भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.3

1.3.1

अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम्
कर्तारमस्य जानीमो विशिष्टमनुमानतः ॥

1.3.2

वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थितावपि
यद्यथा यादृशं यावत् कार्यं तत्कारणं तथा
नित्यं कालानवच्छेदाद् द्वैतत्यान्न प्रदेशगम् ॥

1.3.3

क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत्
तस्यास्ति करणं येन दृष्टा नाकरणा कृतिः ॥

1.3.4

अनागामि च तज्ज्ञेयं कार्यस्यानादिसंस्थितेः
करणं च न शक्त्यन्यच् छक्तिर्नाचेतना चितः ॥

1.3.5

विषयानियमादेकं बोधे कृत्ये च तत्तथा
कार्यं न स्थितिजन्मादि बीजस्य प्रकृतेरणोः ॥

1.3.6

पारिशेष्यान्महेशस्य मुक्तस्य शिव एव सः
सम्बन्धाग्रहणे बाधा मानस्याभ्येति कस्यचित् ॥

1.3.7

सा परस्यापि धूमो ऽन्यो गिरौ माहानसाद्यतः
लोके वपुष्मतो दृष्टं कृत्यं सो ऽप्यस्मदादिवत् ॥

1.3.8

मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं प्रभोः
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥

1.3.9

ईशतत्पुरुषाघोर वामाजैर्मस्तकादिकम्
ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना ॥

1.3.10

स मूर्धसमदेशत्वान् मूर्धा नावयवस्तनोः
तस्य तस्य तनुर्या पूस् तस्यामुषति येन सः ॥

1.3.11

तत्त्राणाद्व्यञ्जनाच्चापि स तत्पुरुषवक्त्रकः
हृदयं बोधपर्यायः सो ऽस्याघोरः शिवो यतः ॥

1.3.12

परिग्रहस्य घोरत्वाद् घोरोक्तिरुपचारतः
वामस्त्रिवर्गवामत्वाद् रहस्यश्च स्वभावतः
वामं धाम परं गुह्यं यस्यासौ वामगुह्यकः ॥

1.3.13

सद्यो ऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस्तेन सद्यो ऽभिधानः
सद्यो मूर्तीर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥

1.3.14

इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः
तस्या भेदा ये ऽपि वामादयः स्युस् ते ऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc