भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 23

23.1

संकल्पप्रभवो रागो द्वेषो मोहश् च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि

23.2

शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान् न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः

23.3

आत्मनो ऽस्तित्वनास्तित्वे न कथं चिच् च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम्

23.4

कस्य चिद् धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिद् आहो विना कंचित् सन्ति क्लेशा न कस्यचित्

23.5

स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्व् अपि न पञ्चधा

23.6

स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान्

23.7

रूपशब्दरसस्पर्शा गन्धा धर्माश् च षड्विधम् ।
वस्तु रागस्य दोषस्य मोहस्य च विकल्प्यते

23.8

रूपशब्दरसस्पर्शा गन्धा धर्माश् च केवलाः ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः

23.9

अशुभं वा शुभं वापि कुतस् तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च

23.10

अनपेक्ष्य शुभं नास्त्य् अशुभं प्रज्ञपयेमहि ।
यत् प्रतीत्य शुभं तस्माच् छुभं नैवोपपद्यते

23.11

अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत् प्रतीत्याशुभं तस्माद् अशुभं नैव विद्यते

23.12

अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति

23.13

अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः

23.14

अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः ।
अनित्यम् इत्य् अपि ग्राहः शून्ये किं न विपर्ययः

23.15

येन गृह्णाति यो ग्राहो ग्रहीता यच् च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद् ग्राहो न विद्यते

23.16

अविद्यमाने ग्राहे च मिथ्या वा सम्यग् एव वा ।
भवेद् विपर्ययः कस्य भवेत् कस्याविपर्ययः

23.17

न चापि विपरीतस्य संभवन्ति विपर्ययाः ।
न चाप्य् अविपरीतस्य संभवन्ति विपर्ययाः

23.18

न विपर्यस्यमानस्य संभवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः

23.19

अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्व् अजातेषु विपर्ययगतः कुतः

23.20

न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश् चेति विपर्ययगतः कुतः

23.21

आत्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः

23.22

नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्मा ऽशुच्य् अनित्यं च नैव दुःखं च विद्यते

23.23

एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते

23.24

यदि भूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति

23.25

यद्य् अभूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् ।
कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc