भाषा

ENहिગુ
ग्रंथ पाठ

मृत्युवञ्चनोपदेश · अध्याय 2

2.1

इदानीम् आन्तरं मृत्योर् लक्षणं कथ्यते स्फुटम्
तच् च वायूदयाज् ज्ञेयं वायुर् घ्राणास्यगोचरः ॥

2.2

बाह्यलक्षणमात्रान् न मृत्योः सम्यग् विनिश्चयः
यावद् आध्यात्मिकं सम्यग् लक्षणं नैव निश्चितम् ॥

2.3

उभयोर् निश्चयान् मृत्युर् निश्चितः स्यात् परिस्फुटम्
बाह्ये बुद्धिविपर्यासो रोगादेर् अपि संस्कृतेः ॥

2.4

पुष्यादिमाससंक्रान्तौ पूर्णमास्यादिपर्वसु
सामान्यलक्षणं मृत्योर् लक्षयेत् प्रातरादितः ॥

2.5

निरूपकनरो यत्र दिने कालं निरूपयेत्
तद् आरभ्य दिनं मृत्युर् मितकालात्ययाद् भवेत् ॥

2.6

समप्रकृतियुक्तानां सर्वप्राणभृतां सदा
नासिकादक्षिणेतरे पुटे प्रत्येकम् आश्रितः ॥

2.7

वायुर् वहति यामार्धं सूर्यशीतांशुसंज्ञके
अतो विपर्ययात् कल्प्यं मरणादि मनीषिभिः ॥

2.8

प्रतिपदं समारभ्य शुक्लां वहति चन्द्रगः
दिनानि त्रीणि पवनः ततः सूर्ये दिनत्रयम् ॥

2.9

दिनत्रयं पुनश् चन्द्रे ततः सूर्ये दिनत्रयम्
क्रमेणानेन नियमाद् यावत् पञ्चदशी सिता ॥

2.10

एवं कृष्णं समारभ्य सूर्ये वहति मारुतः
दिनानि त्रीणि पूर्ववद् यावत् पञ्चदशीतरा ॥

2.11

क्रमस्यास्य विपर्यासात् त्रिभिः पक्षैः सुनिश्चितात्
षड्भिर् मासैर् भवेन् मृत्युर् धर्मम् एव स्मरेत् ततः ॥

2.12

पक्षद्वयविपर्यासात् सुहृद्बन्धुविपद् भवेत्
एकपक्षविपर्यासाद् दारुणव्याधिसंभवः ॥

2.13

एकद्वित्रिचतुःपञ्च षड्दिनानि विपर्ययात्
वहेद् वायुर् यदि तदा कल्युद्वेगादि जायते ॥

2.14

त्रिमार्गगो भवेद् वायुः प्रकृतेः परिवर्जनात्
मध्याह्नात् परतो मृत्युः प्रतीकारविवर्जितः ॥

2.15

संक्रान्तिरहितो वायुर् उभयोर् अपि मार्गयोः
वहेद् यस्य दशाहानि संक्रान्तौ म्रियते हि सः ॥

2.16

विषुवत्क्षणसंप्राप्तौ स्पन्देते यस्य लोचने
तस्य नाशं विजानीयाद् अहोरात्रान् न संशयः ॥

2.17

इतश् चेतश् च बहुधा यस्यार्धप्रहरं वहेत्
वायुस् तस्य विजानीयात् पूजनं लाभम् एव च ॥

2.18

संक्रान्तिपञ्चकं यस्य समतीत्य मुखे वहेत्
वायुस् तस्यार्थनाशः स्याद् उद्वेगो वा भयादि वा ॥

2.19

वामनासापुटे वायुः संक्रान्तीश् च त्रयोदश
समतीत्य वहेद् यस्य तस्य रोगादि जायते ॥

2.20

पुटद्वयं परित्यज्य यदा वक्त्रेण गच्छति
तद् अहर् जीवितं तस्य यदि वज्रसमो ऽप्य् असौ ॥

2.21

मार्गशीर्षस्य संक्रान्ति कालम् आरभ्य मारुतः
पञ्चाहं चेद् वहेत् सूर्ये मृत्युर् अष्टादशाब्दतः ॥

2.22

अश्वयुङ्माससंक्रान्ति कालम् आरभ्य मारुतः
पञ्चाहं चेद् वहेन् मृत्युर् भवेत् पञ्चदशाब्दतः ॥

2.23

श्रावणस्यापि चेद् एवं मृत्युर् द्वादशवर्षतः
ज्येष्ठे ऽपि चेद् भवेद् एवं मृत्युः स्यान् नववर्षतः ॥

2.24

चैत्रमासस्य संक्रान्ति कालम् आरभ्य चेद् वहेत्
पञ्चाहं मारुतो मृत्युः षड्भिर् वर्षैस् तदा भवेत् ॥

2.25

माघमासस्य संक्रान्तेः पञ्चाहं चेद् वहेन् मरुत्
वर्षत्रयात्ययान् मृत्युर् इति कालविचक्षणाः ॥

2.26

सर्वत्र द्वित्रिचतुरो वायुश् चेद् दिवसान् वहेत्
अब्दभागैस् तु ते शोध्या यथावद् अनुपूर्वशः ॥

2.27

एवम् एव वहेच् चन्द्रे वायुश् चेन् मृत्युवर्जिताः
व्याधिदुर्भिक्षकान्तार शोकराजाद्युपद्रवाः ॥

2.28

सामान्यकालसंबोधः स्फुटो ऽयम् उपदर्शितः
विशेषकालबोधाय गतिर् अन्या प्रदर्श्यते ॥

2.29

समसप्तगते सूर्ये जन्मर्क्षे चन्द्रमा यदि
कालो ऽसौ पौष्णनामेति मृत्युनिर्णयकारकः ॥

2.30

यत्र राशौ नरो जातस् तस्माद् यः सप्तमो ऽपरः
समसप्त इति ख्यातस् तत्रार्कः समसप्तगः ॥

2.31

राशौ तत्रैव चन्द्रश् चेज् जन्मनक्षत्रगो भवेत्
पौष्णः कालः स विज्ञेयस् तत्र मृत्योर् निरूपणम् ॥

2.32

सर्वत्र सूर्यमार्गान्तर् गते सततगामिनि
कालं निरूपयेद् विद्वान् इतरत्र विकालकम् ॥

2.33

यत्र वेलाक्षणे वायोर् गतिर् अन्या प्रवर्तते
तत्र वेलाक्षणे पूर्णे मृत्युर् नास्त्य् अत्र संशयः ॥

2.34

पौष्णे काले वहेद् वायुर् दिनार्धं यदि सूर्यगः
वत्सरैर् मनुसंख्यातैर् लक्षयेन् मरणं तदा ॥

2.35

दिनम् एकम् अहोरात्रं दिनद्वित्रिचतुष्टयम्
वहेच् चेद् अर्कदिक्शैल षड्वेदाब्दैः क्रमान् मृतिः ॥

2.36

पञ्चाहं च दशाहं च तथा पञ्चदशाहकम्
वहेच् चेत् त्रिद्व्येकवर्षैर् भवेन् मृत्युर् यथाक्रमम् ॥

2.37

तथैव चेद् वहेद् वायुर् विंशतिं पञ्चविंशतिम्
षड्भिर् मासैस् त्रिभिश् चैव यथासंख्यं भवेन् मृतिः ॥

2.38

षट्सप्ताष्टाविंशतिं चेद् ऊनत्रिंशद्दिनं वहेत्
स्याद् द्व्येकमासैः पक्षेण दिग्दिनैश् च क्रमान् मृतिः ॥

2.39

त्रिंशत् तु चैकत्रिंशच् च द्वात्रिंशद् दिवसान् यदि
पञ्चत्रिद्विदिनैर् मृत्युर् यथासंख्यं भवेत् तदा ॥

2.40

त्रयस्त्रिंशद्दिनं यावत् सूर्ये चेद् वाति मारुतः
तस्मिन्न् एव दिने मृत्युर् विष्णोर् अपि न संशयः ॥

2.41

पञ्चाहपञ्चविंशत्योर् अन्तरालेषु वासराः
नोक्ताः षोडशसंख्या ये तेषां शोधनम् उच्यते ॥

2.42

षड्दिनं चेत् त्रिभिर् वर्षैश् चतुर्विंशतिवर्जितैः
सप्ताहं चेत् त्रिभिर् वर्षैः पूर्वोक्तद्विगुणोनितैः ॥

2.43

अष्टाहं चेत् त्रिभिर् वर्षैर् द्वासप्ततिदिनोनितैः
नवाहं चेत् त्रिभिर् वर्षैः षण्णवतिदिनोनितैः ॥

2.44

वहेद् एकादशाहं चेन् मारुतः सूर्यगोचरः
चतुर्विंशतिरात्रोनान् मृत्युर् वर्षद्वयाद् भवेत् ॥

2.45

द्वादशाहं वर्षद्वयात् पूर्वोक्तद्विगुणोनितात्
त्रयोदशाहं द्विवर्षाद् द्वासप्ततिदिनोनितात् ॥

2.46

चतुर्दशाहं द्विवर्षात् षण्णवतिदिनोनितात्
षोडशदिनवाहेन द्वादशोनैकवर्षतः ॥

2.47

वहेत् सप्तदशाहं चेद् वायुः सूर्यैकगोचरः
चतुर्विंशत्यहन्यूनाद् वर्षान् मृत्युर् उदीरितः ॥

2.48

अष्टादशाहं षट्त्रिंशद् दिनन्यूनैकवर्षतः
ऊनविंशति चेद् अष्ट चत्वारिंशद्दिनोनितात् ॥

2.49

एकविंशति षड्मासात् षड्वासरवियोजितात्
द्वाविंशतिं चेत् षड्मासैर् द्वादशाहविवर्जितैः ॥

2.50

त्रयोविंशत्यहर्वाहे ऽष्टादशाहविवर्जितात्
चतुर्विंशत्यहर्वाहे चतुःषट्कदिनोनितात् ॥

2.51

त्रयस्त्रिंशद्दिनेष्व् एवं मृत्युलक्षणसंभवः
वायूदयवशाज् ज्ञेयो नात ऊर्ध्वम् असंभवात् ॥

2.52

आदौ कृत्वा दिनार्धं सकलदिनम् अथा-हर्निशं यावद् एव तस्माद् अह्नोर् द्वयं च त्रिदिनम् अथ चतुर्-वासरान् व्याप्य यावत्
प्राणो नाड्याश्रितो यो वहति दिनपतेर् उद्गमे सव्यहीने तस्मिन् विज्ञेयम् एतद् भुवनरविदिशो मङ्गलं षट् चतुष्कम् ॥

2.53

पञ्चभ्यः पञ्चविंशद्दिवसगतिर् इहा-रोहते पञ्चवृद्ध्या तस्माद् एकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावद् एव
काले पौष्णे समास् तास् त्रिनयनशशिनः षट्त्रियुग्मेन्दवो ये मासास् ते ऽहानि शेषास् तिथिदिगिषुगुण-द्वीन्दवो जीवितस्य ॥

2.54

त्रिपुटं चक्रम् आलिख्य सप्तत्रिंशद्गृहान्वितम्
आयुषः प्राणवायोश् च दिनान्य् अङ्कक्रमाल् लिखेत् ॥

2.55

इत्य् आन्तराण्य् अपि मया कथितानि मृत्योर् लिङ्गान्य् अरिष्टम् इति चापरनामकानि
विज्ञाय तानि सपदि त्वरितैर् विधेयो ध्यानादिभिर् मरण-वञ्चन एव यत्नः ॥

मूल पाठ: Mṛtyuvañcanopadeśa · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc