मृगेन्द्रागम · अध्याय 1.2
अथानादिमलापेतः सर्वकृत्सर्वविच्छिवः
पूर्वव्यत्यासितस्याणोः पाशजालमपोहति ॥
त्रिपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः
सूत्रेणैकेन संहृत्य प्राह विस्तरशः पुनः ॥
जगज्जन्मस्थितिध्वंस तिरोभावविमुक्तयः
कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि ॥
तेन स्वभावसिद्धेन भवितव्यं जगत्कृता
अर्वाक्सिद्धे ऽनवस्था स्यान् मोक्षो निर्हेतुको ऽपि वा ॥
चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥
सदप्यभासमानत्वात् तन्निरुद्धं प्रतीयते
वश्यो ऽनावृतवीर्यस्य सो ऽत एवाविमोक्षणात् ॥
प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम्
पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥
इति वस्तुत्रयस्यास्य प्राक्पादकृतसंस्थितेः
चर्यायोगक्रियापादैर् विनियोगो ऽभिधास्यते ॥
विनियोगफलं मुक्तिर् भुक्तिरप्यनुषङ्गतः
परापरविभागेन भिद्येते ते त्वनेकधा ॥
वेदानसांख्यसदसत् पादार्थिकमतादिषु
ससाधना मुक्तिरस्ति को विशेषः शिवागमे ॥
प्रणेत्रसर्वदर्शित्वान् न स्फुटो वस्तुसंग्रहः
उपायाः सफलास्तद्वच् छैवे सर्वमिदं परम् ॥
वेदान्तेष्वेक एवात्मा चिदचिद्व्यक्तिलक्षितः
प्रतिज्ञामात्रमेवेदं निश्चयः किंनिबन्धनः ॥
अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते
यत्रैतदुभयं तत्र चतुष्टयमपि स्थितम् ॥
अद्वैतहानिरेवं स्यान् निष्प्रमाणकतान्यथा
भोगसाम्याविमोक्षौ च यौ नेष्टावात्मवादिभिः ॥
सांख्यज्ञाने ऽपि मिथ्यात्वं कार्ये कारणबुद्धितः
अकर्तृभावाद्भोक्तुश्च स्वातन्त्र्यादप्यचित्त्वतः ॥
इह सप्त पदार्थाः स्युर् जीवाजीवास्त्रवास्त्रयः
संवरो निर्जरश्चैव बन्धमोक्षावुभावपि ॥
स्याद्वादलाञ्छिताश्चैते सर्वे ऽनैकान्तिकत्वतः
तदेव सत्तदेवासद् इति केन प्रमीयते ॥
सदन्यदसदन्यच्च तदेवं सिद्धसाध्यता
असज्जघन्यं सच्छ्रेष्ठम् इत्यपि ब्रुवते बुधाः ॥
नैकत्र तदपेक्षातः स्थितमेवोभयं ततः
अथ चेत्सदसद्भावः सदायुक्ततरो मतः ॥
तत्कर्मसंकरभयाद् अव्यापित्वं च ते जगुः
सामान्येतरसम्बन्ध ज्ञानाभावादचेतसः ॥
यः प्रागव्यापकः सो ऽन्ते कथमन्यादृशो भवेत्
स विकासादिधर्मा चेत् ततो दोषपरम्परा ॥
षट्पदार्थपरिज्ञानान् मिथ्याज्ञानं निवर्तते
रागद्वेषौ ममत्वं च तद्विशेषगुणास्ततः ॥
क्रमशो विनिवर्तन्ते देहसंयोगजा यतः
सा मुक्तिर्जडतारूपा ततो मुक्तः शवो न किम् ॥
चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान्मुहुर्मुहुः
व्यज्यते जायमानैव क्षणिकेति मता परैः ॥
तदसत्कर्मणो भोगाद् अतीतानुभवस्मृतेः
स्थितिर्निरन्वये नाशे न स्मृतेर्नापि कर्मणः ॥
विनाशलक्षणो ऽपैति न मुक्तावप्युपप्लवः
न चास्त्यनुभवः कश्चिद् भवावस्था वरं ततः ॥
इत्याद्यज्ञानमूढाणां मतमाश्रित्यदुर्धियः
अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः ॥
यत्कैवल्यं पुंस्प्रकृत्योर् विवेकाद् यो वा सर्वं ब्रह्म मत्वा विरामः
या वा काश्चिन्मुक्तयः पाशजन्यास् तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥
शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः
विश्वानर्थान्स्वेन विष्टभ्य धाम्ना सर्वेशानानीशितः सर्वदास्ते ॥
मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0