भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.8

1.8.1

अथेन्द्रियशरीरार्थैश् चिद्योगस्यानुमीयते
निमित्तमागामिभावाद् यतो नागाम्यहेतुमत् ॥

1.8.2

तस्य प्रदेशवर्तित्वाद् वैचित्र्यात्क्षणिकत्वतः
प्रतिपुंनियतत्वाच्च सन्ततत्वाच्च तद्गुणम् ॥

1.8.3

ईशाविद्याद्यपेक्षित्वात् सहकारि तदुच्यते
कर्म व्यापारजन्यत्वाद् अदृष्टं सूक्ष्मभावतः ॥

1.8.4

जनकं धारकं भोग्यम् अध्यात्मादित्रिसाधनम्
तत्सत्यानृतयोनित्वाद् धर्माधर्मस्वरूपकम् ॥

1.8.5

स्वापे विपाकमभ्येति तत्सृष्टावुपयुज्यते
मायायां वर्तते चान्ते नाभुक्तं लयमेति च ॥

1.8.6

इति मायादिकालान्त प्रवर्तकमनादिमत्
कर्म व्यञ्जकमप्येतद् रोधि सद्यन्न मुक्तये ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc