मृगेन्द्रागम · अध्याय 1.12
अथ शेषार्थसिद्ध्यर्थं स्कन्धानस्यात एव सः
त्रीन्निश्चकर्ष सत्त्वादि भूयिष्ठानीशशक्तिगः ॥
तैजसो वैकृतो यो ऽन्यो भूतादिरिति संस्मृतः
तेभ्यः समात्रका देवा मात्रेभ्यो भूतपञ्चकम् ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह
प्रकाशान्वयतः सात्त्वास् तैजसश्च स सात्त्विकः ॥
वाणी पाणी भगः पायुः पादौ चेति रजोभुवः
कर्मान्वयाद्रजोभूयान् गणो वैकारिको ऽत्र यः ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
गुणाविशिष्टास्तन्मात्रास् तन्मात्रपदयोजिताः ॥
प्रकाशकर्मकृद्वर्ग वैलक्षण्यात्तमोभवाः
प्रकाश्यत्वाच्च भूतादिर् अहङ्कारेषु तामसः ॥
देवप्रवर्तकं शीघ्र कारि संकल्पधर्मि च
मनः शब्दादिविषये ग्राहकाः श्रवणादयः ॥
वचनादानसंह्लाद विसर्गविहृतिक्रियाः
वागादीनां पदान्यत्वं पदे सत्यप्यतद्गुणाः ॥
आत्मेन्द्रियार्थनैकृष्ट्ये सर्वदेवाप्रवृत्तिता
प्रवृत्तिकारकास्तित्वं युक्तितो ऽप्यवसीयते ॥
तत्त्वान्तरोक्तवृत्तिभ्यो वैलक्षण्याद्विलक्षणः
संकल्पो बीजमभ्येति मनस्तत्पारिशेष्यतः ॥
ज्ञानं तदक्षयोगात्तत् क्रमयोगितया क्रमात्
तथाप्याभाति युगपन् नाशुसंचरणादृते ॥
नियतार्थतयाक्षाणि नानायोनीनि कस्यचित्
गन्धादिव्यञ्जकत्वाच्च तदाधारात्मकान्यपि ॥
शब्दैकग्राहकं श्रोत्रं स्पर्शैकग्राहिणी च त्वक्
तथास्तु यदि नादत्ते सगुणं कारणान्तरम् ॥
त्वगिन्द्रियमयुक्तार्थ ग्राहि युक्तपराङ्मुखम्
तेजोवारिमहीद्रव्यं दृगादत्ते सरूपकम् ॥
ततस्त्रिद्रव्यजा सा स्यान् न परेणेष्यते तथा
येनोपलभ्यते यो ऽर्थः स तस्यार्थस्य कारणम् ॥
न प्राप्तमपि कर्मादि सेयं व्यसनसन्ततिः
कर्णरन्ध्रविशिष्टं खं शब्दवर्गावभासकम् ॥
नासारन्धविशिष्टं तद् ब्रूत केन निवार्यते
तददृष्टावरुद्धं वा तदप्यन्यत्र किं कृतम् ॥
प्राप्तं गृह्णाति नातोद्ये शप्तं केनापि दस्युना
युक्त्यगम्ये ऽपि सद्वाक्यात् प्रतीतिरौपद्रवा ॥
मितार्थादमितार्थस्य ज्यायस्त्वमिति सूरयः
व्योमप्रभञ्जनाग्न्यम्बु भूमयो भूतपञ्चकम् ॥
शब्दाद्येकोत्तरगुणम् अवकाशादिवृत्तिमत्
धूननज्वलनप्लाव खरत्वावेदिनो गुणाः ॥
शब्दा वाय्वादिषु व्योम्नि सवर्णप्रतिशब्दगाः
व्यूहो ऽवकाशदानं च पक्तिसंग्रहधारणाः ॥
वायुव्योमहुताशाम्बु धरणीनां च वृत्तयः
शब्दः खगुण एवेति तदन्यत्रोपलब्धितः ॥
ब्रुवते भगवन् केचित् सर्वभूतगुणः कथम्
क्वान्यत्र श्रवणाकाशे कथमन्यत्र तद्गुणः ॥
परेष्टादाश्रयात्तत्र निर्णेतानुभवो नृणाम्
कदाचित्कर्णमूले ऽपि संविदित्यथ मन्यसे ॥
श्रोत्रवृत्तिवदस्यापि परिणामो ऽस्तु का क्षतिः
आगमाध्यक्षविहता हेतवो नार्थसाधकाः ॥
कालात्ययापदिष्टत्वाद् इति न्यायविदो विदुः
इत्यपि स्थितमेवायं गन्धो ऽप्यस्तु नभोगुणः ॥
येन केतकपुष्पादेर् वैकृष्ट्ये ऽप्युपलभ्यते
इति पञ्चसु शब्दो ऽयं स्पर्शो भूतचतुष्टये ॥
अशीतोष्णो महीवाय्वोः शीतोष्णौ वारितेजसोः
भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥
रूपं त्रिषु रसो ऽम्भःसु मधुरः षड्विधः क्षितौ
गन्धः क्षितावसूरभिः सुरभिश्च मतो बुधैः ॥
देहे ऽस्थिमांसकेशत्वङ् नखदन्तेषु चावनिः
मूत्ररक्तकफस्वेद शुक्रादौ वारि संस्थितम् ॥
हृदि पक्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात्
प्राणादिवृत्तिभेदेन नभस्वानुक्त एव ते ॥
गर्ववृत्त्यनुषङ्गेण खं समस्तासु नाडिषु
प्रयोक्त्र्यादिमहीप्रान्तम् एतदण्वर्थसाधनम् ॥
प्रत्यात्मनियतं भोग भेदतो व्यवसीयते
सर्वतो युगपद्वृत्तेर् अनुत्पादादसर्वगम्
भिन्नजातीयमप्येक फलं दीपाङ्गवस्तुवत् ॥
इत्यातिवाहिकमिदं वपुरस्य जन्तोश् चित्सङ्गचिद्गहनगर्भविवर्ति लेशात्
नैतावतालमिति भौवनतत्त्वपङ्क्तिम् आधारदेहविषयाभ्युदयाय वक्ष्ये ॥
मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0