भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 22

22.1

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः ।
तथागतः स्कन्धवान् न कतमो ऽत्र तथागतः

22.2

बुद्धः स्कन्धान् उपादाय यदि नास्ति स्वभावतः ।
स्वभावतश् च यो नास्ति कुतः स परभावतः

22.3

प्रतीत्य परभावं यः सो ऽनात्मेत्य् उपपद्यते ।
यश् चानात्मा स च कथं भविष्यति तथागतः

22.4

यदि नास्ति स्वभावश् च परभावः कथं भवेत् ।
स्वभावपरभावाभ्याम् ऋते कः स तथागतः

22.5

स्कन्धान् यद्य् अनुपादाय भवेत् कश्चित् तथागतः ।
स इदानीम् उपादद्याद् उपादाय ततो भवेत्

22.6

स्कन्धांश् चाप्य् अनुपादाय नास्ति कश्चित् तथागतः ।
यश् च नास्त्य् अनुपादाय स उपादास्यते कथम्

22.7

न भवत्य् अनुपादत्तम् उपादानं च किं चन ।
न चास्ति निरुपादानः कथं चन तथागतः

22.8

तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश् च पञ्चधा ।
उपादानेन स कथं प्रज्ञप्यते तथागतः

22.9

यद् अपीदम् उपादानं तत् स्वभावान् न विद्यते ।
स्वभावतश् च यन् नास्ति कुतस् तत् परभावतः

22.10

एवं शून्यम् उपादानम् उपादाता च सर्वशः ।
प्रज्ञप्यते च शून्येन कथं शून्यस् तथागतः

22.11

शून्यम् इति न वक्तव्यम् अशून्यम् इति वा भवेत् ।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते

22.12

शाश्वताशाश्वताद्य् अत्र कुतः शान्ते चतुष्टयम् ।
अन्तानन्तादि चाप्य् अत्र कुतः शान्ते चतुष्टयम्

22.13

घनग्राहो गृहीतस् तु येनास्तीति तथागतः ।
नास्तीति स विकल्पयन् निर्वृतस्यापि कल्पयेत्

22.14

स्वभावतश् च शून्ये ऽस्मिंश् चिन्ता नैवोपपद्यते ।
परं निरोधाद् भवति बुद्धो न भवतीति वा

22.15

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतम् अव्ययम् ।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम्

22.16

तथागतो यत्स्वभावस् तत्स्वभावम् इदं जगत् ।
तथागतो निःस्वभावो निःस्वभावम् इदं जगत्

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc