भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.6

1.6.1

अथ विश्वनिमित्तस्य प्राप्तं लक्षणमात्मनः
तदीशोक्तौ गतप्रायं तथाप्युद्देश उच्यते ॥

1.6.2

कार्यं क्षित्यादि कर्तेशस् तत्कर्तुर्नोपयुज्यते
न स्वार्थमप्यचिद्भावान् नानर्थ्यं कर्तृगौरवात् ॥

1.6.3

पारिशेष्यात्परार्थं तत् क्षेत्रज्ञः स परस्तयोः
परो देहस्तदर्थत्वात् परार्थाः क्ष्मादयो ननु ॥

1.6.4

कायो ऽप्यचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते
चेतनश्चेन्न भोग्यत्वाद् विकारित्वाच्च जातुचित् ॥

1.6.5

भोग्या विकारिणो दृष्टाश् चिद्विहीनाः पटादयः
यस्मिन्सति च सत्त्वाद्वा न सत्यपि शवे चितिः ॥

1.6.6

परिणामसय् वैशिष्ट्याद् अस्ति चेत् न स्मृतिस्तदा
नाप्येवं सुप्रतीतत्वात् स्मर्ता कायेतरो ऽस्त्यतः ॥

1.6.7

नाव्यापको न क्षणिको नैको नापि जडात्मकः
नाकर्ता भिन्नचिद्योगी पाशान्ते शिवताश्रुतेः ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc