भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 24

24.1

यदि शून्यम् इदं सर्वम् उदयो नास्ति न व्ययः ।
चतुर्णाम् आर्यसत्यानाम् अभावस् ते प्रसज्यते

24.2

परिज्ञा च प्रहाणं च भावना साक्षिकर्म च ।
चतुर्णाम् आर्यसत्यानाम् अभावान् नोपपद्यते

24.3

तदभावान् न विद्यन्ते चत्वार्य् आर्यफलानि च ।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः

24.4

संघो नास्ति न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः ।
अभावाच् चार्यसत्यानां सद्धर्मो ऽपि न विद्यते

24.5

धर्मे चासति संघे च कथं बुद्धो भविष्यति ।
एवं त्रीण्य् अपि रत्नानि ब्रुवाणः प्रतिबाधसे

24.6

शून्यतां फलसद्भावम् अधर्मं धर्मम् एव च ।
सर्वसंव्यवहारांश् च लौकिकान् प्रतिबाधसे

24.7

अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् ।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे

24.8

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः

24.9

ये ऽनयोर् न विजानन्ति विभागं सत्ययोर् द्वयोः ।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने

24.10

व्यवहारम् अनाश्रित्य परमार्थो न देश्यते ।
परमार्थम् अनागम्य निर्वाणं नाधिगम्यते

24.11

विनाशयति दुर्दृष्ता शून्यता मन्दमेधसम् ।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता

24.12

अतश् च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः ।
धर्मं मत्वास्य धर्मस्य मन्दैर् दुरवगाहताम्

24.13

शून्यतायाम् अधिलयं यं पुनः कुरुते भवान् ।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते

24.14

सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते

24.15

स त्वं दोषान् आत्मनीयान् अस्मासु परिपातयन् ।
अश्वम् एवाभिरूढः सन्न् अश्वम् एवासि विस्मृतः

24.16

स्वभावाद् यदि भावानां सद्भावम् अनुपश्यसि ।
अहेतुप्रत्ययान् भावांस् त्वम् एवं सति पश्यसि

24.17

कार्यं च कारणं चैव कर्तारं करणं क्रियाम् ।
उत्पादं च निरोधं च फलं च प्रतिबाधसे

24.18

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिर् उपादाय प्रतिपत् सैव मध्यमा

24.19

अप्रतीत्य समुत्पन्नो धर्मः कश्चिन् न विद्यते ।
यस्मात् तस्माद् अशून्यो हि धर्मः कश्चिन् न विद्यते

24.20

यद्य् अशून्यम् इदं सर्वम् उदयो नास्ति न व्ययः ।
चतुर्णाम् आर्यसत्यानाम् अभावस् ते प्रसज्यते

24.21

अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति ।
अनित्यम् उक्तं दुःखं हि तत् स्वाभाव्ये न विद्यते

24.22

स्वभावतो विद्यमानं किं पुनः समुदेष्यते ।
तस्मात् समुदयो नास्ति शून्यतां प्रतिबाधतः

24.23

न निरोधः स्वभावेन सतो दुःखस्य विद्यते ।
स्वभावपर्यवस्थानान् निरोधं प्रतिबाधसे

24.24

स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते ।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते

24.25

यदा दुःखं समुदयो निरोधश् च न विद्यते ।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति

24.26

स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् ।
परिज्ञानं ननु किल स्वभावः समवस्थितः

24.27

प्रहाणसाक्षात्करणे भावना चैवम् एव ते ।
परिज्ञावन् न युज्यन्ते चत्वार्य् अपि फलानि च

24.28

स्वभावेनानधिगतं यत् फलं तत् पुनः कथम् ।
शक्यं समधिगन्तुं स्यात् स्वभावं परिगृह्णतः

24.29

फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः ।
संघो नास्ति न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः

24.30

अभावाच् चार्यसत्यानां सद्धर्मो ऽपि न विद्यते ।
धर्मे चासति संघे च कथं बुद्धो भविष्यति

24.31

अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते ।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते

24.32

यश् चाबुद्धः स्वभावेन स बोधाय घटन्न् अपि ।
न बोधिसत्त्वचर्यायां बोधिं ते ऽधिगमिष्यति

24.33

न च धर्मम् अधर्मं वा कश्चिज् जातु करिष्यति ।
किम् अषून्यस्य कर्तव्यं स्वभावः क्रियते न हि

24.34

विना धर्मम् अधर्मं च फलं हि तव विद्यते ।
धर्माधर्मनिमित्तं च फलं तव न विद्यते

24.35

धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् ।
धर्माधर्मसमुत्पन्नम् अशून्यं ते कथं फलम्

24.36

सर्वसंव्य्वहारांश् च लौकिकान् प्रतिबाधसे ।
यत् प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे

24.37

न कर्तव्यं भवेत् किंचिद् अनारब्धा भवेत् क्रिया ।
कारकः स्याद् अकुर्वाणः शून्यतां प्रतिबाधतः

24.38

अजातम् अनिरुद्धं च कूटश्थं च भविष्यति ।
विचित्राभिर् अवस्थाभिः स्वभावे रहितं जगत्

24.39

असंप्राप्तस्य च प्राप्तिर् दुःखपर्यन्तकर्म च ।
सर्वक्लेशप्रहाणं च यद्य् अशून्यं न विद्यते

24.40

यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गम् एव च

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc