भाषा

ENहिગુ
ग्रंथ पाठ

मृत्युवञ्चनोपदेश · अध्याय 1

1.1

अधिगतपरमार्थः श्रीघनव्यूह एव प्रति तुषितजनार्थं यो ऽभवच् छ्वेतकेतुः
तत इह जगदर्थं चाभवच् छाक्यकेतुः स जयतु जितमृत्युर् दर्शितानन्तमायः ॥

1.2

अजरामरतां प्राप्तम् अजरामरकारकम्
अजरामरताप्राप्त्यै नत्वा संबुद्धम् आदरात् ॥

1.3

दुर्बोधं मन्दबुद्धीनां दुष्करं चलचेतसाम्
सारिष्टं वञ्चनं मृत्योर् उच्यते शास्त्रसंगतम् ॥

1.4

सर्वथा वञ्चनं मृत्योर् मुक्तानाम् एव युज्यते
अमुक्तानां च सर्वेषां कियत्कालविलम्बनम् ॥

1.5

आयुरिन्द्रियचित्तानां निरोधो मृत्युलक्षणम्
उपायैर् जीवितं दीर्घं मृत्युवञ्चनम् उच्यते ॥

1.6

यावज् जीवति संसारे धर्माचारी जितेन्द्रियः
तावत् पुण्यादिसंभारं प्रसूते बोधिसाधकम् ॥

1.7

न विना जीवितात् सारं संसारे किं चिद् ईक्ष्यते
नानोपायैर् अतस् तूर्णं मृत्युवञ्चनम् आरभेत् ॥

1.8

न दुष्करं यतः किं चिद् उपायैर् युक्तियोजितैः
मणिमन्त्रौषधीनां च प्रभावः सर्वसंमतः ॥

1.9

लक्षणाद् दूरतो मृत्युं ज्ञात्वा युक्ता प्रतिक्रिया
मस्ते पतति वज्राग्नौ सुप्रज्ञो ऽपि करोति किम् ॥

1.10

बाह्याध्यात्मिकभेदेन द्विधा मरणलक्षणम्
कथ्यते ज्ञायते येन मरणं भावि तत्परैः ॥

1.11

मृत्योर् लक्षणम् आज्ञातुं वाञ्छा चेत् कस्य चिद् भवेत्
तेन स्वस्थशरीरेण ज्ञातव्यं संशयो ऽन्यथा ॥

1.12

धातुवैषम्यतो रोगात् तिमिरादिप्रभावतः
भयशोकादिसामर्थ्यात् प्रतिभाति यतो ऽन्यथा ॥

1.13

दैवभूतोभयक्षोभान् मृत्युं त्रिविधलक्षणम्
प्राप्यारिष्टसमुद्भूतिर् अतो भेदेन लक्षयेत् ॥

1.14

बाह्याभ्यन्तरभेदेन दैवक्षोभो द्विधेष्यते
भूतक्षोभो ऽपि द्विविधस् तथैवेति निरूपयेत् ॥

1.15

दैवसंक्षोभतो मृत्युर् आधिदैविक उच्यते
दैवक्षोभो ऽनशनादि वज्रपातादिलक्षणः ॥

1.16

भूतसंक्षोभतो मृत्युर् आधिभौतिक उच्यते
भूतक्षोभस् तु पित्तादि वह्नितोयाद्युपद्रवः ॥

1.17

उभयक्षोभतो मृत्युर् उभयाज्जो निगद्यते
उभयक्षोभो वज्रादि पित्तश्लेष्माद्युपद्रवः ॥

1.18

अरिष्टानाम् अनन्तत्वान् नोत्पत्तिर् युगपन् मता
क्रमशो ऽपि न सर्वेषाम् अपि त्व् एकादिसंख्यया ॥

1.19

अदृष्ट्वा लक्षणं यत्र मृत्युर् दृष्टः क्व चिद् भवेत्
निश्चेतुर् दूषणं तत्र न तु लक्षणनास्तिता ॥

1.20

दृष्ट्वापि लक्षणं यत्र न मृत्युर् दृश्यते क्व चित्
अभ्रान्तौ तत्र धर्मादि बाधकान्तरकल्पनम् ॥

1.21

निश्चिते दूरतो मृत्यौ प्रसिद्धिर् महती भवेत्
यथाशक्ति परित्यागे प्रतीकारे च वर्तनम् ॥

1.22

सदा समाहितो भूत्वा तद्गतैकाग्रमानसः
बाह्यानि प्रथमं तावल् लक्षणान्य् उपलक्षयेत् ॥

1.23

लक्षणानां परिच्छेद कालो द्विविध इष्यते
नियतो ऽनियतश् चेति विज्ञेयः स तु यत्नतः ॥

1.24

संक्रान्तिपूर्णमास्यादौ प्रभातादिक्षणात्मकः
कालो नियत इत्य् उक्तो ऽनियतस् तु विपर्ययात् ॥

1.25

स्फुरत्संधि कपोलं स्याद् अत्यर्थं मृत्युदर्शनात्
वातशीतादिसङ्गाच् च लक्षणीयम् अतः पृथक् ॥

1.26

कर्कटो राशिर् आषाढः पुष्यस् तु मकरो मतः
कर्कटे मकरे चापि जायते मृत्युलक्षणम् ॥

1.27

आषाढसंक्रान्तिदिने मध्याह्ने पदमात्रिका
उत्तराभिमुखस्थस्य च्छाया स्वाभाविकी भवेत् ॥

1.28

पुष्यसंक्रान्तिदिवसे सैव सप्तपदीभवेत्
व्यभ्रे नभसि मध्याह्ने च्छायायाश् च निरीक्षणम् ॥

1.29

प्रतिमासं पदवृद्धिः प्रतिमासं पदक्षयः
अमुष्माद् अन्यथाभावे मृत्युशङ्का प्रजायते ॥

1.30

एकैकपदवृद्धिः स्याद् आषाढान् मकरावधेः
एकैकपाद्यह्रासः स्यान् मकरात् कर्कटावधेः ॥

1.31

आषाढात् क्रमशो वृद्धिः पुष्याद् ध्रासः क्रमात् तथा
छायाविकारम् आलोच्य मासान् मरणम् आदिशेत् ॥

1.32

क्षयकाले भवेद् वृद्धिर् वृद्धिकाले क्षयो यदि
तम् एव कालम् आरभ्य मृत्युर् मासाद् विनिश्चितः ॥

1.33

वृद्धिकाले ऽप्य् अतिवृद्धौ नानारोगाद् उपद्रवः
क्षयकाले ऽप्य् अतिक्षये मृत्युर् एव न संशयः ॥

1.34

आषाढपुष्ययोर् अन्ते पूर्वं कर्कटमत्स्ययोः
यानि षट् षड् दिनान्य् अत्र कालाकालनिरूपणम् ॥

1.35

आषाढान्तदिनैर् एभिः श्रावणादौ शुभाशुभम्
पुष्यशेषदिनैश् चापि माघादिषु शुभाशुभम् ॥

1.36

पादयोस् तालुकां विद्ध्वा नाभौ वेधो यदा भवेत्
अहोरात्रत्रयाद् ऊर्ध्वं पञ्चत्वं जायते तदा ॥

1.37

पादयोस् तालुकां विद्ध्वा यदि चक्षुश् च विध्यति
तदा मासत्रयाद् ऊर्ध्वं गमनं यमसद्मनि ॥

1.38

पादयोस् तालुकां विद्ध्वा नासिकां यदि विध्यति
त्रिभिर् दिनैस् तदा नूनम् एकाकी याति पञ्चताम् ॥

1.39

कुटिप्रस्रावयोः काले तुल्यं स्याद् यदि हञ्छिका
तस्याम् एव हि वेलायां मृत्युर् वर्षेण तस्य हि ॥

1.40

नासिकागद्द्रिकावेधे मरणं पञ्चवत्सरैः
जिह्वाग्रादर्शने मृत्युर् वासरैः स्यात् त्रिभिर् नृणाम् ॥

1.41

मासैश् चतुर्भिर् मृत्युः स्यात् कर्णाग्रे तीक्ष्णवेधनात्
सद्यो मृत्युर् भवेन् नूनम् ऊर्णास्थाने प्रवेधनात् ॥

1.42

तुल्यकालं यदा वेधश् चन्द्रसूर्यगतो भवेत्
तदा मासाद् भवेन् मृत्युः पुण्यम् एवार्जयेत् ततः ॥

1.43

भगलिङ्गसमायोगे मध्ये शेषे च हञ्छिका
स्याच् चेत् तुल्यं तदा मासैः पञ्चत्वं याति पञ्चभिः ॥

1.44

हस्तयोः पादयोश् चैव कनिष्ठानां च संधयः
चत्वारो यस्य विध्यन्ति तुल्यं मासात् स मृत्युभाक् ॥

1.45

हृत्कण्ठमध्ययोर् वेधस् तुल्यकालं यदा भवेत्
पक्षत्रयेण मृत्युः स्याद् यदि धर्मं न सेवते ॥

1.46

तुल्यकालं यदा विध्येत् तालुकानां त्रयं मुहुः
त्रिभिर् दिनैस् तदा मृत्युर् यदि शक्रसमो भवेत् ॥

1.47

वामाक्षिपुत्तलीच्छायां यो न पश्यति दर्पणे
सप्ताहान् म्रियते नूनं यदि न स्यात् प्रतिक्रिया ॥

1.48

मैथुने सति घण्टाया नादश् चेत् कर्णयोर् भवेत्
त्रिभिर् मासैस् तदा मृत्युर् यदि ब्रह्मसमो भवेत् ॥

1.49

कृष्णं यदि भवेच् छुक्रं शुक्लायां प्रतिपत्तिथौ
षड्भिर् मासैस् तदा मृत्युर् लोहितं व्याधिसूचकम् ॥

1.50

कर्णमूले भ्रुवोर् मध्ये मस्तकाग्रे पृथक्पृथक्
यदि वेधो ऽप्रतीकारो मृत्युः सद्यस् तदा भवेत् ॥

1.51

पादाङ्गुष्ठं समारभ्य नाभिपर्यन्तगो भवेत्
वेधः सदाहो यस्यासौ षड्मासान् म्रियते ध्रुवम् ॥

1.52

पादाङ्गुष्ठाद् धृदयान्तं यावत् कण्ठं शिरो ऽथवा
मासत्रयात् पक्षत्रयान् मृत्युर् एकदिनात् क्रमात् ॥

1.53

नासाग्रमांसशैथिल्यान् मृत्युः स्यात् सप्तरात्रतः
कपोलमांसविच्छेदान् मृत्युः स्यात् पञ्चमासतः ॥

1.54

चक्षुर्नासिकयोर् मध्ये स्पन्दनं चेन् न दृश्यते
ज्ञात्वा पञ्चदिनान् मृत्युम् आदद्याद् धर्मसंवलम् ॥

1.55

नेत्रयोस् तारके म्लिष्टे सहसा भवतो यदि
षड्मासाभ्यन्तरे मृत्युः प्रतिकारक्रिया न चेत् ॥

1.56

अकस्मान् नासिका वक्रा कर्णौ भ्रष्टौ स्वदेशतः
नेत्रे च वर्तुलीभूते सप्ताहान् मृत्युदर्शनात् ॥

1.57

अकस्माद् धृदयं निम्नं स्याच् चेत् पक्षात् तदा मृतिः
ग्रीवापार्श्वस्थयोर् नाड्योर् विच्छेदाद् अपि पक्षतः ॥

1.58

अकस्मात् कृष्णरेखा स्याज् जिह्वाया यदि मध्यतः
दृढो वा दन्तसंदंशस् तदा मृत्युर् द्विरात्रतः ॥

1.59

कर्णशष्कुलिकापृष्ठ नाडीविच्छेददर्शनात्
तस्मिन्न् एव दिने मृत्युर् अथवा पञ्चवासरैः ॥

1.60

नखेषु रक्तवर्णेषु सहसा यद्य् अरक्तता
षड्भिर् मासैस् तदा मृत्युर् यदि मन्त्रादि नाचरेत् ॥

1.61

अकस्माज् जायते स्थूलः कृशः क्रुद्धो भयाकुलः
यस् तस्य मृत्युर् वर्षेण यदि धर्मं न सेवते ॥

1.62

इन्द्रियाणि न गृह्णन्ति यथास्वं यस्य गोचरान्
मुहुः स्खलति वाणी च मुहुश् च मतिविभ्रमः ॥

1.63

चक्षुषी स्रवतो नित्यं दृष्टरूपे ऽपि विभ्रमः
दर्पणे सलिले वापि स्वच्छायां यो न पश्यति ॥

1.64

रात्राव् इन्द्रधनुः पश्येद् दिवा नक्षत्रमण्डलम्
अमेघे विद्युतं पश्येत् स्फुरन्तीं दक्षिणाश्रिताम् ॥

1.65

दिवा छायापथं पश्येद् उल्कायाः पतनं तथा
हंसकाकमयूराणां पश्येद् एकत्र मेलकम् ॥

1.66

चन्द्रद्वयं द्विसूर्यं वा स्वशिरोज्वलनं तथा
गन्धर्वनगरं पश्येद् वृक्षाग्रे शिखरे गिरेः ॥

1.67

पश्येत् प्रेतपिशाचान् अ दृश्यान् अन्यांश् च भीषणान्
प्रकम्पते भृशं चैव मूर्छितो वा भवेन् मुहुः ॥

1.68

छर्दिं मूत्रं पुरीषं च सुवर्णरजतप्रभम्
पश्येद् एकैकशस् तस्य मृत्युर् मासावधेर् भवेत् ॥

1.69

कण्ट्ःओष्ठतालुजिह्वानां छेदं छिद्रं तनौ तथा
यः पश्येत् तस्य मृत्युः स्यात् षड्मासाभ्यन्तरे ध्रुवम् ॥

1.70

कण्ठोष्ठतालुरसना दन्ता यस्य पृथक्पृथक्
शुष्यन्त्य् अभीक्ष्णं षड्मासान् मरणं तस्य निर्दिशेत् ॥

1.71

नक्षत्रचक्रसप्तर्षि दिशां रात्राव् अदर्शनम्
सप्ताहमृत्योर् जायेत ज्वाला वाकस्मिकी तनौ ॥

1.72

अरुन्धतीं रोहिणीं च ध्रुवं छायापथं तथा
रात्राव् अपश्यतो ऽकस्मात् षड्मासान् मृत्युम् आदिशेत् ॥

1.73

कलङ्करहितं चन्द्रं सूर्यं रश्मिविवर्जितम्
सरश्मिकं चित्रभानुं चन्द्रं चापि सरश्मिकम् ॥

1.74

रात्रौ सूर्यं दिवा चन्द्रं स्वनेत्रे ज्वलनं तथा
तारां मेरुप्रमाणां च समुद्रं च नदीम् इव ॥

1.75

नाभौ हिक्कां गुदे हञ्छां वर्णं पद्मोपमं मुखे
गलके पिटकान् रक्तान् गात्रे वर्णविचित्रताम् ॥

1.76

हृदये क्रन्दनं साश्रु प्रकम्पम् अथ तालुनि
चन्द्रांशुं वह्निसंस्पर्शं सूर्यांशुं हिमशीतलम् ॥

1.77

चन्द्रच्छिद्रं रविच्छिद्रं छिद्रं भूमौ तथाम्बरे
आत्मनैव हि यः पश्येत् पश्येन् मृत्युं स पक्षतः ॥

1.78

मूत्रशुक्रपुरीषाणि तुल्यकालं पतन्ति चेत्
वर्षान् मृत्युर् भवेत् तत्र भैषज्यादि प्रतिक्रिया ॥

1.79

अर्धं शीतं तथा चोष्णम् अर्धं यस्य कलेवरम्
सप्तरात्राद् भवेन् मृत्युः परलोकं विचिन्तयेत् ॥

1.80

हकारः शीतसंस्पर्शः फुकारो वह्निसंनिभः
यस्यानुभूयते तस्य दशाहाद् यमदर्शनम् ॥

1.81

अनामिकानां मूलेषु दृष्टया कृष्णरेखया
अष्टादशदिनाद् ऊर्ध्वं मृत्युः प्राक्कर्मदोषतः ॥

1.82

यस्य मस्तकम् आरुह्य त्रिवर्णो याति वेगतः
कृकलासो मृतिस् तस्य पञ्चमासाद् विनिश्चिता ॥

1.83

शब्दो न श्रूयते देहाद् धस्ताभ्याम् अपमार्जितात्
सर्वाङ्गशीतलत्वेन दशाहान् मरणं ध्रुवम् ॥

1.84

युगपन् निर्गमो बाहु जङ्घयोर् यस्य गच्छतः
विनाशो ब्रह्मसूत्रस्य मृत्युस् तस्यैकवर्षतः ॥

1.85

कर्दमे पांशुदेशे वा पुरतः पृष्ठतो ऽपि वा
खण्डं पादोदये न्यूनं मृत्युर् मासचतुष्टयात् ॥

1.86

अकस्मात् पुरुषं पश्येत् कृष्णपिङ्गलवर्णकम्
वर्षत्रयात्ययान् मृत्युर् यदि भ्रान्त्या न कल्पितः ॥

1.87

द्विमासमृत्युर् हृत्पादौ स्नातमात्रस्य शुष्यतः
त्रिरात्रमृत्युर् दुर्गन्धो जायते विकृताकृतिः ॥

1.88

खरार्कदिवसे तोयैर् आपूर्य मुखकोटरम्
प्रत्यहं फूत्कृतं कुर्वन् क्रमात् तन्मध्यसंस्थितम् ॥

1.89

पश्येद् इन्द्रधनुश् चित्रं दीर्घायुः पुरुषः सदा
षड्मासायुर् न तत् पश्येद् इति कर्मविचित्रता ॥

1.90

खरार्कदिवसे पश्येत् पुरो गगनमध्यतः
मुक्ताहारान् इवालूनान् मुक्ताफलविभूषणान् ॥

1.91

इन्द्रनीलमणिच्छायान् केशोण्डुकसमाकृतीन्
दृश्यदेशं परित्यज्य देशान्तरविसर्पिणः ॥

1.92

नागान् अनेकशः पश्येत् संयतान् इव संततम्
तेषाम् अदृष्टौ षड्मासान् मरणं परिकीर्तितम् ॥

1.93

प्रभाते वाथ सायाह्ने ज्योत्स्नायां वा चिरं पुरः
वितत्य बाहू स्वच्छायां दृष्ट्वा पश्येच् छनैर् नभः ॥

1.94

तत्रापि दृश्यते छाया धवला नररूपिणी
शिरसो ऽदर्शनात् तस्य मृत्युः स्याद् वर्षमध्यतः ॥

1.95

पुत्रभार्याविनाशः स्याद् वामपाणेर् अदर्शनात्
दक्षिणादर्शनात् पितृ भ्रात्रादीनां महीयसाम् ॥

1.96

जानूपरि स्थितौ बाहू कृत्वा मूर्ध्नि तथाञ्जलिम्
रम्भाफलनिभां छायां लक्षयेन् मध्यतस् तयोः ॥

1.97

यदा त्व् एकं दलं तत्र विकासि परिलक्ष्यते
तस्याम् एव तिथौ नूनं षड्मासान् मरणं भवेत् ॥

1.98

सूर्यमार्गगते वायौ लक्षणीयम् इदं त्रयम्
श्रोत्रे शिरसि नेत्रे च शब्दो धूमो द्युतिस् तथा ॥

1.99

कर्णौ पिधाय सुदृढं गम्भीरो गुल्गुलो ध्वनिः
न श्रूयते पञ्चदिनं दश पञ्चदशाथवा ॥

1.100

विंशतिं दिवसान् यावत् पञ्चविंशतिम् एव वा
बाणाब्धिगुणनेत्रेन्दु वर्षैर् मृत्युर् यथाक्रमम् ॥

1.101

एषाम् अप्य् अन्तरालेषु शोध्याः षोडश वासराः
वर्षस्यैव चतुर्थांशैः क्रमशश् चाभिवर्धितैः ॥

1.102

मस्तकोपरि निर्यान्तीं सप्ताहं धूममालिकाम्
यो न पश्यति तस्य स्यान् मृत्युर् वर्षत्रयावधेः ॥

1.103

स्वनेत्रयोश् चतुर्दिक्षु दृश्यन्ते ऽङ्गुलिपीडनात्
मार्जारनेत्रतुल्यानि ज्योतींषि झटितिक्रमात् ॥

1.104

अपीडने ऽपि तद्दृष्टौ मृत्युः स्याच् छतवासरैः
एतत् सामान्यतो ज्ञेयं विशेषस् त्व् अयम् उच्यते ॥

1.105

चन्द्रस्याधस् तथोर्ध्वं च कर्णनासोपकण्ठयोः
नष्टे ज्योतिषि मृत्युः स्यात् षट्त्रिनेत्रेन्दुमासतः ॥

1.106

सूर्ये ऽपि यदि चन्द्रस्य क्रमः स्यात् पूर्ववत् तदा
दिग्बाणगुणनेत्रेषु दिनेषु मरणं भवेत् ॥

1.107

स्वरूपस्य विपर्यासात् षड्मासान् मरणं भवेत्
पञ्चमासाद् भवेन् मृत्युर् नासाग्रस्य विनाशतः ॥

1.108

बाधिर्ये श्रोत्रयोर् मृत्युश् चतुर्मासात्ययाद् भवेत्
स्वस्थेन्द्रियस्य पतने मृत्युर् मासत्रयाद् भवेत् ॥

1.109

भ्रूमध्ये ज्योतिषो ऽदृष्टौ द्विमासाद् यमदर्शनम्
एकमासात्ययान् मृत्युर् वृषणे गोलकक्षयात् ॥

1.110

पराक्ष्णोः प्रतिबिम्बस्या दृष्टौ पक्षाद् विनाशनम्
जिह्वाया अपरावृत्तौ दशाहान् मृत्युसंगमः ॥

1.111

नाभेर् विपर्ययान् मृत्युः पञ्चाहाद् उपश्लिष्यति
पार्श्वद्वयस्याकृष्टौ तु मृत्युः स्याद् वासरत्रयात् ॥

1.112

समस्तगात्रस्तब्धत्वे मृत्युर् एकाहिको भवेत्
ललाटस्थत्रिरेखाणां नाशान् मृत्युर् अहस्त्रयात् ॥

1.113

स्वस्थस्य लालाजिह्वा चेन् निःस्पर्शा द्रववर्जिता
यावत् पञ्चदिनं मृत्युः पञ्चाशद्दिवसैस् तथा ॥

1.114

अम्लादित्वं च रसतो नीलादित्वं च वर्णतः
विकारः शुक्रमूत्राणां षड्मासान् मृत्युदर्शनात् ॥

1.115

युगपत्पञ्चधारं वा वामावर्तं विगन्धि च
मूत्रं यस्य भवेन् मृत्युस् तस्य षड्मासमध्यतः ॥

1.116

कृष्णे वा यदि वा शुक्ले पक्षे रेतो ऽतिकृष्णकम्
मृत्युः षड्मासतो नो चेत् तेनैव स्यात् प्रतिक्रिया ॥

1.117

कृष्णभागं परित्यज्य गृहीत्वा शुक्लभागकम्
चन्द्रे प्रभञ्जने वाति प्रवेशात् स्यात् प्रतिक्रिया ॥

1.118

स्थिरत्वे ऽपि स्वदेहस्य तच्छाया चञ्चला यदि
चतुर्मासाद् भवेन् मृत्युर् इत्य् आगमविचक्षणाः ॥

1.119

दक्षिणाशागतां छायाम् आत्मनो यदि पश्यति
अद्यैव मृत्युर् अस्माकम् इति पश्येद् अनित्यताम् ॥

1.120

निरर्थको विसंवादी मिथ्येत्यादि प्रकाशनात्
स्वप्नो ऽप्य् असत्यः सर्वेषां नातः श्रद्धा न युज्यते ॥

1.121

देवतादर्शितः स्वप्नः सत्यस्वप्नो ऽथ यो नरः
स स्वप्ने प्रत्ययं कृत्वा मृत्युलिङ्गानि पश्यतु ॥

1.122

किंशुकं कोविदारं च पुष्पितं करवीरकम्
यो ऽभिरोहति स्वप्नान्ते स स्यात् षड्मासमृत्युकः ॥

1.123

विहारयष्टिं स्वप्नान्ते यो ऽभिरोहति मानवः
वालुकाभस्मराशिं वा मरणं तस्य पूर्ववत् ॥

1.124

गर्दभं यः समारूढः प्रयायाद् दक्षिणां दिशम्
भूयश् च न निवर्तेत तद्वत् तस्यापि जीवितम् ॥

1.125

यश् चापि वानरारूढः प्रयायाद् दक्षिणां दिशम्
तत्रस्थश् च विबुध्येत मृत्युः स्यात् तस्य पूर्ववत् ॥

1.126

दण्डं वा चैत्ययूपं वा नरो यस् त्व् अभिरोहति
वाल्मीकं पांशुराशिं वा षड्मासान् न स जीवति ॥

1.127

काली कुमारी संक्रुद्धा या तु बध्नाति बन्धनैः
कालरात्री तु सा ज्ञेया सप्ताहान् मृत्युकारिका ॥

1.128

कृष्णवस्त्रा तु या नारी काली कामयते नरं
करवीरमाला स्वप्ने यात्य् असौ यममण्डलम् ॥

1.129

तमो वा प्रविशेत् स्वप्ने श्वभ्रं वा चारकं तथा
वृक्षाद् वा प्रपतेत् स्वप्ने स मृत्योर् अन्तिके स्थितः ॥

1.130

वृक्षं तृणं वा काष्ठं वा विफलं यस् तु पश्यति
सुप्तः शीर्षे शरीरे वा षड्मासान् न स जीवति ॥

1.131

यो वानररथारूढो गच्छेत् पूर्वां दिशं नरः
प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ममान्तिमा ॥

1.132

श्वकाकगृध्रगोमायु रक्षःप्रेतपिशाचकैः
भक्ष्यते प्रोह्यते चापि खरपोत्र्युष्ट्रसौरभैः ॥

1.133

एकाब्दविगमे नूनं मरणं तस्य निर्दिशेत्
स्वप्नदृष्टनिमित्तानां शान्तिर् मायोपमा मतिः ॥

1.134

लोहदण्डधरं कृष्णं नरं कृष्णपरिच्छदम्
प्रसुप्तेनाग्रतो दृष्ट्वा त्रिमासान् मृत्युर् आप्यते ॥

1.135

रक्तगन्धप्रलिप्ताङ्गं रक्तमाल्यविभूषितम्
तैलाभ्यक्तम् अतिभीतं मुण्डितं रक्तवाससम् ॥

1.136

खरम् आरुह्य वेगेन व्रजन्तं दक्षिणां दिशम्
आत्मानम् ईदृशं स्वप्ने पश्येत् षड्मासमृत्युकः ॥

1.137

रक्तमाल्यानि गन्धांश् च रक्ताम्बरम् अथापि वा
यः स्वप्ने लभते तस्य मृत्युः स्याद् अष्टमासतः ॥

1.138

संख्यातीतानि बाह्यानि मृत्युलिङ्गानि तानि कः
एकवक्त्रेण शक्नोति वक्तुं वर्षशतैर् अपि ॥

1.139

एतानि मृत्योः प्रतिपादकानि लिङ्गानि बाह्यानि यथोदितानि
विज्ञाय तानि त्वरितं विधेयो मन्त्रादिभिर् वञ्चन एव यत्नः ॥

मूल पाठ: Mṛtyuvañcanopadeśa · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc