मृगेन्द्रागम · अध्याय 1.7
अथाविद्यादयः पाशाः कथ्यन्ते लेशतो ऽधुना
येषामपाये पतयो भवन्ति जगतो ऽणवः ॥
पाशाभावे पारतन्त्र्यं वक्तव्यं किन्निबन्धनम्
स्वाभाविकं चेन्मुक्तेषु मुक्तशब्दो निवर्तते ॥
बन्धशून्यस्य वशिता दृष्टा बद्धस्य वश्यता
एतावती ते बद्धत्व मुक्तत्वे बद्धमुक्तयोः ॥
तत्पारतन्त्र्यं बद्धत्वं तस्मिन्नित्ये चिदादिवत्
मुक्तिसाधनसंदोहो व्यर्थो ऽलमनया धिया ॥
नित्यव्यापकचिच्छक्ति निधिरप्यर्थसिद्धये
पाशवं शाम्भवं वापि नान्विष्यत्यन्यथा बलम् ॥
तदावरणमस्याणोः पञ्चस्रोतसि शाङ्करे
पर्यायैर्बहुभिर्गीतम् अदृष्टं पशुभिः सदा ॥
पशुत्वपशुनीहार मृत्युमूर्च्छामलाञ्जनैः
अविद्यावृतिरुग्ग्लानि पापमूलक्षपादिभिः ॥
तदेकं सर्वभूतानाम् अनादि निबिडं महत्
प्रत्यात्मस्थस्वकालान्ता पायिशक्तिसमूहवत् ॥
तदनादिस्थमर्वाग्वा तद्धेतुस्तदतो ऽन्यथा
रुणद्धि मुक्तानेवं चेन् मोक्षे यत्नस्ततो मृषा ॥
तदेकं बहुसंख्यं तु तादृगुत्पत्तिमद्यतः
किन्तु तच्छक्तयो ऽनेका युगपन्मुक्त्यदर्शनात् ॥
तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा
धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥
परिणामयत्येताश्च रोधान्तं कार्कचित्त्विषा
यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥
शम्भोश्चिदाद्यनुग्राह्यं तद्विरोधितया मिथः
युगपन्न क्षमं शक्तिः सर्वानुग्राहिका कथम् ॥
कथं भूतोपकारार्थं प्रवृत्तस्य जगत्प्रभोः
अपकारकमाविश्य युज्यते तुन्नतोदनम् ॥
न तोदनाय कुरुते मलस्याणोरनुग्रहम्
किन्तु यत्क्रियते किञ्चित् तदुपायेन नान्यथा ॥
न साधिकारे तमसि मुक्तिर्भवति कस्यचित्
अधिकारो ऽपि तच्छक्तेः परिणामान्निवर्तते ॥
सो ऽपि न स्वत एव स्याद् अपि योग्यस्य वस्तुनः
सर्वथा सर्वदा यस्माच् चित्प्रयोज्यमचेतनम् ॥
यथा क्षारादिना वैद्यस् तुदन्नपि न रोगिणम्
कोटाविष्टार्थदायित्वाद् दुःखहेतुः प्रतीयते ॥
सर्वगत्वान्महेशस्य नाधिष्ठानं विहन्यते
न च यत्रास्ति कर्तव्यं तस्मिन्नौदास्यमेति सः ॥
धर्मिणो ऽनुग्रहो नाम यत्तद्धर्मानुवर्तनम्
न सो ऽस्ति कस्यचिज्जातु यः पत्या नानुवर्तते ॥
गताधिकारनीहार वीर्यस्य सत एधते
पशोरनुग्रहो ऽन्यस्य तादर्थ्यादस्ति कर्मणः ॥
बोद्धृत्वपरिणामित्व धर्मयोरनुवर्तनम्
मलस्य साधिकारस्य निवृत्तेस्तत्परिच्युतौ ॥
इत्येवं यौगपद्येन क्रमात्सुघत एव हि
मायायाः साधिकारायाः कर्मणश्चोक्त एव सः ॥
मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0