भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.1

1.1.1

परमेशं नमस्कृत्य भरद्वाजमृषिं ततः
हरादिन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥

1.1.2

नारायणाश्रमे पुण्ये भरद्वाजादयो द्विजाः
तेपुः शिवं प्रतिष्ठाप्य तदेकाहितमानसाः ॥

1.1.3

अथ तान्भावितान्मत्वा कदाचित्त्रिदशाधिपः
तदाश्रमपदं भेजे स्वयं तापसवेषभृत् ॥

1.1.4

स तैः संपूजितः पृष्ट्वा तांश्च सर्वाननामयम्
प्रोवाच चोदनाधर्मः किमर्थं नानुवर्त्यते ॥

1.1.5

त ऊचुर्नन्वयं धर्मश् चोदनाविहितो मुने
देवताराधनोपायस् तपसाभीष्टसिद्धये ॥

1.1.6

वेदे ऽस्ति संहिता रौद्री वाच्या रुद्रश्च देवता
सान्निध्यकरणे ऽप्यस्मिन् विहितः काल्पिको विधिः ॥

1.1.7

इत्युक्ते ऽपि परं भावं जिज्ञासुः प्रहसन्प्रभुः
तानाह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥

1.1.8

शब्देतरत्वे युगपद् भिन्नदेशेषु यष्टृषु
न सा प्रयाति सांनिध्यं मूर्तत्वदस्मदादिवत् ॥

1.1.9

न च तत्साधकं किंचित् प्रमाणं भात्यबाधितम्
वाक्यं तदन्यथासिद्धं लोकवादाः क्व साधवः ॥

1.1.10

इत्यनीशवचोवारि वेलानुन्नो ऽब्धिनेव सः
शक्रेण न चचालैषां धीशैलः सारगौरवात् ॥

1.1.11

न जातु देवतामूर्तिर् अस्मदादिशरीरवत्
विशिष्टैश्वर्यसम्पन्ना सातो नैतन्निदर्शनम् ॥

1.1.12

अथास्त्वेवं घटे न्यायः शब्दत्वादिन्द्रशब्दवत्
नादत्ते घटशब्दो ऽम्भश् चन्द्रशब्दो न राजते ॥

1.1.13

अथान्यविषयं वाक्यम् अस्तु शक्रादिवाचकम्
कर्मरूपादिशब्दानां सार्थकत्वं कथम् भवेत् ॥

1.1.14

प्रवादो ऽप्यखिलो मिथ्या समूलत्वान्न युक्तिमत्
न चेदमूलं भूतानां हताः सर्वाः प्रवृत्तयः ॥

1.1.15

उपमन्युर्हरं दृष्ट्वा विमन्युरभवन्मुनिः
कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥

1.1.16

क्रोडीकृतो ऽहिपाशेन विषज्वालावलीमुचा
हुङ्कृत्य मोचितः पत्या दृष्टः श्वेतो धनैर्जनैः ॥

1.1.17

इति वादानुषङ्गेण हरशंसाप्रहर्षितान्
साश्रुगद्गदवाचस्तान् वीक्ष्य प्रीतो ऽभवद्धरिः ॥

1.1.18

स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः
तरुणादित्यसंकाशं स्तूयमानं मरुद्गणैः ॥

1.1.19

ते तमृग्भिर्यजुर्भिश्च सामभिश्चास्तुवन्नताः
सो ऽब्रवीदुच्यतां कामो जगत्सु प्रवरो ऽपि यः ॥

1.1.20

ते वव्रिरे शिवज्ञानं श्रूयतामिति सो ऽब्रवीत्
किंत्वेको ऽस्तु मम प्रष्टा निखिलश्रोतृसम्मतः ॥

1.1.21

अथ तेषां भरद्वाजो भगवानग्रणीरभूत्
वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥

1.1.22

कथं महेश्वरादेतद् आगतं ज्ञानमुत्तमम्
किं च चेतसि संस्थाप्य निर्ममे भगवानिदम् ॥

1.1.23

सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये
विधत्ते विमलं ज्ञानं पञ्चस्रोतो ऽभिलक्षितम् ॥

1.1.24

तद्वर्तिवाचकव्रात वाच्यानष्टौ महेश्वरान्
सप्तकोटिप्रसंख्यातान् मन्त्रांश्च परमे ऽध्वनि ॥

1.1.25

अष्टादशाधिकं चान्यच् छ्रुतं मायाधिकारिणाम्
मन्त्रेश्वराणामूर्ध्वाध्व स्थितेशोपमतेजसाम् ॥

1.1.26

तेषु व्यक्तः स भगवान् इदं योग्येषु सिद्धये
प्रकाशयत्यतो ऽन्येषु यो ऽर्थः समुपपद्यते ॥

1.1.27

शिवोद्गीर्णमिदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥

1.1.28

तेभ्यो ऽवगत्य दृग्ज्योतिर् ज्वालालीढस्मरद्रुमः
ददावुमापतिर्मह्यं सहस्रैर्भवसंमितैः ॥

1.1.29

तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः
वक्ष्ये निराकुलं ज्ञानं तदुक्तैरेव भूयसा ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc