भाषा

ENहिગુ
ग्रंथ पाठ

मृत्युवञ्चनोपदेश · अध्याय 3

3.1

बाह्यम् आध्यात्मिकं चैव ज्ञात्वारिष्टकदम्बकम्
बाह्यश् चाध्यात्मिकश् चापि ज्ञेयो वञ्चनसंचयः ॥

3.2

कायवाक्कर्मभिर् बाह्यम् आन्तरं ध्यानकर्मभिः
मणिमन्त्रौषधैर् बाह्यम् आन्तरं योगशक्तिभिः ॥

3.3

श्रद्धया शक्यते कर्तुं मृत्युवञ्चनम् उद्यतैः
श्रद्धाम् अतो दृढीकुर्याद् अन्यथा स्याच् छ्रमः परः ॥

3.4

कायक्लेशैर् बहुविधैर् न चाप्य् अर्थस्य राशिभिः
धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैर् अपि ॥

3.5

श्रद्धा धर्मः परं सूक्ष्मः श्रद्धा ज्ञानं तपो हुतम्
श्रद्धा स्वर्गश् च मोक्षश् च श्रद्धा सर्वम् इदं जगत् ॥

3.6

सर्वस्वं जीवितं चापि दद्याद् अश्रद्धया यदि
नैवाप्नुयात् फलं किं चिच् छ्रद्दधानस् ततो भवेत् ॥

3.7

आदौ धर्मपरो भूयान् मृत्युवञ्चनवाञ्छया
धर्मो हि त्रायते मृत्योर् मृत्युर् धर्मेण वञ्च्यते ॥

3.8

न धर्मरहितस् तिष्ठेत् प्रमादात् क्षणमात्रकम्
ब्रह्मापि हि विना धर्मं न प्रभुर् मृत्युवञ्चने ॥

3.9

विदुषां संमतो धर्मः सत्यं दानं तपः क्षमा
विशेषेण कृपा येषां किं तेषां धर्मविस्तरैः ॥

3.10

कारुण्यस्यन्दि हृदयं येषां सत्त्वेषु संततम्
तेषां ज्ञानं च मोक्षश् च किम् अन्यैर् धर्मविस्तरैः ॥

3.11

अहिंसा परमो धर्मः सर्वसिद्धान्तसंमतः
ताम् एवाभ्यस्यतो नित्यं मृत्युर् दूरायते क्रमात् ॥

3.12

अल्पायुर् अपि दीर्घायुः सद्यः स्याज् जीवयन्न् इमान्
पक्षिमत्स्यमृगव्याड चौरादीन् वध्यदेशगान् ॥

3.13

दीर्घायुर् अपि मन्दायुः सद्यः स्यान् मारयन्न् इमान्
चौरमत्स्यमृगव्याड पक्षिणो जीवकाङ्क्षिणः ॥

3.14

दशाकुशलसंत्यागात् त्रिरत्नशरणात् तथा
पञ्चाष्टशिक्षाकरणान् मृत्युर् दूरगतो भवेत् ॥

3.15

बन्धनस्थान् उरुव्याधि पीडितान् भयकातरान्
त्रायमाणो भवेन् नूनं दीर्घायुर् मृत्युवञ्चकः ॥

3.16

दीनानाथसलज्जेभ्यः शीलवद्भ्यो ऽपि चादरात्
ईप्सितार्थप्रदानेन ध्रुवम् आयुर् विवर्धते ॥

3.17

मातापितृगुरुज्येष्ठ ज्ञानवृद्धादिगौरवात्
मानसत्कारदानाच् च मृत्युर् नैवोपसर्पति ॥

3.18

स्वेष्टदैवततद्भक्त लिङ्गिनां प्रातर् आदरात्
दर्शनाद् वन्दनान् नित्यम् आयुषो वृद्धिर् आप्यते ॥

3.19

भग्नस्फुटितचैत्यादाव् इष्टकादिप्रदानतः
स्याद् अल्पायुः सुदीर्घायुः पैण्डपातिकभिक्षुवत् ॥

3.20

विहारस्तूपबिम्बादेः क्रिययारामरोपणात्
महाष्टस्थानपूजाभिर् आयुर् नित्यं विवर्धते ॥

3.21

छन्दकभिक्षयोपात्तैर् द्रव्यैः संघस्य भोजनात्
सप्ताहायुश् चिरायुः स्याद् धर्माशोकनरेन्द्रवत् ॥

3.22

वालुकाचैत्यकरणात् तथा सञ्चकताडनात्
चैत्यादिवन्दनाच् चैव ध्रुवम् आयुर् विवर्धते ॥

3.23

महासमाजकं सूत्रम् आटानाटीयकं तथा
सक्षुद्रकं महामेघं गाथाः सुस्वस्तिसंज्ञिताः ॥

3.24

सत्कृत्य वाचयेद् भिक्षून् स्वयं वा संप्रवर्तयेत्
दीर्घम् आयुस् तथा प्राप्य मृत्योर् भवति वञ्चकः ॥

3.25

गण्डव्यूहादिसूत्रान्तान् महायानप्रकाशकान्
एकाग्रो वाचयेन् नित्यं मृत्युवञ्चनम् अश्नुते ॥

3.26

बुद्धभाषितनिःशेष योगतन्त्रादिवाचनात्
पञ्चरक्षाविधानाद् वा मृत्युवञ्चनम् आप्यते ॥

3.27

उष्णीषगर्भचैत्यादि प्रदक्षिणविधानतः
धारणीजपतश् चापि वञ्च्यते मृत्युर् उद्यतैः ॥

3.28

ग्रहादिमातृकापाठात् तद्विधानपुरःसरात्
सहस्रावर्तधारण्या रत्नोल्कायाश् च जापतः ॥

3.29

धारणीसंचयाद्युक्त धारणीजापतत्पराः
आसन्नम् अपि दूरस्थं मृत्युं कुर्वन्ति पण्डिताः ॥

3.30

मण्डलालेखनाद् धोमान् मुद्राणां बन्धनाद् अपि
बलीनां गणचक्राणां प्रदानान् मृत्युवञ्चनम् ॥

3.31

चातुर्दिशार्यसंघाय भोज्यशय्यादिदानतः
काषायमात्रकण्ठेभ्यो ऽपि वा स्यान् मृत्युवञ्चनम् ॥

3.32

एवमादिक्रियारम्भाद् धर्मः स्यात् पुण्यलक्षणः
पुण्यात् स्याद् आयुषो वृद्धिस् तद्वृद्धेर् मृत्युवञ्चनम् ॥

3.33

इत्यादि लेशतो धर्मः सूचितस् तस्य विस्तरः
स्वयम् उन्नीय कर्तव्यस् तज् ज्ञात्वा मृत्युवञ्चकैः ॥

3.34

एवं धर्मपरो भूत्वा सिद्धमन्त्रौषधादिभिः
मृत्योर् विष्कम्भणं कुर्यात् सद्यःप्रत्ययकारिभिः ॥

3.35

मणिमन्त्रौषधीसिद्ध रसायनबलात् स्वयम्
मृत्योः पराजयो दृष्टः सिद्धविद्याधरैर् यथा ॥

3.36

रत्नलक्षणशास्त्रोक्त परीक्षोत्तीर्णवज्रधृक्
आयुर्मणिधरो वापि विश्वरूपधरस् तथा ॥

3.37

अनर्घस्येन्द्रनीलादेर् अन्यस्यापि महामणेः
धारकः सर्वमृत्यूनां वञ्चकः स्यान् न संशयः ॥

3.38

न चात्र मणिसामर्थ्ये संशयो युक्तिभाग् यतः
अचिन्त्यशक्तियुक्तत्वं मणीनां सर्वसंमतम् ॥

3.39

पटादेर् अग्रतः पूजां कृत्वा विजनदेशगः
जापमात्रेण मन्त्राणां जायते मृत्युवञ्चनम् ॥

3.40

आकारम् उच्चरेत् पूर्वं ततो रो लिग् इति स्फुटम्
त्रैलोक्यविजयाख्यो ऽयं विद्याधरपिटोदितः ॥

3.41

मन्त्रं लोकेश्वरस्यास्य जपेद् अक्षरलक्षकम्
श्राद्धस् तदग्रतो ऽवश्यं मृत्युवञ्चनम् अश्नुते ॥

3.42

उक्त्वा वैरोचनं पूर्वं पश्चात् तारे द्विर् उच्चरेत्
तुत्तारे द्विस् तुरे द्विश् च स्वाहान्तं मृत्युवञ्चनम् ॥

3.43

ताराभ्युदयतन्त्रोक्तं मन्त्रम् अक्षरलक्षकम्
जप्त्वार्यतारापुरतो दधिमध्वक्तिपूर्वकम् ॥

3.44

पूर्वोत्तरशिखादूर्वा प्रवालायुतहोमतः
पूर्वकर्मप्रभावोत्थम् अपि मृत्युं निवारयेत् ॥

3.45

ओं आदौ रुरु ततो ऽतः स्फुरुपदम् अतः परम्
ज्वल तिष्ठ तथा सिद्ध लोचनेति पदत्रयम् ॥

3.46

सर्वार्थसाधनि स्वाहा मन्त्रो ऽशोकदले ऽमले
प्रदत्तदक्षिणाचार्यैर् लिखितश् चन्दनद्रवैः ॥

3.47

लक्षशः कोटिशो वापि शुद्धः श्रद्धाविधानतः
धौतश् च निर्जलैः क्षीरैर् हुतो दूर्वादिनाथवा ॥

3.48

भवत्य् अवश्यं निःशेष मृत्युवञ्चनकारकः
निःशेषरोगसंदोह शान्तिकृच् चापि जायते ॥

3.49

महामण्डलकल्पोक्ता र्यशताक्षरसंज्ञिनः
अचिन्त्यशक्तेर् मन्त्रस्य दृष्टशक्तेर् अनेकशः ॥

3.50

भद्रचर्यासमादान विधिना लक्षजापतः
मोक्षो ऽपि जायते नूनं किं पुनर् मृत्युवञ्चनम् ॥

3.51

नमस् त्रैयध्विकानां प्राक् तथागतानां स्यात् ततः
सर्वत्राप्रतिहतावाप्ति धर्मतेति पदं ततः ॥

3.52

बलिनाम् इति पदाद् ओं ततो ऽसमसमपदम्
समन्ततो ऽनन्ततावाप्ति शासनीति पदं ततः ॥

3.53

हर हर स्मर स्मर ण विगतरागपदात्
बुद्धधर्मते ततः स्यात् सर सर समबला ॥

3.54

हसद्वयं त्रयद्वयं स्याद् गगनमहावर
लक्षणे ज्वल ज्वलन सागरे स्यात् पदं ततः ॥

3.55

दत्त्वा स्वाहापदं चान्ते भवेन् मन्त्रः शताक्षरः
तथागतानां सर्वेषां हृदयं परिकीर्तितः ॥

3.56

आर्यमहाप्रतिसरा मन्त्रैकलक्षजापतः
दूर्वादशांशहोमेन ध्रुवं स्यान् मृत्युवञ्चनम् ॥

3.57

ओं उक्त्वा पदं विमले जय वरे ऽनु चामृते
हूं हूं फट् फट् ततः स्वाहा पदं ब्रूयाद् अनन्तरम् ॥

3.58

वैरोचनाद् भरद्वयं संभरद्वयम् उच्चरेत्
उक्त्वेन्द्रियबलशब्दं विशोधनिपदं वदेत् ॥

3.59

हूं हूं रुरु चले स्वाहा मन्त्रो ऽयं मृत्युवञ्चकः
आर्यमहाप्रतिसरा हृदयं सर्वसिद्धिदम् ॥

3.60

जप्त्वा दशाक्षरं मन्त्रं तं मृत्युञ्जयसंज्ञिनम्
दशलक्षं ततो होमं कुर्वीत कुसुमैः सितैः ॥

3.61

घृताक्तैर् लक्षसंख्यातैर् लोकेश्वरगुरोः पुरः
मन्त्रशक्तेस् ततो ऽवश्यं जायते मृत्युवञ्चनम् ॥

3.62

ओं आदौ तत आङ्कारः स्याद् ईङ्कारस् ततः परम्
ऊं ओं मृत्युञ्जय ओं स्याद् अयं मन्त्रो दशाक्षरः ॥

3.63

कल्पादिजीवनार्थं ये प्रोक्ता मन्त्रास् तथागतैः
तैर् आयुः साधितं दीर्घं तद् दीर्घं मृत्युवञ्चनम् ॥

3.64

मन्त्रैर् यैः शान्तिकर्म तैः स्याद् वृद्धिर् आयुषः
यैः स्याद् आयुषो वृद्धिस् तैः स्यान् मृत्युवञ्चनम् ॥

3.65

मन्त्राणाम् अपि सामर्थ्ये संशयो नैव युक्तिभाक्
अचिन्त्यं मन्त्रसामर्थ्यं यतः सर्वेषु संमतम् ॥

3.66

न तद् वस्त्वन्तरं लोके यन् न मन्त्रैः प्रसिध्यति
चिन्तामणिसमा मन्त्राः सम्यक्श्रद्धाभियोगतः ॥

3.67

कल्पोक्तविधिभिर् यद् वा यथाकामप्रयोगतः
बुभुक्षाबहुले देशे ऽमृताम् अत्यन्तम् आचरेत् ॥

3.68

एकाकिनीम् अथान्यैर् वा भेषजैः सहितां सदा
ततः स्थिरवपुर् भूत्वा मृत्युद्वारं न पश्यति ॥

3.69

अन्येषाम् अपि दिव्यानां भेषजानां निषेवणात्
आयुर्वृद्धिर् जरारोग क्षयान् मृत्युं न पश्यति ॥

3.70

व्योमहेमादिभिर् बद्धान् मृतकाद् विधिभक्षितात्
स्यान् मृत्युवञ्चनं सिद्ध रसायनस्वभावकात् ॥

3.71

प्रतिपच्चन्द्रयोगादि प्राप्तेनान्तरधातुना
नस्यप्रदानाद् विधिना जायते मृत्युवञ्चनम् ॥

3.72

संपुटादिकतन्त्रोक्त पञ्चामृतप्रयुक्तिभिः
यथोपदेशयुक्ताभिर् जायते मृत्युवञ्चनम् ॥

3.73

ऊर्ध्वाधोभ्यां संपुटयोगं यः सततं कुरुते हितयोगम्
तस्य सुरुष्टो ऽप्य् अविहततेजाः किञ्चित्कारी नो यमराजा ॥

3.74

मृतसंजीवनम् अपि क्व चिद् दृष्टम् उपायतः
ऋतुमत्कन्यानरयोः शृङ्खलायाः समुत्थितैः ॥

3.75

शोणितोन्मिश्रशुक्राख्य धातुभिर् नातिशीतलैः
सद्यो यद् वा मृतस्यैव पतितैर् धातुबिन्दुभिः ॥

3.76

घृताक्तनलिकारन्ध्र निर्गमेन प्रवेशितैः
वहेद् आत्मीयनासाग्र पुटोन्नीतपुटे क्रमात् ॥

3.77

पुनरुज्जीवनं दृष्टं निरोधश् चात्र शस्यते
प्रत्यक्षदृष्टसामर्थ्यो योगो ऽयं बहुसंमतः ॥

3.78

समस्तम् अथवा व्यस्तं त्रिफलामार्कवान्वितम्
आचरेत् सततं योगी पञ्चामृतरसायनम् ॥

3.79

वलीपलितनिर्मुक्तो वज्रकायः स्वरूपवान्
ध्रुवं निवारयेन् मृत्युम् अपि कल्पादिसंख्यया ॥

3.80

आगमोक्तम् इदं सिद्धं बहूनां वारिगन्धयोः
भक्षणालेपनात् सद्यो भवेन् मृत्युनिवारणम् ॥

3.81

अनयोश् च सदाभ्यासान् मधुसर्पिःसमन्वितात्
कालाकालसमुद्भूतम् अपि मृत्युं निवारयेत् ॥

3.82

भेषजस्यापि सामर्थ्ये संशयो नैव युज्यते
अचिन्त्यौषधिसामर्थ्यं यतः सर्वत्र दृश्यते ॥

3.83

इति विधाय बहिष्क्रियम् आदरान् मरणवञ्चनम् अत्र यथाबलम्
प्रबलमृत्युमहाभयशङ्कया कुरुत संप्रति तत् पुनर् आन्तरम् ॥

मूल पाठ: Mṛtyuvañcanopadeśa · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc