोशजातीफले समे

2.5.793

कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः

2.5.794

गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम्

2.5.795

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु

2.5.796

संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्

2.5.797

माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः

2.5.798

प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम्

2.5.799

प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत्

2.5.800

यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ

2.5.801

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता

2.5.802

उपधानं तूपबर्हः शय्यायां शयनीयवत्

2.5.803

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः

2.5.804

गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्

2.5.805

समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः

2.5.806

प्रसाधनी कङ्कतिका पिष्टातः पटवासकः

2.5.807

दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् । इति मनुष्यवर्गः

मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc